आर्यभटीय (टीका सहित) · अध्याय 39
न्यासः ã
रवेः 330463534120230
472332265467510
चन्द्रस्य 25707922430400
35330866200000
गुरोः 3691566987755400
5602254071175000
अत्र एतयोः [रविचन्द्रा]ग्रयोः अन्तरम् व्योमाग्निवसुनवाष्टषड्रुद्ररसशरभूताद्रि-कृताम्बराग्नयः, अङ्कैः अपि 304755611689830 ।
[भागहाराग्रा]णाम् सून्याङ्कशरयमवसुदस्ररसनवेन्दुभिः अपवर्तनम्, अङ्कैः अपि 196282590 । अनेन अपवर्तिते रवेः नवाष्टाग्निरसाम्बराब्धियमाः, अङ्कैः अपि 2406389; चन्द्रस्य शून्याम्बराकाशवियदष्टेन्दवः, अङ्कैः अपि 180000; अग्रान्तरम् अपवर्तितम् 1552637 ।
एताभ्याम् अपवर्तितभागहाराभ्याम् अपवर्तिताग्रान्तरेण कुट्टाकारः लब्धः स्वराङ्गाद्रिरामाङ्गरसाद्रिरसवसुलोकाः, अङ्कैः अपि 3867663767 । अयम् ऊनाग्रच्छेदेन अपवर्तितेन अपहृतः सन् अविशिष्टः स्वराङ्गाद्रिदहनाः 3767 । अयम् अपवर्तिताधिकाग्रभागहारेण गुणितः भूयः च अपवर्तितेन शून्याङ्कशरयमवसुदस्ररसनवेन्दुभिः [गुणितः] अधिकाग्रेण युतः जातः द्विच्छेदाग्रराशिः
सून्याम्बरोदधिवियदग्नियमाकाशशरशराद्रिशून्येन्दुरसाम्बराङ्गाङ्काद्रि-स्वरेन्दवः, अङ्कैः अपि 1779606107550230400 । अस्य द्विच्छेदाग्रस्य तृतीयच्छेदाग्रेण सह कुट्टाकारे क्रियमाणे निवृत्तकर्मच्छेदयोः अभ्यासः छेदः भवति यमरसेन्दुमुनिशराश्विरसाद्रिजलधिशर-मुनिरूपदहनाद्रिशून्याष्टाम्बरनवमुनिवस्वङ्गाष्टयः, अङ्कैः अपि न्यासः ã 16687908073175476257162000000 । अत्र उपन्यस्ततृतीयच्छेदेन अधिकाग्रच्छेदस्य भागः तत्र शून्यम्
अवशिष्यते । तत् एव शून्यम् कुट्टाकारः इति पूर्वनिष्पन्नम् द्विच्छेदाग्रम् त्र्यग्रम् तत् पूर्वलिखितम् एवम् । तस्य खकक्ष्योत्पन्नयोजनानाम् एव अङ्कराशिनः अनेन आकाशोदधिवसुरूपशिखिशरकृतम् अनुलोकाङ्करविभागः 1293144531840 । लब्धम् अहर्गणः शरवसुरूपाङ्गाद्रिविश्वाः 1376185 ।
एवम् अयम् कुट्टाकारविधिः विचिन्त्यमानः महोदधिजलतरणवदप्रमेयः इति विरम्यते ।
[ एकापचयेन कुट्टाकारलब्धी ]
एते ग्रहकुट्टाकाराः श्लोकैः अपि उपनिबध्यन्ते । तत् यथा ã
भास्करादिशरीराय भास्करायुततेजसे ।
जगदुत्पत्तिसंहारहेतवे शम्भवे नमः
कुट्टाकारः च लाभः च द्वन्द्वतः भगणात् इतः ।
निर्दिश्यते क्रमात् अत्र तद्विदाम् प्रीतये मया
[ सूर्यस्य ]
तिग्मांशोः [नयन]नभोरसाब्धिनन्दाः [94602 ]
तत् लब्धम् भगणभवम् नवेषुदस्राः [259] ।
राशीनाम् वसुनगखम् गुणाः शिवाः च [113078]
लाभः स्यात् शरशशिनः अद्रिरामसङ्ख्या [3715]
रामाद्रिनागनवभूत[59873]समांशकस्य
लब्धः [अत्र रुद्र]वियदङ्कशराः [59011] प्रदिष्टाः ।
लप्तः अद्रिवेदरसरूपमतङ्गगजः [81647] अधः
रूपाङ्कदस्रभुजगद्विकनागवेदाः [4828291]
एकाद्रिरन्ध्रखरसाः तु [60971] विलि[प्तिकानाम्
सञ्जातम् एव] गुणकारम् अतः अत्र लब्धम् ।
शीतांशुरन्ध्रकृतबाणगुणाग्निषट्क-
चन्द्राश्वि[216335491]सङ्ख्यम् अनु तस्य च तत्पराणाम्
दस्रनाग[मुनिवेदपयोधिरूप 144782 म्] अत्र गुणकारम् उशन्ति ।
रूपनन्दजलधीन्दुनगाङ्गद्विद्विनागवियदग्नि[30822671491]म् अधः च
षड्विंशतिः जलधिरन्ध्र[9426]समानसङ्ख्यः
ज्ञेयः [प्रतत्परभवः] गुणकारराशिः ।
शीतांशुरन्ध्रमनुनन्दशशाङ्कदस्र-
व्योमाब्धिशून्यरवयः [120402191491] खलु तत्र लब्धम्
एकः एव स्मृतः छेदः चक्रादीनाम् विवस्वतः ।
प्रतत्परान्तमा[नानाम्] खाम्बरेषुमहीभृतः [7500]
[ चन्द्रस्य ]
शीतरश्मि[भगणैः] प्रकुट्टिते
सप्तरामवसुषट्स्वराद्रयः [776837] ।
लब्धराशिनिचयः व्यवस्थितः
पुष्कराग्निकृतनागबाहवः [28433]
राशितः अपि रसदस्रतापसा
व्योमवेदगगनाश्विनः [2040726] गुणः ।
तत्र लब्धनिचयः विकथ्यते
रुद्रवह्निरसनन्दपन्नगाः [896311]
चन्द्रसूर्यगगनाब्धिपावकाः [340121 ]
भागशेषगुणकारसंज्ञितः ।
भूतबाणशरचन्द्रकुञ्जराः
सागराम्बुनिवहाः च [4481555] लब्धकः
नागबाणशिवदस्र[21158]सम्मितः
लिप्तिकासु विगणय्य कीर्त्यते ।
नन्दरुद्रगिरयः अश्विभूधराः
[अष्टयः अत्र 16727119] गणितेन लभ्यते
वेदविश्वरसरूप [16134] सम्मितम्
शीतरश्मिविकलासमुद्भवः ।
बाणरूपगुणशक्रपावकाः
भूतषट्कमुनयः [765314315] परः स्मृतः
तत्परेषु धृतिभूतषट्ककाः [6518]
निर्दिशन्ति गुणकारसङ्ख्यया ।
ऋक्षनन्दशशिरामकुञ्जर-
व्योमबाणशरधार्तवः [18550831927] अपरः
तत्परेषु परतः च कीर्तिताः
रामनन्दयमदस्रकाः [2293] क्रमात् ।
रुद्रबाणगिरिदस्रसागराः
भूतषट्कतिथिनन्दविक्रमाः [391565427511]
अंशात् आरभ्य शीतांशोः पञ्च [5] पञ्च [5] गुणः परः ।
छेदः कल्प्यः क्रमात् अत्र दन्तशैल[732]समन्वितः
[ चन्द्रोच्चस्य ]
नन्दर्षिनागागरसाः रसाष्ट-
प्रालेयरश्म्यद्रि[718667879]समानसङ्ख्यः ।
इन्दूच्च[कस्य गुणकः अत्र] भचक्रदृष्टः
चन्द्राङ्गलोकयमदस्रयमाः च [222361] लब्धः
अब्धीशु[दस्राश्विनभः यमेन्दु-]
षट्क[61202254]प्रमाणः गुणकारराशिः ।
लब्धः अद्रिलोकाश्विनगाश्विदस्राः [227237]
राशिक्रमात् अत्र विगण्यमाणः
वेदाष्टबाणाङ्गरसाः नवाष्ट-
प्रालेयरश्मि[18966584]क्रमसङ्ख्यया उक्तः ।
अंशक्रमात् अग्नियमाङ्गसूर्य-
शीतांशुदस्राः [2112623] गणितेन लब्धः
लिप्तागतः दन्तनभोद्रिनाग-
व्योमेषवः [5087032] अस्मिन् गुणकारराशिः ।
नक्षत्रषट्पर्वतनन्दरन्ध्र-
लोकाग्नि[33997627]सङ्ख्यः कथितः अत्र लब्धः
विलिप्तिकायाः शशिसप्तदन्त-
क्षोणीधराः [73271] स्युः गुणकारसङ्ख्या ।
लोकाङ्गदिङ्नागकृशानुनन्दाः
दस्रान्विताः [29381063] लाभम् उशन्ति तज्ज्ञाः
अष्टाङ्गधात्रीधररामनन्द[93768]-
सङ्ख्यासमानः अत्र हि तत्परोत्थम् ।
तन्मात्रनन्दाग्निशशाङ्करूप-
व्योमाङ्गबाणाश्वियमाः च [2256011395] लब्धः
प्रतत्प[रायाः] क्रमशः अब्धिशैल-
वस्वङ्कषट्केन्दु[169874]समानसङ्ख्यः ।
लब्धः च रुद्राष्टशशाङ्कलोक-
शून्येषुदस्राश्विशराब्धिदस्राः [245225031811]
राश्यादीनाम् क्रमात् [अत्र छेदाः कल्प्याः यथोक्तवत्] ।
द्वादशः [12] च ततः पञ्च [5] [पञ्च 5 यावत् तु] तत्परम्
[ चन्द्रपातस्य ]
सप्ताद्रिचन्द्राङ्गनभोङ्गबाण-
दस्राङ्ग[625606177]सङ्ख्यम् गुणकारम् आहुः ।
[लाभः च पातस्य] गणेषु सम्यक्
दस्राश्वशून्याश्विनवप्रमाणः [92072]
शीतांशुशून्याब्धिकृशानुषट्क-
पञ्चेषुरुद्रम् [115563401] प्रवदन्ति तज्ज्ञाः ।
त्रिच्छिद्रशून्याब्धिनभः यमाः च [204093]
लाभः [अत्र] राशिक्रमसम्प्रभूतः
शीतांशुसप्ताङ्गकृशानुवेद-
षट्लोकदस्राः [23643671] गुणकारभूताः ।
हिमांशुनन्दाङ्गयमेषुसूर्याः [1252691]
लाभः अनु भागक्रमसङ्ख्ययोक्तम्
अष्टेषुवस्विन्दुषडेकवेदाः [4161858]
प्रोक्ताः कलानाम् गुणकारसंख्याः ।
पञ्चाग्निदस्राम्बरलोकदस्र-
विश्वैः [13230235] समानम् प्रवदन्ति लब्धम्
वेदाङ्कभूभृद्यमसप्तनागाः [872794]
राशिविलिप्तागुणकारयुक्त्या ।
लब्धः क्रमेण अत्र नगाम्बराष्ट-
दस्राद्रिवेदाङ्गरसेन्दवः [166472807] स्युः
यः तत्परेभ्यः गुणकारराशिः
वस्वङ्गषट्सप्तकृशानवः [37668] अत्र ।
लब्धः अपि सप्ताम्बरबाण[सप्त]-
सप्ताम्बरेन्द्वग्निकृत[431077507]प्रमाणः
नन्दाग्निनन्दवसुषट्कशशाङ्क[168939]सङ्ख्यम्
प्रतत्पराणाम् प्रवदन्ति गुण्यम् ।
एकाद्रिबाणाद्रिनवेषुचन्द्र-
शून्याम्बराष्टी शशिनः च [116001597571] लब्धः
भगणानाम् द्विक[2]च्छेदः राशीनाम् द्वादश [12] उच्यते ।
अंशादिनिचयानाम् तु पञ्चकः [5] कथ्यते बुधैः
[भौमस्य]
भौमस्य विश्वार्कदिगष्टयः [16101213] स्युः
भपर्ययाणाम् गुणकारजातः ।
लब्धः अत्र सप्ताग्निसमुद्रलोक-
दस्र[23437] प्रमाणम् कथितम् क्रमेण
नन्दाब्धिशून्येषुशशाङ्कदस्र-
वेदाग्नयः [34215049] अस्मिन् गुणकारमानम् ।
राशिक्रमात् लोककृताङ्गसप्त-
नन्देषवः [597643] लब्धिचयम् निरुक्तम्
भागप्रमाणम् कृतशून्यवेद-
नन्देन्दुविश्वम् [1319404] प्रवदन्ति गुण्यम् ।
लब्धस्य चन्द्राङ्ककृशानुचन्द्र-
च्छिद्राङ्ग[691391]तुल्या विहिता अत्र सङ्ख्या
[लैप्तः तु] दस्राङ्कशशाङ्कलोक-
षण्णागरूपाणि [1863192] गुणः गुणज्ञैः ।
दृष्टा अत्र लब्धिः तु शशाङ्कलोक-
[सप्ताम्बराष्टेषु] गजेषु [58580731] तुल्यम्
विलिप्तिकानाम् रसषट्कदस्र-
पञ्चेषुरूपाणि [155266] गुणः प्रतीतः ।
लाभः शरार्थाङ्गकृशानुशून्य-
रन्ध्राश्विनन्दद्विक[292903655]तुल्यम् आहुः
लोकाङ्गदस्राष्टधृति[188263]प्रमाणम्
गुण्यम् क्रमात् तत्परसङ्ख्यया अस्मिन् ।
बाणाग्निषट्सप्तनगाम्बराङ्क-
बाणाग्निषट्सप्तनगाम्बराङ्क-
शून्याग्निशीतांशुयमाः च [21309077635] लब्धः
दस्राश्विसप्ताष्टकृत[48722]प्रमाणम्
प्रतत्पराणाम् निचयः गुणस्य ।
रूपेषुषट्काग्निनभोश्विवेद-
वस्वष्टशून्याग्निगुणाः च [330884203651] लब्धः
मण्डलानाम् गृहाणाम् च छेदः द्वादशकः [12] स्मृतः ।
पञ्च [5] पञ्च [5] परेषाम् तु भागादीनाम् इति स्थितिः
[बुधशीघ्रोच्चस्य ]
अङ्गाद्रिदस्रक्षिति[भृद्गजेषु-
लोकाश्वि 23587276 सङ्ख्यम् शशि]जस्य गुण्यः ।
भपर्ययाणाम् नवसूर्यनाग-
षड्दस्र[268129]सङ्ख्यम् क्रमशः च लब्धः
राशिक्रमे[ण अङ्क]शशाङ्कनाग-
षण्णन्दनागेषुसमः [5896819] गुणः स्यात् ।
सप्ताष्टलोकाब्धिनभस्सनाग[804387]-
निर्दिष्टसंख्यः विधिवत् च लब्धः
भागेषु वेदाश्विसमुद्रनन्द-
बाणाष्टचन्द्रान् [1859424] गुणकारम् आहुः ।
छिद्राग्निलोकाङ्कनभः अङ्गशैल[7609339]-
संख्याप्रमाणम् खलु तत्र लब्धम्
सिद्धम् कलानाम् यमबाणनन्द-
वेदेषुचन्द्रान् [154952] गुणकारम् आहुः ।
लाभः शराङ्काङ्गरसाब्धिशून्य-
वस्वग्नि[38046695]सङ्ख्यः गणकैः निरुक्तः
राशिः विलिप्तागुणकारसंज्ञः
दस्राद्रिचन्द्राग्नितिथि[153172]प्रमाणम् ।
नन्दाद्रिचन्द्राष्टगिरीषुषट्क-
भूताश्विदस्रा [2256578179] विधिना अत्र लब्धः
उक्तः गुणः तत्परसङ्ख्यया अत्र
पूर्णाङ्कसंस्कारधृतिम् [184890] वदन्ति ।
चन्द्राङ्कशून्येषुरसाब्धिचन्द्र-
लोकाब्धिलोकाष्टि[163431465091]समः च लाभः
षट्सप्तदस्राष्टनभः सरूपम् [108276]
प्रतत्पराणाम् गुणना अथ लब्धम् ।
चन्द्राङ्कवस्वेषुषडेकदस्र-
षट्पञ्चदस्राब्धिशिलोच्चया अर्थान् [5742562165891]
विंशतिः [20] च तथा षष्तिः [60] छेदः मण्डलराशिजः ।
भागादीनाम् क्रमात् पञ्च [5] प्रवदन्ति मनीषिणः
[ गुरोः ]
अष्टौ गुणव्योमकृशानुभूत-
शून्याङ्गशैला [76053038] गुणजः समूहः ।
पञ्चेषुभूताद्रिसुधामयूखाः [17555]
लब्धः गुरोः स्यात् भगणक्रमेण
वेदाद्रिदस्राग्निशराश्विनाग-
दस्रा [28253274] गुणः राशिविधानदृष्टः ।
लब्धः अङ्कतत्त्वाष्टनग[78259]प्रमाणः
निरुच्यते अस्मिन् गणितत्प्रसिद्धेः
नन्दाद्रिवस्वष्टनभः अद्रिवेदा [4708879]
राशिः गुणाख्यः खलु भागजातः ।
भूताङ्कतिग्मांशुनवाग्नि[391295]तुल्यम्
लाभप्रमाणम् प्रवदन्ति तज्ज्ञाः
सप्तेन्दुशैलाम्बरलोकनागान् [830717]
लिप्ताक्रमात् गुण्यम् उशन्ति तज्ज्ञाः ।
नन्देन्दुधृत्यब्धिशशाङ्कवेदा [4141819]
लाभः कलानाम् कथितः विगण्य
विलिप्तिकानाम् शशिषट्कनागा
दस्राष्टषड्भिः [682861] गुणकारजातम् ।
रूपाङ्कनन्दाद्रिनगाश्विवेद-
शून्याश्विनः [204277991] अस्मिन् प्रवदन्ति लब्धम्
दन्ताङ्गनन्दाद्रिसुधामयूख[179632]-
सङ्ख्यः गुणः च अत्र हि तत्पराणाम् ।
सप्ताम्बराद्र्यष्टियमाब्धिदस्रान्
दन्तैः समेतान् [3224216707] कथयन्ति लब्धम्
एकाग्निरामेषुधृति[185331]प्रमाणम्
प्रतत्पराणाम् गुणजा अत्र लब्धम् ।
रूपाद्रिशीतांशुनगाष्टवेद-
व्योमाङ्कतन्मात्रनवाङ्कचन्द्राः [199590487171]
मण्डलानाम् च राशीनाम् छेदः द्वादशकः [12] स्मृतः ।
भागलिप्तादिराशीनाम् छेदः पञ्च एव [5] कथ्यते
[ शुक्रशीघ्रोच्चस्य ]
नन्दाब्धिशून्याङ्गकृताभ्रशून्य-
शैला [70046049] भृगूच्चस्य गुणः गणानाम् ।
लाभः अब्धिरामाद्रिशिवाग्नि[311734]तुल्यः
सङ्ख्याविधानक्रमसङ्ख्यया उक्तम्
पक्षेषुवेदाम्बरचन्द्रशैल-
नागाग्नयः [38710452] राशिगुणः प्रदिष्टः ।
लब्धः निशानाथहुताशानाग्नि-
शैलाङ्गशून्याश्विसमः [2067331] समूहः
दस्रापगानाथशिलोच्चयेन्दु-
[शराब्धिषट् 6451742 सङ्ख्य]समः अंशगुण्यः ।
तन्मात्रभूताङ्गरसाग्निलोक-
व्योमेन्दवः [10336655] राशिः अथ अत्र लब्धः
अङ्गाङ्गपक्षोदधिचन्द्रशक्रा [1414266]
राशिः कलानाम् गुणकारजातः ।
[शशाङ्क]लोकाङ्कशशाङ्कबाण-
च्छिद्रेषुलोकेन्दु[135951931]समः अत्र लाभः
अष्टाश्विनागाग्निकृताङ्ग[643828]तुल्यम्
प्राहुः गुणाख्यम् विकलासु जातम् ।
लब्धः च रूपाद्रिविवस्वदग्नि-
वेदाग्निशीतांशुनगाग्नयः [3713431271] स्युः
सङ्ख्याक्रमात् तत्परराशिगुण्यः
पक्षाष्टभूभृद्दहनार्क[123782]सङ्ख्यः ।
लोकाष्टपक्षाङ्कयमेषुषट्क-
रामाष्टपक्षाब्धि[42836529283]समः अत्र लाभः
प्रतत्पराणाम् गुणकारराशिः
अङ्गक्षमाभृद्गगनाङ्क[9076]सङ्ख्यः ।
रूपेषुवस्वङ्गषडद्रिपक्ष-
पञ्चाब्धिनागान् धृतिकम् च [188452766851] लब्धः
मण्डलानाम् सराशीनाम् छेदः द्वादशकः [12] स्मृतः ।
शक्रारिपूज्यभागादेः पञ्च [5] पञ्च एव [5] कथ्यते
[ शनेः ]
रुद्राश्वि[भूताङ्गनभोग्निरुद्रा 113065211]
गु[णः प्रदि]ष्टः भगणेषु तज्ज्ञैः ]
तिग्मद्युतेः आत्मजलब्धराशिः
दस्राभ्रबाणाम्बररात्रिनाथाः [10502]
वेदाष्टभूताङ्ककृशानुरूप-
चन्द्रर्तवः [61139584] अस्मिन् गुणकारराशिः ।
राशिक्रमात् लब्धसमः तु सङ्ख्यः
सप्ताब्धिचन्द्राष्टरसा [68147] निरुक्ताः
छिद्राग्निचन्द्राङ्गशराङ्कनाग-
प्रालेयरश्मि[18956139]प्रभवः गुणाख्यः ।
अंशावधेः अग्निरसाष्टलोक-
रामर्तवः [633863] लाभभवः समूहः
सप्ताब्धिशैलोदधिषट्कदस्रान् [264747]
दृष्टः समूहः गुणकारजन्मा ।
लिप्ताक्रमात् अत्र विगण्यमानः
रामाङ्गरुद्राग्निशराः [531163] च लाभः
शीटांशुदस्राम्बररुद्रनागा [811021]
राशिः विलिप्ताप्रभवः गुणस्य ।
सप्ताष्टनेत्राङ्कयमाङ्गसप्त-
नन्द[97629287]प्रमाणा विहिता अत्र लब्धिः
निर्दिश्यते तत्परराशिगुण्यः
सूर्याग्निशून्याङ्क[निशाधिनाथाः 190312] ।
लाभः अद्रिशून्येषु[शराङ्ग]भूत-
वेदाद्रिरामामृतसन्मयूखाः [1374565507]
प्रतत्पराणाम् नवशून्यबाण-
भूताष्टचन्द्रा [185509] गुणना अथ लाभः ।
रुद्राश्विवेदाङ्कसमुद्रपक्ष-
च्छिद्राग्निशून्यम् फणिभृत्समेतम् [80392494211]
चतुष्कः [4] भगणच्छेदः राशीनाम् द्वादश एव [12] च ।
छेदः क्रमेण पञ्च [5] उक्तः सौरस्य लवतः स्फुटः
[ चन्द्रकेन्द्रस्य ]
अग्नीषुनन्दाग्निशशाङ्कसूर्य-
वेदाग्नयः [341213953] स्युः भगणोत्थगुण्यः ।
शीतांशुकेन्द्रस्य गुणाङ्करूप-
रामाष्टलोकार्क[12383193]समः च लब्धः
तद्राशितः रामनभः अद्रिसप्त-
दस्राश्विवस्वद्रि[78227703]समः गुणः स्यात् ।
लब्धः अश्विनागाम्बरपन्नगाङ्ग-
शून्याब्धिरामा [34068082] गणकैः निरुक्तः
रामाङ्गदस्राद्रिभुजङ्गचन्द्र-
षट्काश्वि[26187263]सङ्ख्यः अंशकजः गुणः स्यात् ।
रूपाङ्गसप्तेषुगुणेन्दुदस्र-
वेदाग्नि[342135761]सङ्ख्यम् प्रवदन्ति लब्धम्
लिप्तागतः अस्मिन् गुणकारराशिः
वेदाश्विनागाग्निनगाग्निवेदाः [4373824[ ।
पञ्चेन्दुरामाश्विगुणा[ङ्गनाग-
नेत्राब्धि]लोकाः [3428632315] खलु तत्र लब्धः
विलिप्तिकानाम् गुणकारराशिः
सप्ताग्निनागाग्निशशाङ्क[13837]तुल्यः ।
नन्दाद्रिनागस्वरशून्यनाग-
शून्येषुषट्[650807879]तुल्यकम् अत्र लब्धम्
दृष्टः गुणः तत्परराशिलब्धः
शून्याष्टनागाग्निरवि[123880]प्रमाणम् ।
रुद्राम्बराद्र्यङ्गकृताग्निरन्ध्र-
बाणाङ्कवेदाः सगुणाः च [34959346011] लब्धः
प्रतत्पराणाम् जिनवह्निदस्र-
शक्रा [142324] गुणः तत्र [तु] लब्धराशिः ।
रूपेषुदस्राङ्कवसुस्वराश्वि-
नागेषुनागाङ्कनभः जिनाः च [24098582789251]
छेदः अपवर्तकः ज्ञेयः राशीनाम् द्वादशात्मकः [12] ।
भागादीनाम् क्रमात् छेदाः पञ्च [5] दृष्टाः क्रमात् बुधैः
[ अधिदिवसस्य ]
रन्ध्रशून्येषुदस्राद्रिषट्क[672509]तुल्यः अधिकः गुणः ।
लब्धराशिः क्रमात् व्योम्[सप्ताङ]आम्बरदस्रकाः [20670]
[ अवमदिवसस्य ]
चन्द्राग्न्यम्बरसप्ताब्धियमषट्कः [6247031] अवमः गुणः ।
लब्धः अपि नववेदाद्रिशैलरन्ध्राणि [97749] कीर्त्यते
[सूर्यापक्रमस्य ]
अपक्रमस्य सप्ताब्धिपुष्कराणि [347] गुणः क्रमात् ।
लब्धराशिः क्रमात् दृष्टः [रूपवेद]निशाकरः [141]
[ अधिमासस्य ]
युगाधिमासैः मुनिचन्द्रलोक-
व्योमाम्बराङ्कः धृतयः च [18900317] दृष्टः ।
गुण्यः अत्र लब्धः अपि शराष्टशून्य-
नवेन्दवः [19085] अस्मिन् भगणेषु नित्यम्
शीतांशुरन्ध्राग्निनभःशिवाश्वि-
सूर्यैः [122110391] समानः गुणकारराशिः ।
लोकाब्धिषण्णन्दमुनीन्द्र[1479643]सङ्ख्यः
लब्धः अत्र राशिः खलु राशिजातः
रसाग्निवस्वब्धिकृशानुसप्त-
वेदाश्विनः [24734836] स्युः गुणकारराशिः ।
रूपेषुभूतैकनवाङ्कनागा [8991551]
लब्धः क्रमेण अंशककर्मसिद्धः
वस्वद्रिवेदेन्द्रगजाग्नि[3814478]सङ्ख्यः
लिप्तासु दृष्टः गुणकारराशिः ।
नन्देन्दुनागाद्रिनवैकलोक-
नाग[83197819]प्रमाणम् प्रवदन्ति लब्धम्
नन्दाब्धिपञ्चाश्विमनु[142549]प्रमाणम्
दृष्टः विलिप्तागुणकारसिद्धिः ।
रुद्राद्रिसंस्कारशराङ्गनाग-
प्रालेयरश्मिम् [186548711] प्रवदन्ति लाभम्
सङ्ख्या [गुणस्य] अपि च तत्पराणाम्
रसा नभः अङ्गाब्धिकृशानुचन्द्राः [134606] ।
लोकाष्टषण्णन्दकृशानुदस्र-
च्छिद्राङ्गबाणाः सदिशः च [10569239683] लब्धः
प्रतत्परेभ्यः अर्ककृताग्निनन्द[93412]-
राशिः निरुक्तः गुणकारजातः ।
एकाग्निभूताष्ट[त्रिभूप]नाग-
व्योमाभ्रवेदाब्धि[440081638531]समः अत्र लाभः
भगणानाम् सराशीनाम् द्वादश [12] एव अपवर्तकः ।
पञ्च [5] पञ्च एव [5] शेषाणाम् छेदः अस्मिन् अपवर्तने
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0