भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 7

7.2

लघ्वर्थम् सङ्ख्यास्थानानि प्रक्रम्यन्ते । अन्यथा हि सङ्ख्यास्थान निरूपणाभावात् गुरुः गणितविधिः स्यात् । कथम्? रूपबहुत्वस्थापनायाम् रूपाणि बहूनि स्थापयितव्यानि भवन्ति । सत्याम् पुनः स्थानकल्पनायाम् यत् रूपैः बहुभिः निर्वर्त्यम् कर्म तत् एकेन एव निर्वर्तयितुम् शक्यते ।
एकम् च दश च शतम् च सहस्रम् । एतेषाम् एकदशशतसहस्राणाम् प्रथमद्वितीयतृतीयचतुर्थानि स्थानानि । तु पादपूरणे । अयुतनियुते अयुतम् च नियुतम् च अयुतनियुते । अयुतस्य पञ्चमम् स्थानम् । दशसहस्राणि अयुतम् । नियुतस्य षष्ठम् स्थानम् । नियुतम् लक्षः । तथा तेन एव प्रकारेण प्रयुतस्य सप्तमम् स्थानम् । दशलक्षाः प्रयुतम् । कोटिः, कोट्याः अष्टमम् स्थानम् । लक्षाः शतम्, कोटिः । अर्बुदम्, अर्बुदस्य नवमम् स्थानम् । दशकोट्यः
अर्बुदम् । वृन्दम्, वृन्दस्य दशमम् स्थानम् । कोटिशतम् वृन्दम् ।
स्थानात् स्थानम् दशगुणम् स्यात् । स्थानात् स्थानम् अन्यत् दशगुणम् स्वपरिकल्पितस्थानात् उत्तरम् स्थानम् दशगुणम् भवति इति यावत् । किम् अर्थम् इदम् उच्यते । ननु च एतानि स्थानानि अनन्तरापेक्षया दशगुणानि एव । यदि एभ्यः अन्यस्थानपरिग्रहार्थम् वचनम् तथा सति स्थानाभिधानम् अनर्थकम् । कुतः? स्थानात् स्थानम् दशगुणम् स्यात् इति अनेन एव अभिहिता, अभिहितस्थानपरिग्रहस्य सिद्धत्वात् । न एषः दोषः । स्थानात् स्थानम् दशगुणम्
स्यात् इति एतत् लक्षणम् । एकादीनि स्थानानि अस्य लक्षणस्य उदाहृतानि । न एतत् अस्ति । न हि सूत्रकाराः संक्षेपविवक्षवः लक्षणम् उदाहरणम् ब्रूयुः । न एवम् विज्ञायते । यदा लक्षणम् उदाहरणम् च निरर्थकम् तर्हि एकादिवृन्दानतायाः सङ्ख्यायाः संज्ञाः निरूप्यन्ते । स्थानात् स्थानम् दशगुणम् इति एकादिसंख्यायाः स्थाननिरूपणमात्रम् एव उपदिश्यते, उपयोगाभावात् न सङ्ख्यासंज्ञा ।
अत्र एतत् प्रष्टव्यम् ã का एषाम् स्थानानाम् शक्तिः, यत् एकम् रूपम् दश शतम् सहस्रम् च भवति । सत्याम् च एतस्याम् स्थानशक्तौ क्रायकाः विशेषेष्टक्रय्यभोजनाः स्युः । क्रय्यम् च विवक्षातः अल्पम् बहु च स्यात् । एवम् च सति लोकव्यवहारान् यथाभावप्रसङ्गः । न एषः दोषः । स्थाने व्यवस्थितानि र्तूपाणि दशादीनि कृतानि । किम् तर्हि तैः? तानि प्रतिपाद्यन्ते लेखागमन्यायेन । अथवा लघ्वर्थम् स्थानानि प्रक्रम्यन्ते इति उक्तम् अस्माभिः ।
न्यासः च स्थानानाम् ã
0 0 0 0 0 0 0 0 0 0

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc