आर्यभटीय (टीका सहित) · अध्याय 38
अधिकाग्रभागहारम् छिन्द्यात् । अग्रम् शेषः । अधिकाग्रम् यस्य सः अयम् अधिकाग्रः । अधिकाग्रः च असौ भागहारः च अधिकाग्रभागहारः । तम् अधिकाग्रभागहारम्, छिन्द्यात् विभजेत् इति अर्थः । केन इति आह ã ऊनाग्रभागहारेण । शेषपरस्परभक्तम् । लब्धेन न अस्ति प्रयोजनम्, शेषेण सह कर्म क्रियते । परस्परेण भक्तम् परस्परभक्तम्, इतरेतरभक्तम् इति अर्थः । शेषेण सह परस्परभक्तम् शेषपरस्परभक्तम् । मतिगुणम्,
स्वबुद्धिगुणम् इति अर्थः । कथम् पुनर् स्वबुद्धिगुणः क्रियते ? अयम् राशिः केन गुणितम् इदम् अग्रान्तरम् प्रक्षिप्य विशोध्य वा अस्य राशेः शुद्धम् भागम् दास्यति इति । अग्रान्तरे क्षिप्तम् । समेषु क्षिप्तम् विषमेषु शोध्यम् इति सम्प्रदायाविच्छेदात् व्याख्यायते ।
एवम् परस्परेण लब्धानि पदानि अवस्थाप्य, मतिः च अधः, पश्चिमलब्धम् च मत्या अधः । अधुपरिगुणितम्, अधःस्थितेन राशिना उपरिरासिः गुणितः । अन्त्ययुक्, अन्त्येन राशिना पश्चिमलब्धेन सहितः । एवम् भूयः भूयः कर्म यावत् कर्मपरिसमाप्तिम् इति । ऊनाग्रच्छेदभाजिते शेषम्, ऊनाग्रस्य यत् छेदम् तेन भाजिते शेषम्, तेन ऊनाग्रच्छेदेन पूर्वगणितकर्मणा निष्पन्नराशेः विभक्तशेषम् परिगृह्यते । अधिकाग्रच्छेदगुणम्, अधिकाग्रच्छेदेन
अभ्यस्तम् । द्विच्छेदाग्रम्, द्वयोः छेदयोः अग्रम्, अग्रम् सङ्ख्या । अधिकाग्रयुतम्, अधिकाग्रेण युतम् अधिकाग्रयुतम् । एतत् उक्तम् भवति ã ऊनाग्रच्छेदभाजिते शेषम् अधिकाग्रच्छेदेन अभ्यस्तम् अधिकाग्रसहितम् तत् द्वयोः अपि छेदयोः भाज्यराशिः भवति इति ।
एवम् साग्रकुट्टाकारः व्याख्यातः । निरग्रकुट्टाकारः अपि उत्तरत्र वक्ष्यति ।
उद्देशकः ã
पञ्चभिः एकम् रूपम् द्वे रूपे च एव सप्तभागेन ।
अवशिष्यते तु राशिः विगण्यताम् तत्र का सङ्ख्या
न्यासः ã 1 2
5 7
करणम् ã अधिकाग्रच्छेदम् सप्त 7, ऊनाग्रच्छेदेन पञ्चकेन 5, भाजिते शेषम् उपरि द्वौ 2 अधः पञ्च 5 । अल्पः राशिः इति अत्र एव मतिः कल्प्यते । अयम् [उपरि] राशिः केन गुणितः रूपम् अग्रान्तरम् प्रक्षिप्य पञ्चभिः शुद्धम् भागम् दास्यति इति लब्धा मतिः द्वे रूपे । भागलब्धम् एकम् 1, शेषम् 0 । अस्य स्थापना
2
1 ।
तृतीयपदस्य असम्भवात् एतत् एव सञ्जातम् । ऊनाग्रच्छेदभाजिते शेषम् 2, अधिकाग्रच्छेदेन सप्तकेन गुणितम् जातम् 14, अधिकाग्र[2]सहितम् 16 । एतत् एव द्विच्छेदाग्रम् । अयम् एव राशिः पञ्चभिः भागम् ह्रियमाणः एकाग्रः, सप्तभिः द्व्यग्रः इति ।
उद्देशकः ã
द्वादशभिः पञ्चाग्रः सप्ताग्रः स च पुनर् मया दृष्टः ।
एकत्रिंशद्भक्तः कः असौ राशिः भवेत् एकः
न्यासः ã 5 7
12 31
करणम् ã "अधिकाग्रभागहारम् छिन्यात् ऊनाग्रभागहारेण" इति शेषम् उपरि सप्त, अधः द्वादश । एतयोः परस्परभक्ते लब्धम् एकम्, पुनर् एकम् एव, शेषम् उपरि द्वौ अधः पञ्च । अत्र मतिः । समानि पदानि इति अयम् राशिः केन गुणितः रूपद्वयम् अग्रान्तरम् प्रक्षिप्य पञ्चभिः शुद्धम् भागम् दास्यति इति लब्धम् रूपम् चतुष्कम् मतिः । ताम् पूर्वलब्धस्य अधः व्यवस्थापयेत् । भागलब्धम् च रूपद्वयम् इति एवम् लब्धम् अधः व्यवस्थाप्यः
। "अधौपरिगुणितम् अन्त्ययुग्" इति अनेन न्यायेन लब्धम् 10 । एतत् एव "ऊनाग्रच्छेदभाजिते शेषम् अधिकाग्रच्छेदगुणम्" जातम् 310, "अधिकाग्रयुतम् द्विच्छेदाग्रम्" तत् च इदम् 317 ।
उद्देशकः ã
अष्टाभिः पञ्चाग्रः चतुरग्रः कीर्तितः नवभिः एव ।
सप्तभिः एकाग्रः असौ विगण्यताम् कः भवेत् राशिः
न्यासः ã 5 4 1
8 9 7
करणम् ã
5 4
8 9.
एतयोः कुट्टाकारेण [लब्धम्] रूपम् 1, राशिः च त्रयोदश । अत्र छेदयोः अभ्यासः भागहारः इति स्थापना
13 1
72 7 ।
एतयोः पूर्ववत् लब्धः राशिः 85 । अयम् राशिः अष्टाभिः भागम् ह्रियमाणः पञ्चाग्रः, नवभिः चतुरग्रः, सप्तभिः एकाग्रः इति ।
उद्देशकः ã
द्व्याद्यैः शट्पर्यन्तैः एकाग्रः यः अवशिष्यते राशिः ।
सप्तभिः एव स शुद्धः वद शीघ्रम् कः भवेत् गणक
न्यासः ã 1 1 1 1 1 0
2 3 4 5 67
अत्र इच्छया अधिकाग्रः राशिः परिकल्पनीयः । लब्धम् पूर्ववत् राशिप्रमाणम् 301 । एवम् साग्रकुट्टाकारः व्याख्यातः ।
[ निरग्रकुट्टाकारः ]
इदानीम् तु एव सूत्रे निरग्रकुट्टकार्थम् व्याख्यास्यामः । अधिकाग्रभागहारम् छिन्द्यात् अपवर्तयेत् इति अर्थः । केन इति आह ã ऊनाग्रभागहारेण । अग्रम् सङ्ख्या, ऊनम् च तदग्रम् च ऊनाग्रम्, ऊनाग्रम् च तत् भागहारः च स ऊनाग्रभागहारः, तेन ऊनाग्रभागहारेण, अपवर्तयेत् इति अर्थः । यथा एकविंशतिः सप्तभिः अपवर्त्यते । येन भागहारः अपवर्तितः तेन एव भाज्यः अपि अपवर्तनीयः । कथम् इदम् अवगम्यते येन एव भागहारः
अपवर्तितः तेन एव भाज्यः अपि अपवर्तनीयः इति ? सम्प्रदायाविच्छेदात् । अथवा न्यायः एषः, अपवर्तितस्य भागहारस्य अपवर्तितेन एव भाज्येन भवितव्यम् इति, यथा सप्तभिः एकविंशतिः भागाः अपवर्तिताः त्रिभागाः । अथवा भागहारस्य अपवर्तनम् ब्रुवता आचार्येण भाज्यस्य अपि अपवर्तनम् अभिहितम् एव । कुतः ? भागहारभाज्ययोः सहचारित्वात् । यथा स्थलानि परिमृज्यन्ताम् इति उक्ते सरकाणि अपि परिमृज्यन्ते । अधिकाग्रभागहारम् इति आदिना ग्रन्थेन
एतत् प्रतिपादयति ã अपवर्तितयोः भागहारभाज्ययोः कुट्टाकारः इति । शेषपरस्परभक्तम्, भागहारभाज्ययोः परस्परभक्तम् इति । मतिगुणम् इति एतत् पूर्वेण समानम् । अग्रान्तरे क्षिप्तम्, अग्रम् सङ्ख्या, अग्रस्य अन्तरम् अग्रान्तरम् सङ्ख्यान्तरम् इति अर्थः । तत् च इच्छापरिकल्पितम् इदम् सङ्ख्यान्तरम् प्रक्षिप्य अपनीय वा अस्य राशेः शुद्धम् भागम् दास्यति इति । अधौपरिगुणितम् अन्त्ययुक् इति एतत् सर्वम् पूर्वेण समानम् । ऊनाग्रच्छेदभाजिते शेषम्,
अपवर्तितभागहारशेषम् इति अर्थः । कुट्टाकारः भवति इति वाक्यशेषः । उपरि [रासिः] भागहारेण भक्तः [कार्यः] अधोराशिः भाज्यराशिना भाज्यः । गणिते अपि उक्तम् ã
उपरि च भागहारेण भक्ते हि राशिः भवेत् वा ।
इति एवम् आदिना ग्रन्थेन । शेषे कुट्टाकारभागलब्धे भवतः इति । अधिकाग्रच्छेदगुणम् इति आदि न निरग्रकुट्टाकारेषु [उपयुज्यते ] ।
तत् यथा उद्देशकः ã
अष्टौ केन अभ्यस्ताः षड्रूपयुताः हृताः त्रयोदशभिः ।
दद्युः शुद्धम् भागम् कः गुणकारः किम् आप्तम् च
न्यासः ã 8 6
13
भाज्यः अष्टौ, भागहारः त्रयोदश, अग्रान्तरम् षट् ।
करणम् ã भाज्यभागहारराशी रूपेण अपवर्तितौ
8
13
"शेषपरस्परभक्तम्" इति जातम्
1
1
1
1 ।
परस्परभक्तशेषम्
1
2 ।
"मतिगुणम् अग्रान्तरे क्षिप्तम्" इति अयम् एकः राशिः केन गुणितः षड्रूपाणि प्रक्षिप्य द्वाभ्याम् शुद्धम् भागम् दास्यति इति मतिः द्वे 2, मत्या गुणितम् जातम्
2
2 ।
एतत् षड्रूपयुतम्
8
2 ।
लब्धम् रूपचतुष्कम् 4 । एतत् सर्वम् यथाक्रमेण
1
1
1
1
2
4 ।
"अधौपरिगुणितम् अन्त्ययुक्" इति जातम्
22
14 ।
"ऊनाग्रच्छेदभाजिते शेषम्" इति ऊनाग्र[=अपवर्तित]भागहारभाज्यभक्तशेषम् स्थापितम्
9
6 ।
अयम् कुट्टाकारः भागलब्धम् च ।
उद्देशकः ã
एकादश केन हताः त्रिकरहिताः ते हृताः त्रिविंशत्या ।
दद्युः शुद्धम् अथ अंशम् लब्धम् गुणकम् च मे ब्रूहि
न्यासः ã 11
23
[त्रिक]रहितात् लब्धम् पूर्वक्रमेण एव कुट्टाकारः भागलब्धम् च
17
8 ।
[ग्रहकुट्टाकारः, मण्डलशेषविधिः]
अथ इदानीम् ग्रहगणिते कुट्टाकारः योज्यते ã रविभागणाः केन गुणिताः मण्डलशेषम् अपनीय भूदिवसानाम् शुद्धम् भागम् दद्युः इति रविभगणाः भूदिवसाः च न्यस्यन्ते
4320000
1577917500 ।
एतौ ऊनाग्रच्छेदार्थम् परस्परेण भाज्यौ । शेषम् ऊनाग्रच्छेदः पञ्चसप्ततिशतानि 7500 । अनेन अपवर्तितौ
576
210389।
एतौ ऊनाग्रच्छेदभाजितौ शेषौ । एतयोः भगवतः भास्करस्य कुट्टाकारः साध्यः ।
उद्देशकः ã
मध्यम् रवेः मृगपतौ धनुः अंशकार्धे
दृष्टम् मया दिनकरोदयकालजातम् ।
आगण्यताम् दिनगणः भटशास्त्रसिद्धः
याताः च तस्य भगणाः कलिकालसिद्धाः
न्यासः ã [मध्यमरविः] 4 । 28 । 20 ।
"गणकाराः भागहराः" [गणितí, 28] इति मण्डलशेषानयनम् । तत् यथा ã सवितारम् लिप्तीकृत्य जातम् 8900 । एतत् अनेन 210389 गुणितम् खखषड्घनेन [21600] भक्तम्, लब्धम् मण्डलशेषम् 86688 । इदम् एव मण्डलशेषम् अग्रान्तरम् परिकल्प्य कुट्टाकारः क्रियते ।
[न्यासः]
576 अग्रान्तरम् 86688
210389
लब्धम् कुट्टाकारन्यायेन ã
8201068565
22452768
ऊनाग्रभागहारभाज्यभक्तशेषौ ã
[105345
288 ]
[288] एतत् कलियातम्, अहर्गणः च ã 105345 ।
अथवा एकरूपापचयेन कुट्टाकारम् कृत्वा अहर्गणः मण्डलानि च आनीयन्ते । तत् यथा ã एकापचयेन कुट्टाकारभागलब्धौ ã
94602
259
अनेन मण्डलशेषेण च त्रैराशिकम् ã यदि एकरूपापचयेन अयम् कुट्टाकारः मण्डलशेषापचयेन कियान् इति न्यासः ã 1, 94602, 86688 । अत्र लब्धम् निरपवर्तितदिवसैः विभक्तशेषम् अहर्गणः पूर्वलिखितः एव । मण्डलानयने एकरूपापचयेन इदम् भागलब्धम्, मण्डलशेषापचयेन कियत् इति न्यासः ã 1, 259, 86688 । अत्र लब्धम् निरपवर्तितमण्डलैः विभक्तम् शेषम् मण्डलानि पूर्वलिखितानि एव ।
[ मण्डलगन्तव्यविधिः]
अथवा निरपवर्तितभागहारभाज्यराशी [मण्डलगन्तव्यम्] [क्षेपः च] परिकल्प्य कुट्टाकारः क्रियते । तत् यथा ã
गन्तव्यम् रविणा अष्टम् अस्य भवनस्य आहुः कलानाम् शतम्
सञ्चिन्त्य आशु वद अश्मकस्य गणितम् ज्ञातम् त्वया चेत् यदि ।
यावन्ति अद्य कलेः गतानि मतिमन् वर्षाणि सर्वाणि मे
तु अह्नाम् यः च गणः स च एव विशदम् वाच्यम् कलेः यः गतम्
न्यासः ã गन्तव्यम् रविणा ã
7
1
40
अनेन मण्डलगन्तव्येन "गुणकाराः भागहराः" इति मण्डलगन्तव्यम् 123701 । अनेन उपचयाग्रेण पूर्ववत् अहर्गणः कलियातम् च
105345
288 ।
एकरूपोपचयेन कुट्टाकारः भागलब्धम् च
115787
317 ।
पूर्ववत् अनेन अपि यदि एकरूपोपचयेन अयम् कुट्टाकारः भागलब्धम् वा मण्डलगन्तव्योपचयेन [123701] कः कुट्टाकारः भागलब्धम् च इति लब्धम् निरपवर्तितभागहारभाज्यभक्तशेषम् अहर्गणः भागलब्धम् च ।
अत्र मण्डलगन्तव्यप्रक्षेपात् एकम् अधिकम् भवति । अतः मण्डलम् एकम् अपनीयते । एवम् मण्डलकुट्टाकारः व्याख्यातः ।
[ राशिकुट्टाकारः ]
इदानीम् तु राशिकुट्टाकारः उच्यते । तत् यथा ã
उद्देशकः ã
वात्या हृताः सभगणाः दिवसस्य भर्त्तुः
ये राशयः दिवसराशिवशेन लब्धाः ।
शेषम् त्रिसप्त नवपञ्च च भागलिप्ताः
वाच्यम् दिवाकरगतम् दिनराशिसाकम्
न्यासः ã 0
0
21
59
करणम् ã "गुणकाराः भागहराः" इति राशिशेषम् लब्धम् 154168 । अपवर्तितरविभगणाः द्वादशगुणाः रासयः इति स्थापना
6912
210389 ।
राशिशेषम् 154168 ।
लब्धम् कुट्टाकारक्रमेण अहर्गणः भागलब्धम् च ã
176564
5800
भागलब्धम् द्वादशभिः विभज्य लब्धम् भुक्तभगणाः । शेषम् राशयः । ते च 483, [4] । अहर्गणाः [176564 । अथवा] यावत् अभिरुचितम् पृच्छकाय ।
एकरूपापचयेन अपि कुट्टाकारम् कृत्वा लब्धम् ã
113078
3715
एताभ्याम् अपि त्रैराशिकेन अहर्गणः भागलब्धम् च
176564
5800
शेषम् समानम् ।
[ प्रकारान्तरेण साधनविधिः]
अन्ये पुनर् द्वादशानाम् भूदिवसानाम् च एकापनयेन कुट्टाकारम् कृत्वा त्रैराशिकम् कुर्वन्ति । यस्मात् मण्डलशेषस्य द्वादश गुणकारः । तत्र गताः राशयः मण्डलशेषम् च लभ्यन्ते । तत् यथा ã
न्यासः ã
12
210389
अत्र लब्धम् कुट्टाकारः भागलब्धम् च ã
122727
7
शेषम् उक्तत्वात् न उक्तम् ।
[ भागकुट्टाकारः ]
भागशेषः उद्देशकः ã
भगणभवनभागाः वातनीताः समस्ताः
दिनकरपरिभुक्ताः लिप्तिकाः पञ्च दृष्टाः ।
वद यदि दिनराशिम् वेत्सि चेत् आश्मकीयम्
गतम् अपि दिनभर्तुः मण्डलाद्यम् क्षणेन
न्यासः ã
0
0
0
5
[लब्धम्] भागशेषम् ã 17532
पूर्ववत् लब्धम् अहर्गणः भागलब्धम् च ã
62715
61812
यदा पुनर् एकापनयेन कुट्टाकारम् कृत्वा त्रैराशिकम् क्रियते तदा अपि स एव अहर्गणः, तत् एव भागलब्धम् । तत् यथा ã एकापनयेन अपि कुट्टाकारभागलब्धे स्याताम् । ते च ã
59873
51011
अनेन त्रैराशिकेन पूर्ववत् लब्धः एव अहर्गणः भागलब्धम् च । भागलब्धे षष्टिशतत्रयभक्ते गतमण्डलानि राशिभागाः च जाताः 171, 8, [12] ।
अन्ये पुनर् त्रिंशतः निरपवर्तितभूदिनानाम् च कुट्टाकारम् कृत्वा त्रैराशिकेन गतभागान् राशिशेषम् च आनयन्ति । तत् यथा ã
[न्यासः] ã
30
210389
[अत्र] कुट्टाकारः भागलब्धम् च ã
7013
1
अनेन त्रैराशिकम् कृत्वा राशिशेषम् गतभागाः च ã
84740
12
अनेन राशिशेषेण अहर्गणानयनस्य अभिहित्वात् न उक्तम् ।
[ लिप्ताकुट्टाकारः ]
एवम् लिप्ताशेषम् दृष्ट्वा कुट्टाकारः क्रियते । तत् यथा ã
उद्देशकः ã
मण्डलर्क्षलवलिप्तिका हृता मारुतेन [विकला प्रदृश्यते] ।
कथ्यताम् दिनगणः विवस्वतः भुक्तमण्डलगृहांशलिप्तिकाः
न्यासः ã
0
0
0
0
1
पूर्ववत् लब्धम् लिप्तिकाशेषम् ã 3506
करणम् ã खखषड्घनेन अपवर्तितरविभगणान् संगुणय्य स्थापना ã
12441600
210389
अत्र भागहारेण भाज्यम् विभज्य लब्धम् पृथग्विनष्टम् स्थापयेत् । शेषस्य भूदिवसानाम् च कुट्टाकारम् कृत्वा लब्धस्य उपरिराशिम् कुट्टाकारम् अविनष्टस्थापितेन पृथक् संगुणय्य भागलब्धम् प्रक्षिपेत् । भागलब्धम् भवति । अनेन क्रमेण लब्धम् अहर्गणः भागलब्धम् च । स्थापना ã
125342
7412246
भागलब्धे खखषड्घनभक्ते गतमण्डलानि राशिभागलिप्ताः च ã
343
1
27
26
अथवा एकापनयेन कुट्टाकारम् कृत्वा त्रैराशिकम् क्रियते । तत् यथा ã एकापनयेन कुट्टाकारः भागलब्धम् च ã
81647
4828291
शेषम् उक्तत्वात् न उक्तम् ।
अथवा षष्ट्या भूदिवसानाम् च एकापनयेन कुट्टाकारम् कृत्वा भागशेषम् गतलिप्ताः च लभ्यन्ते अनुपातेन । तत् यथा ã एकापनयेन षष्ट्या भूदिवसानाम् च कुट्टाकारः भागलब्धम् च ã
108701
31
एवम् लिप्तातत्पराशेषयोः अपि योज्यम् ।
अथ कश्चित् सूर्यम् उद्दिश्य कियता कालेन पुनर् एवंविधः सूर्यः भविष्यति इति पृच्छति, स एवम् वक्तव्यः ã निरपवर्तितभूदिनतुल्यैः इति, यस्मात् निरपवर्तितभूदिनैः क्षिप्तः सूर्यः तादृक् एव भवति ।
[वारकुट्टाकारः ]
अथ कश्चित् सूर्यदिने सूर्यम् उद्दिश्य पुनर् कियता कालेन सूर्यदिने सोमदिने अन्यस्य वा ग्रहवारदिवसे सूर्यः एवम् भविष्यति इति पृच्छति, तत् यथा ã निरपवर्तितभूदिनेषु सप्तहृतावशिष्टेषु कुट्टाकारः क्रियते । ग्रहवारः यः निर्दिष्टः तस्मात् य[त् उ]त्तरः ग्रहवारः ततः प्रभृति एकोत्तरया वृद्ध्या अपचयम् परिकल्प्य एवम् लब्धम् कुट्टाकारः निरपवर्तितभूदिनानाम् गुणकारः तेन गुणितेषु निरपवर्तितभूदिनेषु निर्दिष्टसूर्येण आनीतम्
अहर्गणम् प्रक्षिप्य जातदिवसतुल्यः कालः आदेष्टव्यः । तत् यथा ã
उद्देशकः ã
धन्विन्यंशाः शरकृतिसमाः षट्कृतिः मौरिकाणाम्
मध्यम् भानोः दश च विकलासंयुतम् वर्णयन्ति ।
रात्रेः पातुः तनुजदिवसे केन कालेन तुल्यः
भावी सूर्यः कथय विशदम् जीवशुक्रज्ञवारे
बुधदिवसे अयम् सूर्यमध्यमः ã
8
25
36
10
अनेन सूर्येण पूर्वकरणेन लब्धम् अहर्गणः 1000 । अस्मिन् अहर्गणे बुधवारः । अथ कुट्टाकारानयनम् । निरपवर्तितभूदिवसेषु सप्तभक्तेषु शेषः 4 । जीवदिनार्थम् कुट्टाकारः एकापनयेन 2, अनेन निरपवर्तितभूदिवसाः गुणिताः जाताः 420778, अस्मिन् पूर्वलब्धा[हर्गणयुते जातः] कालः 421778 । शुक्रदिनार्थम् कुट्टाकारे द्वौ अपनीयते । लब्धम् पूर्ववत् कालः 842556 । बुधदिनार्थम् कुट्टाकारः 7 । कालः च 1473723 ।
एवम् सर्वेषु एव दिवसवारेषु युक्त्या कालः कुट्टाकारः च योज्यः ।
[ ग्रहकुट्टाकारे विशेषः ]
यः उपचयाग्रः कुट्टाकारः स च राशिभागलिप्ताशेषेषु अपि योज्यः । तत् यथा ã
उद्देशकः ã
ये भुक्ताः पवनहृताः सराशिभागाः
दृश्यन्ते दिवसकरेण भोज्यलिप्ताः ।
तन्मात्राः विषयकृतिः शिवैः समेताः
वाच्यः अह्नाम् अथ च गणः द्वाकरः च
न्यासः ã
0
0
36
अत्र अपवर्तितभगणान् भागीकृत्य उपचयाग्रेण सह पूर्ववत् कुट्टाकारलब्धः अहर्गणः भागलब्धः च
66027
65077 ।
अत्र भागलब्धम् एकेन अधिकम् भवति । एकम् अपनीय शेषे षष्टिशतत्रयभक्ते रवेः भगणाः राशयः भागाः च प्रतिवक्तव्याः ।
एकरूपोपचयेन अपि कुट्टाकारम् कृत्वा गन्तव्याग्रेण अनेन 126233 त्रैराशिकम् । अनेन अपि लब्धम् अहर्गणः भागलब्धम् च पूर्वलिखितम् एव । एवम् अन्येषाम् अपि ग्रहाणाम् कुट्टाकारः योज्यः ।
[ वारकुट्टाकारे विशेषः ]
अथ कश्चित् एवम् पृच्छति ã सूर्याचन्द्रमसौ सूर्यदिने सोमदिने वा इयत्सङ्ख्यौ । एतौ पुनर् कियता कालेन एतावत्सङ्ख्यौ एव भविष्यतः इति । अत्र कुट्टकारक्रमः ã कश्चित् राशिः सूर्यस्य निरपवर्तितभूदिवसैः भागम् ह्रियमाणः शून्याग्रः, चन्द्रस्य अपि शून्याग्रः एव सः । अस्मिन् उद्देशने द्वयोः अपि सम्बन्धः द्विच्छेदाग्रसंवर्गः हि नाम सदृशीकरणम् राशेः । अत्र च सूर्यस्य निरपवर्तितदिवसाः अनेन 3449 अपवर्तिताः लब्धम् 61 । चन्द्रस्य
अपि तेन एव अपवर्तितेन जाताः 625 । ततः सूर्यस्य निरवर्तितदिनानाम् अपवर्तितचन्द्रदिवसाः गुणकारः । ते च अत्र लिखिताः एव । गुणिते जातम् 131493125 । चन्द्रस्य अपि सूर्यापवर्तितदिवसैः गुणिते जातम् 131493125 । अनेन राशिना पूर्ववत् ग्रहकुट्टाकारः योज्यः । तत् यथा ã
उद्देशकः ã
सूर्याचन्द्रमसौ तुलाधरनरे दृष्टौ मया तत्त्वतः
भागैः द्वादशभिः द्वयेन च युतौ सूर्यस्य वारोदये ।
लिप्ताभिः शशिसून्यसागरयुतौ जीवस्य वारे पुनर्
शुक्रस्य अथ शनैश्चरस्य दिवसे तुल्यौ कियद्भिः दिनैः ॥
विलिप्ताभिः अधिकः अर्कः विज्ञेयः भूधरेन्दुभिः ।
शोधयेत् च निशानाथात् विलिप्ताः धृतिसम्मिताः
न्यासः ã
[सूí] [चंí]
6 6
12 2
1 39
17 42
लब्धम् आभ्याम् अहर्गणः ã 7500 ।
करणम् ã सूर्याचन्द्रमसोः निरपवर्तितदिवसानाम् ग्रहभक्तशेषम्
1
7 ।
निर्दिष्टवारात् उत्तरतः चतुर्थः जीवः, पञ्चमः शुक्रः, षष्ठः शनैश्चरः इति एतैः एवम् तु इमे ग्रहभक्तशेषात् यथाक्रमेण लब्धाः जीवस्य 4, शुक्रस्य 5, शनैश्चरस्य 6 । एते एव सूर्याचन्द्रमसोः निरप[व]र्तितदिवसानाम् गुणकाराः । गुणकारगुणितेषु आनीताहर्गणम् प्रक्षिप्य क्रमेण ã
[ 525980000, 657473125, 788966250 दिवसाः ]
[ ग्रहयोयेन कुट्टाकारः ]
अथ कश्चित् द्वौ ग्रहौ एकत्र कृत्वा अहर्गणम् पृच्छति तस्य अयम् उपायः ã निर्दिष्टग्रहभगणानाम् समासितानाम् भूदिवसानाम् च अपवर्तनम् कृत्वा कुट्टाकारः करणीयः । तत् यथा ã
उद्देशकः ã
त्रिंशत्पञ्चशशाङ्काः संयुक्तौ शशिदिवाकरौ दृष्टौ ।
दिनराशिम् ब्रूहि गतम् चक्राणि च यानि भ्क्तानि
न्यासः ã 1
5
30
करणम् ã चन्द्रादित्यभगणाः 62073336 । [युगकुदिनप्रमाणम् च] 1577917500 । एतौ द्वादशभागेन अपवर्तितौ जातौ ã
5172778
131493125
मण्डलशेषम् ã 12966683 । अत्र लब्धम् पूर्ववत् अहर्गणः भागलब्धम् च ã
87942886
3459565
एकापनयेन अपि त्रैराशिकम् कृत्वा स एव अहर्गणः भागलब्धम् च लभ्यते । तत् यथा ã
एकरूपापचयेन अपि कुट्टाकारः भागलब्धम् च ã
57699692
2269835
[ अत्र अपि त्रैराशिकेन पूर्वोक्तः एव अहर्गणः भागलब्धम् च । ]
एवम् अन्येषाम् अपि समासप्रश्नेषु कुट्टाकारः कल्पनीयः, राशिभागलिप्ताशेषेषु अपि । एवम् एव त्रिचतुःसमासेषु अपि विस्तरेण व्याख्येयम् ।
[ द्व्यग्रकुट्टाकारः ]
अथ कश्चित् दिवसकरमण्डलशेषपरिसमाप्तिकाले जनितम् दिविचरम् उद्दिश्य दिवसकरम् दिविचरभगणान् पृच्छति, तस्य अयम् उपायः ã निर्दिष्टदिविचरम् रविभगणान् च अपवर्त्य कुट्टाकारः योज्यः । तत् यथा ã
उद्देशकः ã
भानुमण्डलसमाप्तिकालजः मेदिनीहृदयजः अभिलक्षितः ।
द्वित्रिपञ्चविषयाः गृहादयः ब्रूहि मण्डलगतम् कुजार्कयोः
न्यासः ã 2
15
5
करणम् ã कुजार्कभगणाः ã
2296824
4320000
एतौ चतुर्विंशतिभिः अपवर्तितौ ã
95701
180000
मण्डलशेषम् इदम् 37542 । लब्धम् रविकुजयोः यातभगणाः 68142, 36229 ।
एकापनयेन अपि कुट्टाकारम् कृत्वा त्रैराशिकेन ते एव भगणाः । तत् यथा ã
एकापनयेन कुट्टाकारः भागलब्धम् च ã
174301
92671
एवम् एव अन्येषाम् अपि ग्रहाणाम् ।
अथवा ग्रहम् उद्दिश्य ग्रहम् एव अन्यम् [पृच्छति तत्र] अपि भागहारभाज्यपरिकल्पनया कुट्टाकारः कल्पनीयः ।
अथ मण्डलपरिसमाप्तिकालात् अन्यकालसम्भूतग्रहभगणादीन् उद्दिश्यते तथा [ग्रह]भगणात् तत्र रविभगणराशिभागलिप्तान् च पृच्छति, तस्य अपि कुट्टाकारानयनस्य अयम् उपायः ã रविभगणान् खखषड्घनेन संगुणय्य निर्दिष्टभगणैः सह अपवर्त्य कुट्टाकारविधिः इति । तत् यथा ã
उद्देशकः ã
स्वोच्चांशकार्धम् अधिरूढमहेन्द्रसूरी
तेजोवितानविमलीकृतदिङ्मुखेन ।
सूर्येण यातम् इह पृच्छति च आश्मकीये
वाच्यम् किम् आशु वद तस्य विशालबुद्धे
न्यासः ã 0
3
4
30
करणम् ã [गुरुभगणाः] खखषड्घनगुणितसूर्यभगणैः सह अपवर्तिते द्विनवत्युत्तरशतभागेन जातौ
1897
486000000
शेषम् अपचयः 127575000 । लब्धम् सूर्ययात[लिप्ताः गुरु]भगणाः च 78975000, [308] । लिप्ताः खखषड्घनभक्ताः मण्डलानि राशयः भागाः लिप्ताः च सूर्यस्य
3656
3
0
0
एकापनयन अपि कुट्टाकारम् कृत्वा त्रैराशिकेन एतत् एव लभ्यते । तत् यथा ã एकापनयेन अपि कुट्टाकारः भागलब्धम् च ã
135014233
527
एवम् राश्यादिशेषेषु अपि योज्यम् ।
[वेलाकुट्टाकारः ]
अथ वेलाकुट्टाकारः । कश्चित् ग्रहम् उदयकालात् अन्यकालजनितम् प्रदर्श्य दिवसगणम् पृच्छति, तस्य अयम् आनयनोपायः ã इष्टकालच्छेदगुणितान् निरपवर्तितभूदिवसान् कृत्वा पूर्ववत् कुट्टाकारम् निष्पाद्य इष्टकालच्छेदभक्तः अहर्गणः । तत् यथा ã
उद्देशकः ã
रात्र्यर्धकालजनितः दिवसस्य भर्तुः
इष्टः मृगार्धसहितः अष्टचतुष्कलाग्रः ।
लिप्तात्रिभागशकलद्वितयेन युक्तः
शीघ्रम् दिनादि भगणान् च वद आश्मकीयम्
न्यासः ã 9
15
32
40
करणम् ã अहर्गणः चतुर्भागेन अनेन इति चत्वारि निरपवर्तितदिनानाम् गुणकारः इति चतुर्भागेन रविभगणान् अपवर्त्य स्थापना
144
210389 ।
मण्डलशेषम् 166876 । लब्धम् पूर्ववत् कुट्टाकारः [7003] । अस्य चतुर्थांशात् अहर्गणः [1750] ।
एवम् आस्तमयिकः उद्देशकः ã
अस्ताद्रेः तुङ्गशृङ्गव्यवहितवपुषः तिग्मरश्मेः गतानाम्
चक्राद्यङ्कावलीनाम् क्रमगणितचयः विस्मृतः सर्वः एव ।
दृष्टः लिप्ताग्रशेषः गुणवियदुडुपाः स्पष्टः एव अङ्कराशिः
शीघ्रम् वाच्यः गणः अह्नाम् कलियुगगणितः मण्डलादिः च भास्वान्
न्यासः ã 288 [x 21600] शेषम् 103
210389
अनेन अपचयेन पूर्ववत् अहर्गणस्थापना ã 99275
भागलब्धम् रवेः यातमण्डलराशिभागलिप्ताः ã
271
9
16
13
एकापनयेन कुट्टाकारः भागलब्धम् च
163294
4828291 ।
अनेन अपि त्रैराशिकेन पूर्वानीतः अहर्गणः भागलब्धम् च मण्डलादि [पूर्वोक्तम् एव] ।
माध्याह्निकः उद्देशकः ã
[यत् शेषम् मण्डलानाम् ख] नवनगचतुर्भूतशीतांशुतुल्यम्
मध्यम् यातस्य भानोः पटुतरनिकरद्योतिताशामुखस्य ।
दृष्टम् वाच्यः गणः अह्नाम् गतभगण[चयः यः अपि कालेन] सिद्धः
कुट्टाकारोपदेशः विधिवत् अधिगतः येन तेन आश्मकीयः
न्यासः ã
[ 144
210389] मण्डलशेषम् 154790 ।
अनेन मण्डलशेषेण पूर्वकरणेन लब्धम् [कुट्टाकारः] भागलब्धम् च
3997
2,
कुट्टाकारस्य चतुर्थः अंशः अहर्गणः 999 ।
एकापनयेन कुट्टाकारः भागलब्धम् च
168019
115 । अनेन त्रैराशिकेन पूर्ववत् अहर्गणानयनम् ।
तथा च याममुहूर्तनाडीविनाडिकाकालेषु अपि यथायोगम् युक्त्या कुट्टाकारः विकल्पनीयः । तत् यथा ã
उद्देशकः ã
नाडीभिः कियतीभिः अपि उपचितात् अह्नाम् गणात् आगतः
तिग्मांशोः भगणादिकः अत्र विलयम् नीतः अधुना वात्यया ।
दृष्टः सप्ततिः एकरूपसहिता शेषः कलानाम् मया
वक्तव्यः द्युगणः गतः च सवितुः स्पष्टाः च याः नाडिकाः
लिप्ताशेषः 71 ।
करणम् ã अपवर्तितरविभगणान् षष्ट्या सह अपवर्तयेत् । षष्ट्या द्वादशभागेन पञ्च । अपवर्तितरविभगणानाम् द्वादशभागेन अष्टचत्वारिंशत् । पञ्चभिः भूदिनानि [शेषम् च] संगुणय्य स्थापना ã
48 [x 21600] शेषम् 71 [x 5]
1051945
[एषु पञ्चभिः अपवर्तनम् कृत्वा स्थापना ã
207360 शेí 71]
210389
पूर्ववत् कुट्टाकारम् कृत्वा लब्धः अहर्गणः ã 720, नाड्यः 3 ।
रवियातभगणादयः च ã
1
11
19
41
एकापनयनेन अपि कुट्टाकारः भागलब्धम् च ã
59873
59011
पूर्ववत् त्रैराशिकेन अहर्गणः भागलब्धम् च ।
[अनपवर्तितशेषेण कुट्टाकारः ]
अथ पुनर् अ[न]पवर्तितम् एव शेषम् उद्दिश्य अहर्गणम् यातम् च पृच्छति, तस्य अपि अयम् आनयनोपायः । भागहारभाज्याग्राणाम् एकेन अपवर्तनच्छेदेन अपवर्तनम् कृत्वा पूर्ववत् कुट्टाकारः क्रियते । अथ पुनर् एतानि भागहारभाज्याग्राणि छेदेन एकेन अपवर्तनम् न प्रयच्छन्ति यथा तथा असौ उद्देशकः, तादृशः च एकः राशिः एव न अस्ति अतः न आनीयते ।
उद्देशकः ã
शरयमवसवः शताभिनिघ्ना दिनकरमण्डलशेषराशिसङ्ख्या ।
अविकृतभगणक्षमादिनोत्था कथय तया दिनराशिमण्डलानि
न्यासः ã 4320000 शेषम् ã 82500
1577917500
एते राशयः च खाकाशशरमुनिभिः अपवर्त्य कुट्टाकारेण अहर्गणः रवियातमण्डलानि च ã
199066
545 ।
[द्व्यग्रकुट्टाकारविशेषः ]
अथ कश्चित् [द्वि]च्छेदाग्रन्यायेन एकम् अहर्गणम् ग्रहयोः भिन्नाग्रभगणशेषाभ्याम् पृच्छति, तस्य अपि "अधिकाग्रभागहारम् छिन्द्य" आदित्यनेन द्विच्छेदाग्रानयनम् ।
उद्देशकः ã
अर्काङ्गारकवासरैः अपहृतः कश्चित् दिनानाम् गणः
लब्धौ [तत्र न वेद्मि] न एव च तयोः शेषौ मया लक्षितौ ।
यौ तौ मण्डलताडितौ अथ पुनर् भक्तौ दिनैः स्वैः पृथक्
तत्र आप्तम् मरुता अपनीत[म् अधुना च अग्रे तयोः ति]ष्ठतः ॥
अर्कस्य अश्विनगाब्धिनागशिखिनः शेषः कुजस्य उच्यते
भूताश्व्यङ्गनभः अष्टशीतकिरणक्षोणीषरक्ष्माभृतः ।
एताभ्याम् पृथक् [अर्कभूमिसुतयोः अह्नाम्] गणौ तद्गतौ
द्व्यग्रम् च अपि तयोः विगण्य गणकाः व्यावर्णयध्वम् क्रमात्
न्यासः ã अर्कस्य 38472
भौमस्य 77180625
एताभ्याम् मण्डलशेषाभ्याम् पृथक् पृथक् पूर्वेण क्रमेण कुट्टाकारम् कृत्वा अहर्गणौ लब्धौ, अर्कस्य 8833, भौमस्य 640000 । एताभ्याम् अग्राभ्याम् "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारेण" इति अनेन कुट्टाकारः क्रियते ।
तथा च न्यासः ã
[अर्कस्य] 8833 [भौमस्य] 640000
210389 131493125
अग्रान्तरम् ã 631167
एतयोः छेदाग्रान्तराणाम् अनेन 210389 अपवर्तनम् कृत्वा स्थापना ã
1 3
625
अत्र ऊनाग्रच्छेदः एकः तेन सर्वः एव राशिः शुद्ध्यते इति अतः राशिविपर्ययात् व्याख्यायते । तथा च न्यासः 1 । अत्र रूपम् विद्यते । अयम् एकः राशिः केन गुणितः अग्रान्तरम् त्रीणि अपनीय [शरयमर्तुभिः भागे हृते] शुद्धम् भागम् प्रयच्छति इति लब्धः राशिः त्रीणि रूपाणि । अस्य विपर्यस्तराशिक्रमेण एव शरयमर्तुभिः भागे हृते शेषः कुट्टाकारः त्रिकः तेन अधिकाग्रच्छेदेन गुणितः जातः 1875 । अनेन अधिकाग्रच्छेदः अयम् 131493125 गुणितः
अधिकाग्रयुतः द्विच्छेदाग्रम् संजातम् शराद्रिगुणनवाब्धिद्विवियद्भूतशररसाब्धिनेत्राणि, अङ्कैः अपि न्यासः 246550249375 । अयम् राशिः द्विच्छेदाग्रः । एवम् अन्येन छेदाग्रेण सह कुट्टाकारे क्रियमाणे द्विच्छेदाग्रसंवर्गः हारताम् प्रतिपद्यते । द्विच्छेदाग्रराशिभ्याम् सह कुट्टाकारेण त्रिच्छेदाग्रानयनम् । एवम् चतुरग्राणि अपि स्वधिया अभ्यूह्यानि इति ।
[ कक्ष्याविधौ द्व्यग्रकुट्टाकारः ]
अथ कक्ष्याहर्गणेषु उद्देशकः ã
कक्ष्याप्रक्रमसङ्ख्यया गणितयोः शेषौ रवीन्द्वः रवेः
द्व्यष्टेषु अद्ब्धिकृताब्धिखेषुभुवनच्छिद्रेन्दवः कीर्तिताः ।
नन्दाङ्गाश्विनिशाकराः कृतिहताः सम्यक् सहस्रस्य ते
द्व्यग्रम् वाच्यम् अहर्गणः कलिभुजः याताः च तत्पर्ययाः
न्यासः ã 19350444582रवेः
49797813966
1269000000 चन्द्रस्य
3724920000
अग्रान्तरम् 18081444582 । एते भागहाराग्रराश्योः अपवर्तनम् प्रयच्छन्ति । वेदनवर्तुशून्ययमैः [ 20694 ] अपवर्त्य स्थापना । 20694 एतैः अपवर्तिता रविकक्ष्या 2406389 । चन्द्रस्य अपि 180000 । अग्रान्तरम् अपवर्तितम् 873753 ।
एतैः अपवर्तितभागहाराग्रान्तरराशिभिः कुट्टाकारन्यायेन लब्धः राशिः गुणयमाद्रिपुष्करर्तुशरांगाद्रीन्दुयमाः, अङ्कैः अपि 2176563723 । "ऊनाग्रच्छेदभाजिते शेषम्" इति । अयम् राशिः ऊनाग्रच्छेदेन अनेन 180000 भक्तः शेषम् [3727] । [अनेन] शेषेण अधिकाग्रच्छेदः [अयम् 2406389] गुणितः जातः सप्तोदधियमाङ्गाष्टनन्दाष्टशरनन्दवसवः, अङ्कैः अपि 8958986247 । अयम् राशिः अपवर्तनेन अनेन [20694 गुणितः जा]तः
वस्विन्दूदधिभूतरन्ध्राग्नीन्दुरसयमाद्रिनन्दाग्निशरधृतयः, अङ्कैः अपि 185397261395418 । अयम् एव अधिकाग्रेण युतः [वियदभ्रखखा]ब्धिवसुरुद्ररसाङ्गेन्दूदधिशरधृतयः, अङ्कैः अपि 185416611840000 । अयम् राशिः द्विच्छेदाग्रः । अस्य भूदिनैः सह अपवर्तित[खकक्ष्यया भागे कृते ] अहर्गणः लभ्यते । कथम् पुनर् खकक्ष्यायाः भूदिनस्य च अपवर्तनम् ? उच्यते ã कक्ष्याभिः ग्रहानयने खकक्ष्यायाः अहर्गणः गुणकारः,
स्वकक्ष्याभूदिनसंवर्गः भागहारः इति खकक्ष्यायाः भूदिनानाम् च अपवर्तनेन वियदम्बरतिथिनन्दैः लब्धम् खकक्ष्यातः कृतोदधिनगशररामाग्निरसगुणेन्दवः, अङ्कैः अपि 136335744 । भूदिनेभ्यः अपि शराब्धियमाद्रीन्दवः, अङ्कैः अपि 17245 । अनेन भूदिनलब्धेन यथा स्वग्रहकक्ष्या गुणिता, अहर्गणापवर्तितखकक्ष्याभ्यासस्य भागहाराः भवन्ति । पूर्वलिखितद्विच्छेदाग्रराशिः अपवर्तितखकक्ष्याहर्गणसंवर्गः इति अतः स्वभागहाराभ्याम्
विभज्य लब्धम् सूर्याचन्द्रमसोः यातभगणाः । रवेः 3723, चन्द्रस्य 49777 । यौ अत्र शेषौ तयोः मण्डलशेषौ यथाक्रमेण निर्दिष्टौ भवतः । अस्मिन् एव द्विच्छेदाग्रे अपवर्तितखकक्ष्यया विभक्ते लब्धम् अहर्गणः रसविश्वाः शतवर्गगुणिताः, अङ्कैः अपि 1360000 ।
उद्देशकः ã
कक्ष्याख्यातविधिक्रमेण गणितौ शेषौ कलानाम् क्रमात्
द्व्यङ्गेषु अब्धिशिलीमुखत्रिकनभोभूतेन्द्रियाष्ट्यः रवेः ।
चन्द्रस्य आयुतताडिताः कृतरसाः वस्वग्नयः सूक्ष्मकाः
वाच्याः तद्भगणादयः दिनगणः द्व्यग्रम् च ताभ्याम् तयोः
न्यासः ã रवेः 16550354562
49797813966
चन्द्रस्य अपि 2438640000
3724920000
अत्र कुट्टाकारस्य युगपत् सम्पादयितुम् अशक्यत्वात् पृथक् पृथक् कुट्टाकारेण सूर्याचन्द्रमसोः मण्डलशेषौ अपवर्तनीयौ स्वच्छेदाभ्याम् "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारेण" इति अनेन क्रमेण अहर्गणानयनम् । तत् यथा ã रवेः शेषभागहारौ अपवर्तितौ षड्भिः ã
2758392427
8299635661
एताभ्याम् अपवर्तितशेषभागहाराभ्याम् कुट्टाकारः चिन्त्यते । तत्र भागशेषम् षष्ट्या सङ्गुणय्य अनेन एव अपवर्तितभागहारेण भागम् हृत्वा रवेः लिप्ताः लभ्यन्ते, लिप्ताशेषः च अतिरिच्यते । स लिखितः एव । तत्र इदम् चिन्त्यते ã सष्टिः केन गुणिता लिप्ताशेषम् अपनीय अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति । एवम् भागशेषः उपलभ्यते । स च 7377318041 । अथवा षष्टिः केन गुणिता एकम् अपनीय षड्भिः अपवर्तितभागहारेण हृता शुद्धम्
भागम् दास्यति इति एकापनयनकुट्टाकारम् अपि आनीय तेन भागशेषानयनम् लिप्तानयनम् च । एकरूपापनयनेन कुट्टाकारः भागलब्धम् च ã
8161308400
[59]
अनेन कुट्टाकारेण पूर्वलिखितः भागशेषः लभ्यते । ततः पुनर् अपि तेन भागशेषेण त्रिंशता च कुट्टाकारः क्रियते । त्रिंशत् केन गुणिता भागशेषम् अप[नीय] षड्भिः अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति राशिशेषः उपलभ्यते । स च 5502346520 । एवम् पुनर् अपि अनेन कुट्टाकारः क्रियते । द्वादश केन गुणिता राशिशेषम् अपनीय तस्य एव षड्भिः अपवर्तितभागहारस्य शुद्धम् भागम् दास्यति इति मण्डलशेषः उपलभ्यते । स च
3225074097 । अयम् अपवर्तितभागहारभाज्याभ्याम् उत्पन्नः इति षड्भिः गुणितः प्रागुपन्यस्तोद्देशकमण्डलशेषः भवति इति सः पूर्वलिखितः एव । एकापनयनेन [कुट्टाकारः] भागलब्धम् च 7607999356 । भागलब्धैः पृतह्क् पृथक् राशिभागलिप्तानयनम् ।
[ 11]
एवम् चन्द्रस्य अपि शेषभागहारराशी क्रमेण आयुतगुणिताष्टोत्तरशतेन अपवर्त्य स्थापना ã2258
3449
आभ्याम् क्रमेण कुट्टाकारः पूर्ववत् । षष्ट्या च भागशेषः लभ्यते, स च 2222 । एकापनयनेन अपि कुट्टाकारः भागलब्धम् च
1782
31 ।
पुनर् अपि भागशेषापनयनेन त्रिंशता च कुट्टाकारम् कृत्वा राशिशेषः लभ्यते । स च 304 । एकापनयनेन अपि कुट्टाकारः भागलब्धम् च
115
1 ।
ततः पुनर् अपि राशिशेषापनयनेन द्वादशानाम् च कुट्टाकारम् कृत्वा मण्डलशेषः लभ्यते, स च 1175 । एकापनयनेन अपि कुट्टाकारः भागलब्धम् च
2012
7 ।
अत्र च आनीतः मण्डलशेषः एव अष्टोत्तरशतेन आयुतगुणितेन अभ्यस्तः प्रागुपन्यस्तोद्देशकमण्डलशेषः भवति "चन्द्रस्य आयुतताडिताः कृतरसाः" इति आदि पूर्वलिखिता एव ।
एवम् मण्डलशेषौ सूर्याचन्द्रमसोः अवगम्य "अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारेण" इति अनेन पूर्वक्रमेण गतमण्डलानि अहर्गणः च पूर्वलिखितः एव । अथवा यः असौ पूर्वमण्डलशेषराशिना अनेन क्रमेण आनीतः खखषड्घनेन गुणितः स्वकक्ष्याभागहारेण अपहृतः यथाविहितलिप्ताशेषराशिः इति अतः इदम् विचिन्त्य[ते ã खख]षड्घनः केन गुणितः सूर्याचन्द्रमसोः पृथक् पृथक् अभिहितलिप्ताशेषम् अपनीय
स्वकक्ष्योक्तभागहाराभ्याम् अपहृतम् पृथक् शुद्धम् भागम् प्रयच्छति इति एवम् कुट्टाकारे कृते सूर्याचन्द्रमसोः पृथक् पृथक् गतमण्डलानि तयोः मण्डलशेषराशी च लभ्येते । तानि मण्डलानि मण्डलशेषराशी च पूर्वलिखितः एव ।
[ कक्ष्याविधौ त्र्यग्रकुट्टाकारः ]
एवम् त्र्यग्रकुट्टाकारः अपि विगण्यते । तत् यथा ã
उद्देशकः ã
तिग्मांशोः गगनाग्निदस्रगगनम् सूर्याब्धिरामेषवः
रामाङ्गाब्धिवियत्कृशानुदहनाः शेषः स्मृतः माण्डलः ।
इन्दोः अम्बरशून्यवेदगगनम् रामाब्धिदस्रद्विकम्
रन्ध्राद्र्यम्बरसप्तभूतयमलाः शेषः गुरोः उच्यते ॥
व्योमाभ्राब्धिशरार्थसप्तगिरयः वस्वङ्कषट्षट्कका
भूतेन्द्वङ्करसाग्निदृष्टनिचयः कक्ष्याभिधानात् अयम् ।
त्र्यग्राहर्गणमण्डलानि विधिव[त् वाच्यानि] तत्सङ्ख्यया
कुट्टाकारविचित्रता परिगता यदि अश्मकोक्तक्रमात्
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0