आर्यभटीय (टीका सहित) · अध्याय 41
वर्षम् अब्दः समाः संवत्सरः इति पर्यायाः । अयम् वर्षशब्दः नपुंसकलिङ्गः समायाम् वर्तते । तस्य वर्षस्य प्रमाणम् द्वादश मासाः । द्वौ च दश च द्वादश । मासाः संवत्सरस्य शाखाः । त्रिंशद्दिवसः भवेत् स मासः तु । त्रिंशत् सङ्ख्या । दिवसाः दिनानि अहानि इति पर्यायाः । भवेत् स्यात् । स यः असौ मासः अभिहितः सः त्रिम्शद्दिवसः इति अर्थः । षष्टिः नाड्यः दिवसः । तस्य दिवसस्य एकस्य प्रमाणम् षष्टिः नाड्यः । नाड्यः घटिकाः । षष्टिः
च विनाडिका नाडी । तस्याः नाड्याः प्रमाणम् विनाड्यः षष्टिः । विनाड्यः विघटिकाः ।
अत्र उच्यते ã "वर्षम् द्वादश मासाः" इति आदि न आरब्धव्यम्, लोकप्रसिद्धत्वात् । सर्वेषु एव अयम् न्यायः लोकवेदप्रसिद्ध्या अङ्गीकरणीयः । "वर्षम् द्वादशमासाः" इति आदि विना अपि लक्षणेन लोकः जानीते, तथा च भृतकेभ्यः भुक्तवेतनम् ददाति । यदि लोकप्रसिद्धम् अपि अभिधीयते तदा अत्र बहु वक्तव्यम् जायते । "नृषि योजनम्", [गीतिकाí, 7] "स्चाङ्गुलः घहस्तः ना" [गीतिकाí, 8] इति अत्र
यव-सर्षप-यूक-लिक्षा-वालाग्र-रथरेणु-त्रसरेणुस्थूलसूक्ष्मपरमाणूनाम् प्रमाणम् वक्तव्यम् । त्रैराशिके च अनेकजनपदव्यवहारात्मिका परिभाषा वक्तव्या । अथ यदि अपि लोकप्रसिद्धिः अङ्गीक्रियते तथा अपि तु "वर्गाक्षराणि वर्गे" [गीतिकाí, 2] इति अत्र वर्गावर्गाक्षरस्वरनिरूपणम् वक्तव्यम् एव । कुतः? लोकाप्रसिद्धेः । [यदि एवम् तदा] व्याकरणे वर्गावर्गाक्षर[स्वरनिरूपणम् अनर्थ]कम् । न एष दोषः । लोकः पूर्वाचार्याः अबाह्यशास्त्राणाम्
प्रणेतारः इति उक्तम् । "वर्गाक्षराणि वर्गे" [गीतिकाí, 2] इति अत्र वर्गावर्गाक्षरस्वरनिरूपणायाम् व्याकरणम् अबाह्यम् शास्त्रम् । "गुर्वक्षराणि षष्टिः विनाडिका" [कालक्रियाí, 2] इति अत्र गुर्वक्षराणाम् लक्षणम् वक्तव्यम् । यदि "वर्षम् द्वादश मासाः" इति आदि ग्रन्थः न आरभ्यते तदा एतत् सर्वम् लोकप्रसिद्ध्या सेत्स्यति । तस्मात् अप्रत्यायनम् एव अस्तु । न एष दोषः । अनारभ्यमाणायाम् अस्याम् परिभाषायाम् सावनस्य एव मानस्य एते भेदाः स्युः न सौरचान्द्रनाक्षत्राणाम्,
यस्मात् सावनम् एव एकम् मानम् लोकप्रसिद्धम्, न सौरचान्द्रनाक्षत्राणि । तत् सर्वेषु एव मानेषु इयम् एव परिभाषा यथा स्यात् इति [सूत्रम् आरब्धव्यम्] ।
अन्यथा हि "रविमासेभ्यः अधिकाः तु ये चान्द्राः" [कालक्रियाí, 6] इति अत्र रविभगणानाम् द्वादश गुणकारः न लभ्येत, "शशिदिवसाः विज्ञेयाः भूदिवसोनाः तिथिप्रलयाः" [कालक्रियाí, 6] इति अत्र शशिदिवसानाम् त्रिंशत्कः गुणकारः न लभ्येत, "षष्टिः नाड्यः दिवसः" इति अत्र अपि होराशास्त्राविरोधेन षष्टिः नाड्यः परिकल्पिताः । अन्यथा हि इच्छया विभागः दिवसस्य शक्यते परिकल्पयितुम् । इच्छया विभागे परिकल्प्यमाने कः पुनर् होराशास्त्रविरोधः?
उच्यते ã
आद्यन्तराश्योरुदयप्रमाणम् द्वौ द्वौ मुहूर्तौ नियतम् प्रदिष्टौ ।
इति अत्र द्विनाडिकः मुहूर्तः व्याख्यायते । सा च नाडिका दिवसस्य षष्टिभागः इति । अन्यथा परिकल्प्यमाने अयम् अर्थः अन्यथा स्यात् ।
कथम् पुनर् दिवसस्य षष्टिभागः साध्यते इति अत्र अभिधीयते ã अत्र केचित् ब्रुवते ã "सुवर्णरजतताम्राणाम् अन्यतमम् पात्रम् अर्धवृत्ताकारम् षष्टिपलपानीयाधारकम् पूरकम् निस्रावकम् वा घटिके" इति । न एष नियमः । यावत् पलानि षष्टिः पानीयम् प्रस्रवति आपूर्यते वा, तावता नाडिकाकालः इति । प्राज्ञाः तु न एवम् इति मन्यन्ते । कथम् तर्हि? अहोरात्रप्रस्रुतस्य पानीयस्य षष्टिभागः घटिकाप्रमाणः इति स्थूलः कल्पः, सूक्ष्मः तु समायामवनौ
निर्दिष्टाकारस्य शङ्कोः घटिकाच्छायाम् अङ्कयित्वा घटिका साध्यते, घटिकाछिद्रम् च छायाकालवशात् उक्त्या योजयितव्यम्
गुर्वक्षराणि षष्टिः विनाडिका आर्क्षी षट् एव वा प्राणाः ।
एवम् कालविभागः क्षेत्रविभागः तथा भगणात्
गुर्वक्षराणि षष्टिः विनाडिका आर्क्षी । गुरूणि च तानि अक्षराणि च गुर्वक्षराणि, षष्टिः विनाडिका आर्क्षी । यावता कालेन षष्टिः गुर्वक्षराणि पठितानि तावान् कालः विनाडीसंज्ञितः । "गुर्वक्षराणि षष्टिः विनाडिका" इति अनेन सर्वेषाम् एव सौरसावननाक्षत्रचान्द्राणाम् मानानाम् विनाडिकाकालतुल्यतायाम् प्रसक्तायाम् तद्विषयनिरूपणार्थम् आह ã आर्क्षी । कतमा विनाडिका गुर्वक्षराणि षष्टिः? आर्क्षी, न शेषाः । ऋक्षाणि नक्षत्राणि । नक्षत्रशब्देन नाक्षत्रम्
मानम् परिगृह्यते । ऋक्षाणाम् अयम् कालः आर्क्षः । अयम् च कालः विनाडिकाभिधीयमानः स्त्रीत्वम् प्रतिपद्यते इति स्त्रीलिङ्गनिर्देशेन विनाडिका इति उक्तम् ।
षट् एव वा प्राणाः, प्राणाः उच्छ्वासाः, आर्क्ष्यविनाडिकायाः प्रमाणम् । आर्क्ष्यम् च मानम् भचक्रभ्रमणकालम् । यतः आह ã "प्राणेन एति कलाम् भम्" [गीतिकाí, 6] इति । उच्छ्वासकालेन भचक्रम् कलाम् पर्येति, ऋक्षचक्रम् इति अर्थः । अत्र आर्क्षी विनाडिका षट् वा प्राणाः [तुल्याः] । आर्क्षीभिः विनाडिकाभिः [दशभिः] एकांशकः । अतः ज्योतिश्चक्रसम्बन्धिनः प्राणाः लिप्तासङ्ख्याः इति प्राणैः ज्यादिकर्म प्रवर्तते । अन्यथा हि "[फ छ] कलार्धज्याः"
[गिईतिकाí, 12] इति उक्तत्वात् प्राणैः ज्याग्रहणम् न प्राप्नोति । अन्यत् च ã सामान्येन एव "षट् वा प्राणाः विनाडिका" इत् उच्यमाने सर्वमानानाम् एव विनाडिकाकालस्य तुल्यताप्रसङ्गः । अवशिष्टानाम् मानानाम् विनाडिकायाः प्रमाणम् नाडिकायाः षष्टिभागः एव । न तस्याः विनाडिकायाः अवयवप्रमाणाभिधानम् क्रियते, प्रयोजनाभावात् ।
गुर्वक्षरेषु मध्यमवृत्तिग्रहणम् । "गुर्वक्षराणि षष्टिः" इति अत्र मध्यमायाम् वृत्तौ षष्टिः गुर्वक्षराणि विनाडिकाकालः इति वक्तव्यम् । अन्यथा हि तिसृषु अपि वृत्तिषु अविशेषेण ग्रहणम् प्राप्नोति । तत् यथा ã द्रुतायाम् वृत्तौ षष्टिः गुर्वक्षराणि अल्पेन कालेन पठ्यन्ते, बिलम्बितायाम् महता कालेन इति, मध्यमायाम् पुनर् न अल्पेन, न महता कालेन । तत् तर्हि मध्यमवृत्तिग्रहणम् कर्तव्यम् । कथम् अनुच्यमानम् अवगम्यते? लोकप्रसिद्धेः
। तत् यथा ã लोके अनिर्दिष्टेषु कार्येषु मध्यमप्राप्तिः । एवम् अत्र अपि ã "मासान्ते पक्षस्य अन्ते स हि आकाशे देशे स्वम् मिश्रम् वक्रम् कान्तम् वृत्तम् पूर्णम् चन्द्रम् सत्त्वात् रात्रौ ते क्षुत्क्षाम प्रादन्ते श्वेतः प्राज्यः क्रूरः तस्मात् वा अन्ते हर्म्यस्य अन्तः संसुप्तस्य एकान्ते कर्तव्या" । एतानि षष्टिः गुर्वक्षराणि विनाडिकाकालः । षट् एव वा प्राणाः । प्राणाः उच्छ्वासाः । ते वा षट्, तस्याः एव अर्क्ष्यविनाडिकायाः कालः । अत्र अपि स्वस्थस्य अश्रान्तस्य नीरुजस्य योगिनः
प्राणाः परिगृह्यन्ते । अत्र अपि स्वस्थः न महता कालेन उच्छ्वसिति । एवम् [अ]श्रान्तः अपि । योगी न पुनर् व्यानवशान् महता कालेन उच्छ्वसिति । अत्र त्रुटि-त्रुट्यवयवादयः कालावयवाः कस्मात् न उच्यन्ते? एवम् मन्यन्ते ã तैः व्यवहारः न अस्ति इति । व्यवहारार्थम् च कालावयवग्रहणम् इति ।
एवम् कालविभागः । एवम् वर्षमासदिवसघटिकाप्राणाः कालविभागः । किम् अर्थम् इदम् अभिधीयते ã "एवम् कालविभागः" इति । ननु च कालविभागः निर्दिष्टः । एवम् तस्य निर्दिष्टस्य ग्रहणम् "एवम् कालविभागः" इति । अस्य अनभिधानात् शक्यते ज्ञातुम् यथा अप्रपञ्चितप्रमाणः कालविभागः इति । न एष दोषः । "एवम् कालविभागः" एवंप्रकारः कालविभागः इति अर्थः । प्रकारार्थे तु व्याख्यायमाने अन्ये अपि कालविभागाः परिगृहीताः भवन्ति
। तत् यथा ã पञ्चसंवत्सराः युगम्, द्वादशमासाः संवत्सरः, द्वौ मासौ ऋतुः ते च वसन्त-ग्रीष्म-वर्षा-शरद्-हेमन्त-शिशिराख्याः, ऋतुत्रयम् अयनम्, मासार्धम् पक्षः शुक्लः कृष्णः च, दिवसरात्रिचतुर्भागः यामः, द्विनाडिकः मुहूर्तः, इति एवम् आदि ।
क्षेत्रविभागः तथा भगणात् । क्षेत्रम् भगोलः । तस्य क्षेत्रस्य विभागः । तथा तेन एव प्रकारेण । यथा कालस्य विभागः, क्षेत्रस्य अपि भगणात् । कालस्य वर्षात् प्रभृति विभागः उक्तः, क्षेत्रस्य तु भगणात् प्रभृति प्रवृत्तेः । तत् यथा ã द्वादशराशयः भगणः, राशिः त्रिंशत् भागाः, षष्टिः लिप्ता भागः, षष्टिः विलिप्ता लिप्ता, षष्टिः तत्परा विलिप्ता इति ईदृशः । उद्देशकः ã
भगणः राशिः भागः कला च विकला च तत्परा च एव ।
क्षेत्रस्य एताः संज्ञाः कालविभागेन तुल्याः स्युः ॥
[द्वियोगपरिज्ञानम्]
द्वियोगपरिज्ञानाय आर्यापूर्वार्धम् आह ã
भगणाः द्वयोः द्वयोः ये विशेषशेषाः युगे द्वियोगाः ते ।
भगणाः निर्दिष्टाः एव ग्रहाणाम् गीतिकासु । द्वयोः द्वयोः इति वीप्साग्रहणम् त्र्यादिनिवृत्त्यर्थम् । ये विशेषशेषाः, द्वयोः द्वयोः ग्रहयोः भगणानाम् ये विशेषशेषाः भगणाः तावन्तः तयोः युगे द्वियोगाः बभूवुः भविष्यन्ति वा ।
अत्र द्वयोः द्वयोः भगणविशेषाः एव तयोः योगाः इति कथम् अवसीयते, न पुनर् तयोः अभ्यासः योगः वा? उच्यते । तत् यथा ã द्वौ अश्वौ च परिमण्डलारोहे परिकल्पितौ । तत्र एकस्य कक्ष्या षष्टिः धनुषाम्, अपरस्य त्रिंशत् । तौ पञ्चदण्डगती । महति मण्डले यावत् मण्डलचतुर्भागम् गच्छति तावत् अल्पे मण्डले अर्धम् गच्छति । यावत् महति मण्डले अर्धम् गच्छति तावत् सकलम् अल्पमण्दलम् गच्छति । एवम् यावत् महति मण्डले एकः परावर्तः
तावत् अल्पे मण्डले परावर्तद्वयम्, तावति च तयोः एकः योगः । एवम् ग्रहेषु अपि योज्यम् । युज्यते एतत् यदि ग्रहाः समगतयः । समगतयः ग्रहाः इति प्रतिपादयिष्यति ।
उद्देशकः ã गुरोः अङ्गारकस्य च युगे कियन्तः योगाः इति ।
लब्धम् योगाः गगन[जल]दरसयमाग्निरन्ध्रशशाङ्काः [1932600] । एवम् सर्वेषाम् अपि ।
कः पुनर् अत्र द्वियोगानाम् विनियोगः? उच्यते । यदि चतुर्युगाहर्गणेन इष्टग्रहयोः द्वियोगाः लभ्यन्ते, [तर्हि] कलियाताहर्गणेन कियन्तः इति लब्धम् समतिक्रान्ताः द्वियोगाः । शेषम् गतगन्तव्यम् कृत्वा युगद्वियोगैः विभजेत् । लब्धम् गतगन्तव्यदिवसा इति एकः विनियोगः । [शेषम् षष्ट्या सङ्गुण्य युगद्वियोगैः विभजेत् लब्धम् घट्यादि ।] यदि चतुर्युगाहर्गणेन इष्टग्रहयोः द्वियोगाः लभ्यन्ते [तर्हि] कलियाताहर्गणेन कियन्तः इति लब्धम् समतिक्रान्ताः
द्वियोगाः । शेषे द्वादशादिगुणिते रास्यादिलब्धिः । तैः द्वियोगराश्यादिभिः मन्दगतिग्रहः युक्तः शीघ्रगतिग्रहः भवति । शीघ्रगतिः च द्वियोगराश्यादिहीनः मन्दगतिः भवति इति अपरः विनियोगः । द्वियोगैः च राश्यादीन् आनीय तयोः अपि भगणसमासेन अपि भगणसमासगतभगणराश्यादीन् विधाय "अन्तरयुक्तम् हीनम्" [गणितí, 24] इति अनेन एकत्र क्षिपेत् एकत्र विशोधयेत्, क्षिप्तविशोधितयोः अर्धम् तयोः गतभगणराशिभागलिप्ताः इति अन्यः विनियोगः
। कुट्टाकारविनियोगः तु प्रदर्शितः एव इति ।
[युगे व्यतीपातसंख्या]
व्यतीपातज्ञानाय आर्यापश्चार्धम् आह ã
रविशशिनक्षत्रगणाः सम्मिश्राः च व्यतीपाताः
नक्षत्राणाम् गणाः नक्षत्रगणाः । नक्षत्राणि अश्विन्यादीनि । रविः च शशी च रविशशी । रविशशिनः नक्षत्रगणाः चन्द्रादित्यभगणाः इति यावत् । ते च रसदहनशिखिगुणशैलाकाशयमर्तवः [62073336] । एते व्यतीपाताः । सम्मिश्राः च व्यतीपाताः । सम्मिश्राः एकीकृताः । केन संमिश्राः? अन्यस्य अश्रुतत्वात्, रविशशिभगणाः नक्षत्रगणैः एव । ते एव व्यतीपाताः द्विगुणिताः इति अर्थः । ते च द्विशैलरसर्तुमनुकृतरवयः [124146672] ।
अथ एतौ व्यतीपातौ अभिहितौ द्वादशषड्राश्यात्मकौ । अत्र इदम् प्रष्टव्यम् ã [किम् इदम्] व्यतीपातयोः उदाहरणम् आहोस्वित् लक्षणम् इति? यदि इदम् उदाहरणम् तदा सर्वम् इष्टम् सेत्स्यति, तत् अस्तु उदाहरणम् इति । तत् यथा ã चन्द्रादित्यौ स्फुटीकृतौ यदि एकत्र द्वादशराशयः तदा व्यतीपातः । ननु च लोके द्वादशराशिकः वैधृतः इति प्रसिद्धम् ? न एषः दोषः । संज्ञाकृतः भेदः न फलम् प्रति, यस्मात् व्यतीपातस्य वैधृतस्य च तुल्यम् फलम्
भगवद्भिः गर्गादिभिः उपदिष्टम् । तौ एव सूर्याचन्द्रमसौ स्फुटौ एकत्र यदि षड्राशयः तदा अपि व्यतीपातः ।
अथ व्यतीपातस्य अतीतैष्यपरिज्ञानार्थम् त्रैराशिकम् ã यदि सूर्याचन्द्रमसोः स्फुटभुक्तिसमासेन षष्टिघटिकाः लभ्यन्ते, [तदा] अनेन अतीतैष्येण कियत्य इति लभ्दम् घटिकाः विघटिकाः च । अथवा अतीतैष्यव्यतीपातकालिकौ सूर्याचन्द्रमसौ ज्ञातुम् इच्छति, तदा अतीतैष्येण सह त्रैराशिकम् ã यदि सूर्याचन्द्रमसोः स्फुटभुक्तिसमासेन सूर्यभुक्तिः चन्द्रभुक्तिः वा लभ्यते, [तदा] अनेन अतीतैष्यसूर्याचन्द्रमसोः भुक्तिसमासेन किम् इति भुक्तिः
लभ्यते । तेन रहितौ सहितौ सूर्याचन्द्रमसौ व्यतीपातकालिकौ । एवम् स्थूला व्यतीपातभुक्तिः । यथा सूक्ष्मा भवति तथा प्रदर्श्यते । उक्तम् च ã
नानायने व्यतीपातः तुल्यापक्रमयोः तयोः ।
उद्देशः तस्य चक्रार्धम् विक्षेपम् च अधिकोनकम् ॥
[महाभास्करीयम्, 4.36 ]
इति । सूर्याचन्द्रमसौ नानायने तुल्यापक्रमौ यदा भवतः तदा व्यतीपातः, चन्द्रस्य विक्षेपसहितः रहितः वा अपक्रमः । अस्मिन् किल व्यतीपातयोगे क्षीरतरुशाखावच्छेदे विगतक्षीरता
[ युगे ग्रहोच्चनीचभगणाः ]
उच्चनीचपरिवर्तज्ञानार्थम् आह ã
स्वोच्चभगणाः स्वभगणैः विशेषिताः स्वोच्चनीचपरिवर्ताः ।
स्वोच्चभगणाः स्वभगणैः विशेषिताः । स्वकीयम् उच्चम् स्वोच्चम्, तस्य स्वोच्चस्य भगणाः स्वोच्चभगणाः । अत्र ग्रहाणाम् उच्चद्वयम्, मन्दोच्चम् शीघ्रोच्चम् च । अत्र कतरत् उच्चम् परिगृह्यते? शीघ्रोच्चम् इति आह । मन्दोच्चस्य यदि अपि गतिः अभ्युपगता तथा अपि युगभगणस्य व्यवहारः न अस्ति इति शीघ्रोच्चभगणाः एव परिगृह्यन्ते । स्वभगणैः विशेषिताः स्वोच्चनीचपरिवर्ताः । उच्चभगणानाम् स्वभगणानाम् च यः विशेषः स उच्चनीचपरिवर्तः
। यस्मात् नैरंश्यात् यावत् नैरंश्यम् तावत् उदयास्तमयवक्रानुवक्राः भवन्ति इति उच्चपरिवर्तः परिकल्पितः । ये निरंशद्वयान्तरे दिवसाः ते परिवर्तस्य दिवसाः । परिवर्ताः ग्रहाः च युगादौ मेषादितः प्रवृत्ताः । मीनान्ते शीघ्रभगणपरिसमाप्तिः । ग्रहभोगाधिकः शीघ्रभोगः परिकल्पितः । उच्चनीचपरिवर्ताः । उच्चपरिवर्ताः नीचपरिवर्ताः च तावन्तः एव, यस्मात् एकस्मिन् निरंशद्वयान्तरेषु ग्रहस्य उच्चनीचप्राप्ती संभवतः ।
अथ कः पुनर् उच्चः, कः वा नीचः इति? यत्र ग्रहाः सूक्ष्माः लक्ष्यन्ते कर्णस्य महत्त्वात् स आकाशप्रदेशः उच्चसंज्ञितः । यत्र असौ एव ग्रहः महाबिम्बः लक्ष्यते कर्णस्य अल्पत्वात् स आकाशप्रदेशः नीचसंज्ञितः इति ।
अथ परिवर्तैः अपि उच्चम् केन्द्रम् वा आनीयते । कथम्? यदि चतुर्युगाहर्गणेन एते उच्चनीचपरिवर्ताः लभ्यन्ते, तदा कलियाताहर्गणेन कियन्तः इति लब्धम् समतिक्रान्ताः परिवर्ताः, शेषे द्वादशा[दिगुणिते] राश्यादिकः परिवर्तभोगः । परिवर्तभोगरहितः ग्रहः ग्रहसहितः वा परिवर्तभोगः उच्चभोगः । उच्चभोगसहितः परिवर्तभोगः [परिवर्तभोगरहितः वा उच्चभोगः ] ग्रहभोगः । परिवर्तभोगः एव केन्द्रभोगः । अन्यत् च द्वियोगाभिहितेन
समानम् ।
अथ "भगणाः द्वयोः द्वयोः ये विशेषशेषाः युगे द्वियोगाः ते" [कालक्रियाí, 3] इति अस्याम् एव कारिकायाम् ननु गतः अयम् अर्थः किम् अत्र अभिधीयते? उच्चनीचपरिवर्तसंज्ञार्थम् अयम् आरम्भः । तत्र द्वियोगमात्रम् एव प्रतिपादितम् । अथ च तत् द्वयोः द्वयोः ग्रहयोः भगणविशेषः इति अभिहितः । न उच्चग्रहभगणविशेषः इति [ पृथक् उक्तिः ] ।
[अश्वयुजाद्याः गुर्वब्दाः ]
गुरुवर्षनिरूपणाय आह ã
गुरुभगणाः राशिगुणाः अश्वयुजाद्याः गुरोः अब्दाः
गुरुभगणाः राशिगुणाः । गुरोः भगणाः गुरुभगणाः, बृहस्पतिभगणाः इति यावत् । राशिगुणाः द्वादशगुणाः इति यावत् । अश्वयुजाद्याः गुरोः अब्दाः । अश्वयुक् अब्दः, आदौ भवति [इति] आद्यः, अश्वयुक् आद्यः येषाम् ते अश्वयुजाद्याः । गुरोः अब्दाः गुरोः संवत्सराः इति अर्थः । ते च अश्वयुक्-कार्तिक-मार्गशीर्ष-पौष-माघ-फाल्गुन-चैत्र-वैशाख-ज्येष्ठ-आषाढ-श्रावण-प्रौष्ठपदाख्याः । अत्र त्रैराशिकम् ã यदि चतुर्युगाहर्गणेन एते गुरोः अब्दाः
वसुवसुरसाकाशमुनिदहनकृताः [4370688] [लभ्यन्ते, तदा] कलियाताहर्गणेन कियन्तः इति । लब्धाः समतिक्रान्ताः समाः । लब्धासु समासु द्वादशभक्ते, शेषाः अश्वयुजाद्याः समाः । कथम् इदम् विज्ञायते अश्वयुजाद्याः समाः इति ? उच्यते ã "अश्वयुजाद्याः गुरोः अब्दाः" इति वचनात् । ननु तत् एव वचनम् अस्माभिः चोदितम् परिहारः अपि अस्माभिः उच्यते । यस्मात् युगादौ अश्विन्याम् अमरपतिगुरुरुदयशिखरिशिखरमधिरूढः तस्मात् अश्वयुजाद्याः गुरोः समाः
।
उक्तम् च ã
यस्मिन् उदेति नक्षत्रे प्रवासोपगतः अङ्गिराः ।
संवत्सरः तदृक्षादिः बार्हस्पत्यः प्रगण्यते ॥
इति ।
अथ वसुवसुरसाकाशमुनिदहनकृतसङ्ख्यैः [4370688] त्रैराशिकेन बृहस्पतिः अपि आनीयते । कथम्? यदि चतुर्युगाहर्गणेन वसुवस्वादयः बृहस्पतिराशयः लभ्यन्ते, [तदा] कलियाताहर्गणेन कियन्तः इति लब्धाः राशयः । शेषे त्रिंशदादिगुणिते भागलिप्ता[दयः] । एवम् इदम् अर्थात् आपन्नम् भवति । ये समतिक्रान्ताः गुरोः राशयः ते समतिक्रान्ताः गुरोः अश्वयुजाद्याः संवत्सराः, शेषे च वर्तमानः इति ।
अथ वसुवस्वादयः गुरोः संवत्सराः इति अभिधीयन्ते । ननु च तैः युगसंवत्सरैः तुल्यैः भवितव्यम्? न इति आह । ये युगसंवत्सराः ते सौर्येण मानेन दृष्टाः, अम् च ये गुरोः अब्दाः ते गुरुमानेन । त्तत् एव युगम् सौर्येण अनुमीयमानम् गगनजलदबिन्दुमे[घ]यमहुताशकृत [4320000] सङ्ख्यम् । तत् एव बार्हस्पत्येन वसुवस्वादि [4370688] सङ्ख्यम् । बार्हस्पत्याब्दम् बृहस्पतेः राशिभोगः इति न सौर्यबार्हस्पत्यौ तुल्यौ इति
[ सौरचान्द्रसावननाक्षत्रमानानि ]
सौर-चान्द्र-सावन-नाक्षत्रमानप्रदर्शनार्थम् आह ã
रविभगणाः रव्यब्दाः रविशशियोगाः भवन्ति शशिमासाः ।
रविभूयोगाः दिवसाः भावर्ताः च अपि नाक्षत्राः
रविभगणाः रव्यब्दाः । रवेः भगणाः, रविभगणाः, रव्यब्दाः, रविवर्षाणि इति यावत् । ये एव रविभगणाः ते एव रव्यब्दाः । तथा इदम् अनुक्तम् अपि गम्यते रविराशि-भाग-लिप्ता रविमास-दिवस-नाड्यः इति । यस्मात् द्वादशराशयः भगणः, त्रिंशद्भागा राशिः, भागषष्ट्यवयवः लिप्ता, षड्राशयः अयनम् उत्तरम् दक्षिणम् च मकरकुलीरादितः इति । कथम् इदम् अवसीयते मकरकुलीरादितः इति न पुनर् धनिष्ठादेः आश्लेषार्धात् इति, यस्मात् उक्तम्
ã
अर्धाश्लेषात् श्रविष्ठादेः प्रवृत्ते दक्षिणोत्तरे ।
क्षेमसस्यसुभिक्षाख्ये तु अयने घर्मतेजसः ॥ इति ।
अत्र उच्यते ã श्रुत्योः भिन्नवाक्यता । शक्यते एव तत् वक्तुम्, अदृष्टार्थत्वात् । "श्रुत्यर्थानुष्ठानफलस्य सर्वशाखाप्रत्ययम् एकम् कर्म" इति । श्रुतिस्मृत्योः पुनर् भेदे या च स्मृतिः प्रत्यक्षाविरुद्धा सा परिगृह्यते । इयम् अस्माकम् स्मृतिः प्रत्यक्षाव्यभिचारिणी, यतः प्रत्यक्षेण एव उत्तरदक्षिणप्रवृत्तिः मकरकर्कटादितः एव उपलक्ष्यते । कथम्? यस्मात् धनुषः अन्ते मकरादिस्थिते विध्वस्ताशेषध्वान्तसंघाते भगवति भास्करे दिनमध्यंगते
सर्वमध्याह्नच्छायाभ्यः महती मध्याह्नच्छाया लक्ष्यते । सा च क्रमेण अपचीयमाना मकरादितः एव, न श्रविष्ठादेः । यत् च कर्कटादौ सर्वमध्याह्नच्छायाभ्यः स्वल्पीयसी मध्याह्नच्छाया, सा च क्रमेण उपचीयमाना कर्कटादितः एव, न अश्लेषार्धात् इति अतः प्रत्यक्षसिद्धम् अयनम् ।
अथवा अयम् अन्यार्थपरः एव ग्रन्थः । कर्कटादेः दक्षिणायनम् मकरादेः च उत्तरायणम् इति एतस्य अभ्युपगमात् एव उच्यते ã यदा भवगान् भास्करः अर्धाश्लेषात् दक्षिणम् मार्गम् प्रवर्तते पुनर् वस्वोः चतुर्थांशदिम् [अर्थात् कर्कटादिम्] परित्यज्यते तदा क्षेमसस्यसुभिक्षाः भवन्ति । यदा च मकरादिम् परित्यज्य श्रविष्ठादेः उत्तरम् [मार्गम्] प्रतिपद्यते तदा च तत्फलार्थत्वम् इति । अथ अयम् विवस्वान् कथम् एवम् प्रवर्तते इति?
उच्यते ã ग्रहाणाम् द्वयी गतिः, सङ्ख्यानुगता औत्पातिकी च । यदा औत्पातिकी गतिः एवम् प्रकारा भवति तदा क्षेमसस्यसुभिक्षाख्ये अयने [भवतः] । यदा पुनर् कर्कटमकरादिम् अप्राप्त्वा एव दक्षिणोत्तरप्रवृत्तिनिवृत्ती भवतः तदा अक्षेमा असस्या असुभिक्षा इति एतत् प्रदर्शयति ।
अपि अत्र अविदितपरमार्थाः रोमकाः पठन्ति ã
वसुदैवादिसार्पार्धात् अयनम् मुनयः जगुः ।
मृगकर्क्यादितः दृष्टम् कथम् तत् हि गतेः विना ॥
इति आदिग्रन्थेन । क्षुद्रविद्रावणोपन्यासक्रमेण युगभगणान् आहुः ã
तस्मात् अत्र वियद्रुद्रकृतनन्दधृतीः (1894110) युगम् ।
भगणान् सप्तविश्वाख्यानादित्यान्त्योत्क्रमात् क्रमात् ॥ इति ।
अत्र कथम् इदम् घटते यदि उत्क्रमेण क्रमात् वा पुनर् वस्वोः मेषादेः अपि दक्षिणायनम् प्रवर्तते न कर्कटादौ एव? तथा च वर्षाऋतुः मेषादेः प्रवर्तेत [मकरादेः] वसन्तः । तथा च कालविपर्यासः प्रसज्येत । एवम् च श्रुत्यर्थः न अनुष्ठितः भवति । "वसन्ते यजेत", चैत्रवैशाखौ वसन्तः, "मधुः च माधवः च वासन्तिकौ ऋतू" [तैत्तिरीयसंहिता, 4.4.11] । तथा च "शरदि वाजपेयेन यजेत्", अश्वयुक्कार्तिकौ शरत्, "इषः च ऊर्जः च शारदौ
ऋतू" [तैत्तिरीयसंहिता, 4.4.11] इति । इदम् च ज्योतिषाम् अयनम् अङ्गम् वेदस्य । तस्मात् न अयनस्य गतिः । मकरकर्कटादितः अयनम् इति । सर्वसिद्धान्तगुरुः आचार्यलाटदेवः आह ã
मकरादौ उदगयनम् दक्षिणम् अयनम् च चन्द्रभवनादौ ।
इति ।
ऋतुनिश्चयाय आह ã
ऋतवः शिशिर-वसन्त-ग्रीष्म-घनागम-शरद्-हिमागमनाः ।
मकरात् राशिद्वयगतदिनकरभोगस्थितिसमानाः ॥
इति ।
अन्यत् च ã अपक्रमवृद्धिः धनुः मिथुनान्ते एव इति । रात्रिदिवसयोः महती वृद्धिः मकरकर्कटादौ एव, न अन्यतः एव इति । प्रत्यक्षसिद्धम् इदम् इति । अतः अयनयुगभगणपरिकल्पना मुधा ।
अथ इदम् प्रष्टव्यम् ã स्फुटगत्या परिगह्यन्ते आहोस्वित् मध्यमगत्या इति । यदि मध्यमगत्या, [तदा] यानि सौर्यमानाभिहितानि प्रयोजनानि तानि मध्यमगत्या प्राप्नुवन्ति, स्फुटगत्या चेष्यन्ते । कानि पुनर् तानि प्रयोजनानि इति? उच्यते ã
वायोः मूर्च्छनम् अभ्राणाम् उत्पत्तिः चक्षुषोः बलम् ।
शीतोष्णवर्षप्राप्तिः च प्रसादः सलिसस्य च ॥
सत्त्वानाम् मदलाभाः स्युः आर्तवः च अपि योषिताम् ।
फलपुष्पोद्गमम् च एव पत्राङ्कुरविरोहणम् ॥
अयनाना[म् ऋतूनाम्] च मुहूर्तानाम् च दर्शनम् ।
परिवेषपरीधानम् परिधीनाम् तथा एव च ॥
गन्धर्वनगराणाम् च तथा इन्द्रधनुषाम् अपि ।
उल्कानाम् अशनीनाम् च सन्ध्ययोः विद्युताम् तथा ॥
भूरथाभ्रनिनादानाम् धिष्ण्यानाम् पतनस्य च ।
ज्योतिषाम् वर्णभेदस्य ग्रहाणाम् चेष्टितस्य च ॥
अग्नेः औष्ण्यस्य शक्त्योः च विलयस्य उद्भवस्य च ।
सौरम् मानम् विजानीयात् प्रवर्तकनिवर्तकम् ॥
इति आदि प्रयोजनानि ।
यदि स्फुटगत्या तत् एतानि प्रयोजनानि परिगृहीतानि भवन्ति, इदम् तु न सिद्ध्यति अधिकावमानाम् ग्रहणम् । यस्मात् अधिकावमानाम् ग्रहणम् मध्यमेन मानेन । अथ कथम् स्फुटार्थम् वचनम् मध्यमगतिप्रतिपत्तये भविष्यति । अथ मध्यमगतिप्रतिपत्तये स्फुटार्थम् कथम् इति । न एषः दोषः । "शल्यर्थम् कुल्याः प्रणीयन्ते, ताभ्यः च पानीयम् पीयते, तासु च उपस्पृश्यते" [अष्टाध्यायी, 1.1.22 पातञ्जलभाष्यम्] इति सिद्धम् । एतत् उभयग्रहणात्
उभयम् अत्र परिगृह्यते इति मध्यमगत्या स्फुटगत्या च । मध्यमगत्या अधिकावमानाम् ग्रहणम् सिद्धम्, स्फुटगत्या च संहिताकाराभिहितानि प्रयोजनानि ।
रविशशियोगाः भवन्ति शशिमासाः । रवेः शशिनः च योगाः रविशशियोगाः । भवन्ति शशिमासाः । ये युगे रविशशियोगाः अभिहिताः ते शशिमासाः । ते च प्राग् यथा सिद्ध्यन्ति तथा व्याख्यातम् । शशिमासैः शशिदिवसघटिकाः व्याख्याताः । शशिमासेन कानि पुनर् प्रयोजनानि?
दर्शम् च पौर्णमासम् च तथेज्याद्याः क्रिया भुवि ।
पर्वाणाम् च परिज्ञानम् तिथीनाम् प्रत्ययः तथा ॥
प्राबल्यम् औषधीनाम् च रसानाम् व्यक्तिः एव च ।
पूरणम् हीनता च इन्दोः तथा एव लवणाम्भसः ॥
गर्भाणाम् जीवनम् च अपि तथा अपि अयनम् एव च ।
राहोः आगमनप्राप्तिः [च] ऐन्दवम् मानम् आश्रिताः ॥
एवम् आदीनि प्रयोजनानि ।
रविभूयोगाः दिवसाः । रवेः भुवः च योगाः रविभूयोगाः । ये युगे रविभूयोगाः ते युगे भूदिवसाः । भूदिवसः नाम रवेः अर्धोदयात् प्रभृति पुनर् अर्धोदयम् इति । सावनः दिवसः भूदिवसः इति उच्यते । रोमकैः स एव भूदिवसः रव्युदयः इति संज्ञितः । कानि पुनर् सावनमानस्य प्रयोजनानि?
यज्ञकालपरिज्ञनम् यज्ञेषु सवनानि च ।
व्रतः दीक्षणकालः च चूडोपनयनानि च ॥
आयुषाम् च अपि निर्लेखा प्रयोगाणाम् च वृद्धयः ।
ग्रहचारपरिज्ञानम् आदेशगमनानि च ।
यानि च अपि एवम् आदीनि सङ्ख्योद्दिष्टानि तानि वै ।
सावनेन एव मानेन गण्यन्ते इति निश्चयः ॥
एतानि प्रयोजनानि ।
भावर्ताः च अपि नाक्षत्राः । भानाम् आवर्ताः भावर्ताः, भचक्रभ्रमणानि । तत् च भचक्रम् किम् आदिः इति एतत् विचार्यम् । यदि मेषादिः स्यात् [तदा] मेषादिस्थे सवितरि सवितृभचक्राद्योः युगपत् उदयः, द्वितीयः पुनर् अनुदिते एव सवितरि भचक्राद्युदयः, न च भचक्रादिद्वयोदयान्तरे षष्टिः नाड्यः । तथा च "प्राणेन इति कलाम् भम्" [गीतिकाí, 6] इति चक्रलिप्तानाम् अहोरात्रघटिकाप्रमाणलिप्तानाम् च तुल्यता न उपपद्यते, यस्मात् अपूर्णे एव अहोरात्रे
भचक्रादिः उदेति । यदा पुनर् आदित्योदयः भचक्रादिः परिगृह्यते तदा अहोरात्रप्राणाः स्वदेशराश्युदयप्राणतुल्याः । ते च खखषड्घनतुल्याः । भचक्रलिप्ताः च तावत्यः इति एतत् उपपन्नम् ।
अन्यत् च ã उदयलग्नविधिः सूर्यात् एव प्रवर्तते, औदयिकात् च रवेः । स चेष्टकाले स्वाभीष्टकालादित्य[राशेः विचार्य]माणः यावत् पुनर् उदयः इति तावत् न अन्तरम् विदधाति । तस्मात् रव्युदयः एव भचक्रादिः, व्यवहारप्रसिद्ध्यर्थम् । यदि एवम् ग्रहभुक्तराशयः रव्याक्रान्तराशिप्रदेशात् एव प्राप्नुवन्ति? न एषः दोषः, "बुधाह्न्यजार्कोदयात् च लङ्कायाम्" [गीतिकाí, 4] इति एषाम् अजादिनिरूपणात् । कुभगणाः च युगाद्यन्तयोः अजार्कोदयात् एव प्रतिपरिसमाप्ताः
इति तेषाम् च अजादिता सिद्धा । ते एव युगभचक्रावर्ताः नाक्षत्रदिवसाः भूदिवसाः इति, दिवसग्रहणानुवर्तनात् । के पुनर् ते भावर्ताः? ये कुभगणाः, "कु ङिशिबुण्लृष्खृ" [1582237500] इति गीतिकासु [गीतिकाí, 3] उक्ताः । कथम् एते कुभगणाः भावर्ताः इति उक्ताः? भचक्रप्रतिवद्धानि नक्षत्राणि । तस्य प्रवहाक्षेपात् अपराम् दिशम् आसादयन्ति । नक्षत्राणि भुवम् स्वगत्या प्राङ्मुखम् भ्रमन्तीम् इव पश्यन्ति इति अनया गत्या भुवः भगणानिर्देशाः । तेन उक्तम्
ã "भावर्ताः च अपि नाक्षत्राः" इति । अन्ये पुनर् "क्व आवर्ताः च अपि नाक्षत्राः" इति पठन्ति । तेषा पाठात् एव हि सर्वम् उपपन्नम् ।
अथ अन्ये पुनर् अन्यथा वर्णयन्ति ã
द्दर्शात् दर्शः चान्द्रः त्रिंशत् दिवसाः तु सावनः मासः ।
सौर्यः अर्कराशिभोगः नाक्षत्रः च इन्दुमण्डलकम् ॥
[लाटदेवस्य कृतितः]
दर्शात् दर्शः चान्द्रः इति सूर्याचन्द्रमसोः यः परः सन्निकर्षः स दर्शशब्देन उच्यते, स च तयोः योगः । "रविशशियोगाः भवन्ति शशिमासाः" इति तुल्यम् लक्षणम् । त्रिंशत् दिवसाः तु सावनः मासः इति एतत् अपि "रव्युदयाः त्रिंशत् " इति तुल्यम् । सौर्यः अर्कराशिभोगः इति "रविभगणाः रव्यब्दाः", "रवेः राशयः अपि रविमासाः" इति एतत् अपि तुल्यम् लक्षणम् । "नाक्षत्रम् च इन्दुमण्डलकम्" इति इन्दोः मण्डलम् नाक्षत्रः मासः इति । तत्र प्रत्यहम् यः चन्द्रभोगः
स तन्मासावयवः इति ।
नक्षत्राणि अपि विभज्यन्ते । तत् यथा ã यः चन्द्रभगणस्य त्रिंशद्भागः स नाक्षत्रः दिवसः । एवम् नवनक्षत्रदशभागः नाक्षत्रः दिवसः इति एतत् अभिन्नम् लक्षणम् ।
अस्माकम् आचार्येण स्वतन्त्रान्तराविरुद्धप्रक्रियाप्रतिपादनार्थम् इदम् उक्तम् "भावर्ताः च अपि नाक्षत्राः" इति । का च स्वतन्त्रान्तरप्रक्रिया? "प्राणेन एति कलाम् भम्" [गीतिकाí, 6] इति, प्राणेन कलाम् भम् गच्छति इति ज्योतिश्चक्रलिप्तानाम् भावर्तप्राणानाम् च तुल्यत्वे ज्यादयः विधयः सिद्ध्यन्ते, न अन्यथा इति इयम् प्रक्रिया । येषाम् च "नाक्षत्रम् च इन्दुमण्डलकम्" इति लक्षणम्, तैः संहिताकाराभिहितप्रयोजनसिद्ध्यर्थम् उक्तम् । अत्र एकेन लक्षणेन
प्रयोजनस्य अपरिग्रहात् लक्षणद्वयम् इदम् इष्यते । कथम्? तत्र आवृत्तिः एकशेषः इति, भावर्तशब्दस्य एकशेषव्याख्यानात् भावर्ताः च भावर्ताः च, भावर्ताः । भानि ज्योतींषि अश्विन्यादीनि । तेषाम् आवर्ताः भावर्ताः, भपर्ययाः इति अर्थः । पर्ययः च नक्षत्राणाम् चन्द्रविषयः एव परिगृह्यते, लोकव्यवहारात् । लोकः हि चन्द्राक्रान्तनक्षत्रैः एव व्यवहरति । अथवा अन्यार्थम् प्रकृतम् अन्यार्थम् अपि भवति, "शाल्यर्थम् कुल्याः प्रणीयन्ते, तासु च उपस्पृश्यते"
[अष्टाध्यायी, 1.1.22, पातञ्जलमहाभाष्यम्] इति । अथवा "भावर्तः च नाक्षत्रः" इति एकवचनेन सिद्धे "भावर्ताः च नाक्षत्राः" इति बहुवचननिर्देशम् कुर्वन् आचार्यः ज्ञापयति नाक्षत्रस्य अनेकलक्षणम् इति । अथवा चकारः अत्र प्रयुक्तः, न तेन अत्र कश्चित् अर्थः साध्यते, अथ च प्रयुक्तेन मन्यामहे नाक्षत्रस्य अनेकम् लक्षणम् इति । तत् च अनेकम् लक्षणम् यथा व्यवस्थितम् तथा व्याख्यातम् इति अतः लक्षणद्वयम् अपि स्वसिद्धान्तसिद्धम् ।
अथ नाक्षत्रस्य मानस्य कानि प्रयोजनानि?
संवत्सराणाम् मासानाम् ऋतूनाम् पर्वणाम् तथा ।
अयनानाम् च सर्वेषाम् समाप्तिप्रतिपत्तयः ॥
शुभाशुभम् च लोकानाम् मानम् उन्मानम् एव वा ।
इति एवमादीनि प्रयोजनानि ।
अथ इयम् उक्तिः वाग्वागुरा क्षुद्रविद्रावणपरा नाक्षत्रमानप्रदर्शितप्रयोजनैः लक्ष्यते "संवत्सराणाम् मासानाम् ऋतूनाम्" इति । संवत्सराणाम् तावत् प्रतिपच्छेदनिमित्तम् नाक्षत्रम् [न] भवति, यतः संवत्सरः शास्त्रे चैत्रशुक्लादेः प्रवर्तते । स च चैत्रशुक्लादिः चान्द्रेण उपलक्ष्यते । संहिताकाराणाम् च बृहस्पतिचारे यः संवत्सरः बृहस्पतेः नक्षत्रोदयात् प्रवर्तते ã
यस्मिन् उदेति नक्षत्रे प्रवासोपगतः अङ्गिराः ।
इति । मासानाम् अपि न भवति । यस्मिन् कृत्तिकाभिः युतः चन्द्रमाः, अस्मिन् मासे अर्धमासे च इति कार्तिकः मासः । स चन्द्रनक्षत्रयोगविशेषः चान्द्रः मानविशेषः । ऋतूनाम् अयनानाम् [च ज्ञानम्] सौर्येण मानेन इति प्रदर्सितम् एव अस्माभिः । तस्मात् एतत् न नाक्षत्रमानम् । यैः "नाक्षत्रम् च इन्दुमण्डलकम्" इति अस्य अनुवर्तनात् "भावर्ताः च नाक्षत्राः" इति अस्य शब्दार्थव्याख्याने नैकशेषबहुवचननिर्देशः [कृतः] "च"-शब्दात् इति बुधैः एव विदितपरमार्थैः
मुखम् आयासितम् । तस्मात् अस्माकम् आचार्येण अतीन्द्रियार्थदर्शिना अभिहितम् आचार्यार्यभटेन तत् एव नाक्षत्रमानम् । तस्मात् "इयम् उक्तिः वग्वागुरा क्षुद्रविद्रावणपरा नाक्षत्रमानप्रदर्शितप्रयोजनैः लक्ष्यते" इति सुष्ठु उक्तम् ।
अथ एतानि सौर्य-सावन-चान्द्र-नाक्षत्राणि मानानि मध्यमगत्या प्रतिपादितानि । तत्प्रयोजनार्थम् स्फुटगत्या प्रतिपत्तव्यानि इति प्रदिष्टम् । आचार्यलाटदेवेन तु स्फुटगत्या एव प्रतिपादितानि ã
दर्शात् दर्शः चान्द्रः त्रिंशत् दिवसाः तु सावनः मासः ।
इति आदिग्रन्थेन इति ।
अत्र च अयम् प्रश्नः ã "अवमाधिमासकैः विना द्युगणम्" इति । यातवर्षाणि मासीकृत्य वर्तमानमासैः संयोज्य त्रैराशिकम् ã यदि युगरविमासैः युगचान्द्रमासाः लभ्यन्ते, [तदा] एतैः [रविः] मासैः कियन्तः चान्द्रमासाः इति, लब्धम् चान्द्रमासाः । ते त्रिंशद्गुणाः वर्तमानतिथियुक्ताः कार्याः । ततः त्रैराशिकम् ã यदि युगचान्द्रदिवसैः युगाहर्गणः लभ्यते [तदा] एतैः चान्द्रदिवसैः किम् इति, अहर्गणः लभ्यते । तत्र एकः प्रक्षेपः । अथ कः
च असौ एकः प्रक्षेपः? उच्यते ã यः असौ लभ्यते अहर्गणः स अतीतः । शेषः वर्तमानः । वर्तमानेन अहर्गणः भवति इति एकः प्रक्षेपः । "तेन दिवाकरोडुपौ" इति एतत् उत्तरत्र वक्ष्यते । ताभ्याम् स्फुटपर्वदर्शनम् इति ।
चन्द्रादित्याभ्याम् विना स्फुटतिथ्यानयनम् । तत् यथा ã "[यदि] युगाहर्गणेन चन्द्रवर्षाणि वसुमुनिगिरियमविषयकृतवेद [4452778] तुल्यानि लभ्यन्ते, तदा अनेन इष्टाहर्गणेन कियन्ति इति वर्षाणि लभ्यन्ते । शेषे द्वादशा[दि]गुणिते मास-दिवस-घटिका-विघटिकाः च लभ्यन्ते । एवम् मध्यमा तिथिः भवति । अथ शश्युच्चनीचपरिवर्तैः त्रैराशिकम् ã यदि युगाहर्गणेन शश्युच्चनीचपरिवर्ताः लभ्यन्ते, [तदा] अनेन इष्टाहर्गणेन कियन्तः इति, अतीताः
परिवर्ताः लभ्यन्ते । शेषे द्वादशादिगुणिते राश्यादयः लभ्यन्ते । त्रिराशिरहितम् शशिकेन्द्रम् । ततः फलम् शशिभुक्तिः च आनीयते । फलस्य द्वादशभिः भागे नाड्यः विनाड्यः च लभ्यन्ते । तावत् मध्यमतिथौ यथान्यायेन ऋणम् धनम् वा कर्तव्यम् । सूर्यानयनार्थम् त्रैराशिकम् ã यदि युगाहर्गणेन वसुमुनिगिरियमदहनेन्दु[132778]तुल्यानि अधिकवर्षाणि लभ्यन्ते, तदा कलियाताहर्गणेन कियन्तः इति, वर्ष-मास-दिवस-घटिकाः लभ्यन्ते ।
प्रतिराशितमध्यमतिथिवर्षादिभ्यः ते शोध्याः शेषम् रविवर्षादयः । तेभ्यः मासद्वयम् [2] च अष्टादश [18] च दिवसान् अपनीय रविकेन्द्रम् भवति । तेन फलानयनम् भक्त्यानयनम् च । फलस्य द्वादशभिः भागे लब्धाः नाड्यः विनाड्यः च । तिथौ एव ऋणधनव्यत्यासम् कुर्यात् । अथ किम् इति ऋणधनव्यत्यासः क्रियते? उच्यते ã सूर्यस्य यत् ऋणम् तत् तिथेः उपचयः, धनम् यत् तत् अपचयः इति । एवम् तिथिः निष्पन्ना भवति । ततः इदम् क्रियते ã यदि
मध्यमभुक्त्यन्तरेण षष्टिः नाड्यः लभ्यन्ते, [तदा] स्फुटगत्यन्तरेण कियत्य इति, गत्यन्तरनाड्यः उपलभ्यन्ते । ताभिः त्रैराशिकम् ã यदि एताभिः गत्यन्तरनाडिकाभिः षष्टिः नाड्यः लभ्यन्ते, [तदा] अनेन तिथिशेषेण कियत्य इति तिथिनाड्यः विनाड्यः च लभ्यन्ते । अथवा त्रैराशिकद्वयम् भङ्क्त्वा इदम् कर्म क्रियते । मध्यमभुक्त्यन्तरेण तिथिशेषम् गुणयित्वा स्फुटभुक्त्यन्तरेण भागसिद्धम् घटिकाविघटिकाः च । कथम् पुनर् त्रैराशिकद्वयम्
भिन्नम्? उच्यते ã यदि मध्यमभुक्त्यन्तरेण षष्टिः नाड्यः लभ्यन्ते [तदा] स्फुटभुक्त्यन्तरेण कियत्य इति एकम् त्रैराशिकम् । पुनर् ã लब्धेन फलेन यदि षष्टिः नाड्यः, [तदा] अनेन तिथिशेषेण कियत्य इति । यः पूर्वत्रैराशिके गुणकारः स इह अर्थात् भागहारः इति । अथ देशान्तरविशेषेण च अक्षविशेषेण च यत् फलम् उपजायते तत् अपि युक्त्या योजयितव्यम् इति
[ अधिमासावमदिनानि]
अधिमासावमपरिज्ञानाय आह ã
अधिमासकाः युगे ते रविमासेभ्यः अधिकाः तु ये चान्द्राः ।
शशिदिवसाः विज्ञेयाः भूदिवसोनाः तिथिप्रलयाः
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0