भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 37

37.1

भक्ते, हृते । विलोमविवरे, एकः गच्छति अपरः तत्प्रतिमुखम् प्रत्यागच्छति तत् विलोमविवरम्, अनुलोमगतेः विलोमगतेः च अन्तरम् इति । अत्र अनुलोमशब्दः लुप्तनिर्दिष्टः प्रत्येतव्यः । अथवा विलोमविवरम् एवंप्रकारम् एव परिगृह्यते, यदि द्वौ अपि विलोमगती स्याताम्, तदा अनुलोमविवरम् एव स्यात् । तस्मिन् विलोमविवरे भक्ते । केन इति आह ã गतियोगेन । गत्योः योगः गतियोगः, तेन गतियोगेन । अनुलोमविवरे, अनुलोमगत्योः विवरम् अनुलोमविवरम्
। द्वौ इति द्वयोः प्रतिलोमानुलोमयोगकालयोः परम् अंशम् करोति । गत्यन्तरेण, गत्योः अन्तरम् [गत्यन्तरम्] गतिविशेषः, तेन गत्यन्तरेण । लब्धौ द्वियोगकालौ, द्वयोः योगः द्वियोगः, द्वियोगस्य कालौ द्वियोगकालौ । अतीतैष्यौ अतीतः च एष्यः च अतीतैष्यौ । अतीतः अतिक्रान्तः, एष्यः भावि । तत् यथा ã यदा एकः ग्रहः पुरस्तात् स्थितः वक्री, [अन्यः] पश्चात् अवस्थितः चारेण गच्छति, तयोः अन्तराललिप्ता विलोमविवरम् । तत्र एकस्य अनुलोमचारिणः, अपरस्य प्रतिलोमम्
आगच्छतः अल्पेन कालेन योगः भविष्यति इति तयोः भुक्तियोगेन भागः ह्रियते, यस्मात् तावान् एव तयोः आह्निकः भोगः । तेन त्रैराशिकम् क्रियते ã यदि अनेन आह्निकेन भोगेन एकः दिवसः लभ्यते, तदा अनेन विलोमविवरेण किम् इति । दिवसा घटिका वा लभ्यन्ते । तावान् कालः अतिक्रान्ते योगे अतीतः, भाविनि योगे एष्यः । तत्र समलिप्ताविधानम् भुक्त्या त्रैराशिकम् ã यदि षष्ट्या घटिकाभिः ग्रहस्फुटगतिः लभ्यते, तदा विलोमोत्पन्नघटिकाभिः का भुक्तिः इति
लब्धम् अनुलोमगतौ ग्रहे प्रक्षिप्यते विलोमगतेः अपनीयते । एवम् तौ समलिप्तौ ग्रहाविष्टकालसम्भवौ भवतः । अथ वक्रगतिः पश्चात् अवतिष्ठते, पुरस्तात् अनुलोमगतिः तदा लब्धम् फलम् वक्रगतौ प्रक्षिप्यते अतिक्रान्तत्वात्, अनुलोमगतिः विशोध्यते अतिक्रान्तत्वात् एव । यदा पुनर् अनुलोमगती एतौ भवतः तदा भुक्तिविशेषेण अनुलोमविवरस्य भागः, यस्मात् भुक्तिविशेषतुल्यम् आह्निकम् गत्यन्तरम् तयोः । ततः अनेन गत्यन्तरेण भुक्तिविशेषेण
जनितेन षष्तिः नाड्यः उपलभ्यन्ते तदा अनुलोमविवरेण किम् इति घटिकाः लभ्यन्ते । ताभिः च ग्रहस्फुटभुक्त्या सह त्रैराशिकम् ã यदि षष्ट्या स्फुटभुक्तिः लभ्यते, आभिः घटिकाभिः किम् इति । लब्धम् शीघ्रगतौ पश्चात् व्यवस्थिते उभयम् उभयत्र स्वम् स्वम् प्रक्षिप्यते । शीघ्रगतौ पुरःस्थिते तत् उभयम् उभयस्मात् अपनीयते । एवम् द्वियोगकालौ अतीतैष्यौ भवतः । यदा च द्वौ अपि वक्रगती भवतः तदा अपि एवम् एव कर्म । इदम् एव कर्म
अस्माभिः कर्मनिबन्धे उक्तम् ã
ग्रहयोः अन्तरम् भाज्यम् प्रतिलोमानुलोमयोः ।
भुक्तियोगेन वा अन्यत्र भोगविश्लेषसङ्ख्यया ॥
दिनादिः लभ्यते कालः योगिनाम् योगकारकः ।
भुक्तेः अनेकरूपत्वात् स्थूलः कालः स गम्यते ॥
समलिप्तावतः युक्त्या कुर्यात् तन्त्रस्य वेदिता ।
सोपदेशात् गुरोः नित्यम् अभ्यासात् वा अवगम्यते ॥
[महाभास्करीयम्, 6.49-51]
इति ।
सूर्याचन्द्रमसोः अपि ã
गन्तव्ययाततिथिशेषहते रवीन्द्रोः भुक्ती क्रमेण दिनभुक्तिविशेषभक्ते ।
लब्धेन युक्तरहितौ शशितिग्मरश्मी ज्ञेयौ समौ सकललोकविधानहेतू ॥
[महाभास्करीयम्, 4.64]
लौकिकगणिते अपि उद्देशकः ã
सार्धम् योजनम् एकः वलभीतः याति असौ दिनेन एव ।
आगच्छति हरुकच्छात् पादयुतम् योजनम् हि अपरः ॥
अन्तरम् अनयोः दृष्टम् तु अष्टादश योजनानि पथिकेन ।
वाच्यम् योगः कियता कालेन अभूत् तयोः गणक

37.2

न्यासः ã वलभीप्रस्थितस्य [गतिः]
3
2,
हरुकच्छात् आगच्छतः [गतिः]
5
4,
तयोः विलोमविवरम् 18 ।
करणम् ã अनयोः गतियोगः
11
4 ।
अनेन विलोमविवरस्य भागलब्धम् दिवसाः 6, दिवसभागाः च
6
11 ।
अनुलोमविवरोद्देशकः ã
वलभीतः याति नरः गङ्गाम् दिवसेन योजनम् सार्धम् ।
अपरः त्रिभागहीनम् शिवभागपुरात् तदा याति ।
अष्टौ त्रिगुणानि तयोः अन्तरम् उक्तम् च योजनानि बुधैः ।
एकेन पथा यातौ कियता कालेन संयुक्तौ

37.31

न्यासः ã वलभीप्रस्थितस्य गतिः
3
2,
शिवभागपुरप्रस्थितस्य गतिः
2
3,
अनुलोमविवरम् 24 ।
करणम् ã एतयोः गतिविशेषः
5
6,
अनुलोमविवरम् 24 । अस्य गतिविशेषेण भागलब्धम् दिवसाः 28, दिवसभागाः च
4
5

37.32

[ कुट्टाकारः ]
इदानीम् कुट्टाकारगणितम् अभिधीयते । तत्र आर्यासूत्रद्वयम् ã
अधिकाग्रभागहारम् छिन्द्यात् ऊनाग्रभागहारेण ।
शेषपरस्परभक्तम् मतिगुणम् अग्रान्तरे क्षिप्तम्

37.33

अधौपरिगुणितम् अन्त्ययुक् ऊनाग्रच्छेदभाजिते शेषम् ।
अधिकाग्रच्छेदगुणम् द्विच्छेदाग्रम् अधिकाग्रयुतम्

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc