आर्यभटीय (टीका सहित) · अध्याय 40
इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्ये
गणितपादः समाप्तः ॥
कालक्रियापादः
[ मङ्गलाचरणम् ]
सूर्येन्दुखाग्निमरुदप्क्षितिदीक्षिताख्यम्
मूर्त्यष्टकम् सकललोकहितार्थभावम् ।
यः अभूत् स्वयम् हि करुणातनुः अप्रमेयः
तस्मै नमः त्रिभुवनस्थितये शिवाय ॥
[ कालविभागः क्षेत्रविभागः च ]
अथ गणितानन्तरम् कालक्रिया प्रस्तूयते । अथ कः कालः, का वा क्रिया? अत्र केचित् वदन्ति ã "क्रियाव्यतिरिक्तः कालः" । अपरे ã "क्रिया कालः" इति । क्रियाव्यतिरिक्तः अस्तु कालः [क्रिया वा], किम् एतेन । अस्माकम् तु सूर्याचन्द्रमसोः यः परः विप्रकर्षः सः अर्धमासः । यः च तयोः सन्निकर्षः स मासः । एवम् द्वादश मासाः संवत्सरः इति आदि कालः । क्रिया व्यापारः । कालस्य क्रिया कालक्रिया । कालपरिज्ञानार्था क्रिया इति यावत् । सा च क्रिया गतिः । तया क्रियया
कालः ज्ञायते इति एतत् प्रतिपादयिष्यति । तत् यथा ã
वर्षम् द्वादशमासाः त्रिंशद्दिवसः भवेत् स मासः तु ।
षष्टिः नाड्यः दिवसः षष्टिः च विनाडिका नाडी
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0