आर्यभटीय (टीका सहित) · अध्याय 36
गुलिकाशब्देन अविज्ञातमूल्यवस्त्वभिधीयते । गुलिकानाम् अन्तरम् गुलिकान्तरम् तेन गुलिकान्तरेण, अविज्ञातमूल्यवस्तूनाम् अन्तरेण इति अर्थः । विभजेत् द्वयोः पुरुषयोः तु रूपकविशेषम् । द्वयोः इति अनेन द्वयोः एव इदम् कर्म न त्र्यादीनाम् इति एतत् प्रदर्शयति । रूपकविशेषम् इति अनेन च निर्ज्ञातसङ्ख्यम् धनम् परिगृह्यते । रूपकम् दीनारादिकम् । लब्धम् गुलिकामूल्यम्, यत् अत्र लब्धम् तत् गुलिकामूल्यम् । यदि अर्थकृतम् भवति तुल्यम्, येन
अर्थेन कृतम् तत् तुल्यम् सदृशम् भवति ।
उद्देशकः ã
अश्वाः लक्षणयुक्ताः वणिजः नित्यम् बलान्विताः सप्त ।
प्रथमस्य मया दृष्टम् द्रव्यशतम् च एव हस्तगतम् ॥
नव तुरगाः निर्दृष्टाः द्रव्याशीतिः धनम् द्वितीयस्य ।
वाच्यम् घोटकमूल्यम् तुल्यार्धेण एव तुल्यधनौ
न्यासः ã 7 100
9 80
करणम् ã गुलिकान्तरम् 2, रूपकविशेषम् 20, एतत् गुलिकान्तरेण विभक्तम् घोटकस्य एकस्य मूल्यद्रव्यम् दश 10 । अनेन अर्धेण प्रथमस्य घोटकानाम् मूल्यम् 70, द्वितीयस्य 90, [स्व]स्वहस्तगतेन अनेन [च] गतौ तुल्यधनौ 170 उभयोः अपि ।
उद्देशकः ã
कुङ्कुमपलानि च अष्टौ एकस्य धनस्य रूपका नवतिः ।
द्वादश पलानि विद्यात् अन्यस्य धनस्य रूपकाः त्रिंशत् ॥
तुल्यार्धेण च क्रीतम् कुङ्कुमम् द्वाभ्याम् कियत् पलार्धेण ।
इच्छामि तत्र बोद्धुम् मूल्यम् वित्तम् च तुल्यम् एव तयोः
न्यासः ã 8 90
12 30
लब्धम् पूर्ववत् कुङ्कुमपलस्य एकस्य मूल्यम् 15 । तुल्यधनम् 210 उभयोः ।
एते एव गुलिकाः अज्ञातप्रमाणाः यावत् तावन्तः उच्यन्ते, रूपकाः एव तत्र अपि । यावत् तावत् संज्ञया अपि उद्देशकाः अभिधीयन्ते । तत् यथा ã
[उद्देशकः ]
सप्त यावत् तावत् सप्त च रूपकाः समाः द्वयोः यावत् तावतोः द्वादशानाम् [च] रूपकाणाम्, कियन्तः यावत् तावत् प्रमाणाः
न्यासः ã 7 7
2 12
करणम् ã पूर्ववत् गुलिकानाम् यावत् तावताम् विशेषः उपरि शुद्धे 5 । अधः शुद्धे रूपकविशेषः 5 । यावत् तावत् विशेषेण रूपकविशेषस्य भागलब्धम् यावत् तावत् प्रमाणम् 1 । एतेन यावत् तावत् प्रमाणेन यावत् तावन्तः गुलिकाः जाताः क्रमेण 7, 2; स्वान् स्वान् रूपान् प्रक्षिप्य समाः । प्रथमस्य 14, द्वितीयस्य तत् एव 14 ।
उद्देशकः ã
नव गुलिकाः सप्त [च] रूपकाः समाः त्रयाणाम् [तु] गुलिकानाम् ।
त्रयोदशानाम् च रूपकाणाम् तदा किम् गुलिकामूल्यम्
न्यासः ã 9 7
3 13
लब्धम् गुलिकामूल्यम् 1 ।
यदा पुनर् रूपकाः शोध्याः भवन्ति तदा ã
उद्देशकः ã
नव गुलिकाः रूपकाः चतुर्विंशतिः ऋणम् द्वे गुलिके [च] ।
अष्टादश रूपकाः समाः [कथय] किम् गुलिकामूल्यम्
न्यासः ã 9 24
2 18
अत्र गुलिकाः उपरि शुद्ध्यन्ते, रूपकाः अधः शोध्याः न शुद्ध्यन्ति । ततः ã
सोज्झम् भूणारधणम् अणम् अणदो नयमदो नयमदो सोज्झम् ।
विपरीते साधणए सोज्झम् वा किम् व गुहोळम् ॥
अत्र गुलिकाः उपरि शोध्याः गुलिकाभ्यः शुद्ध्यन्ते; अधःशोध्याः रूपकाः न, शोध्यत्वात् च विपरीतम् प्रक्षिप्यन्ते । प्रक्षिप्ते सति जाताः 42 । गुलिकाविशेषैः सप्तभिः भागलब्धम् षट् 6 । [प्रथमस्य यावत् ता]वत् प्रमाणम् 9, षड्गुणितम् 54, ऋणगतरूपकाः चतुर्विंशतिः शुद्धाः शेषम् त्रिंशत् 30 । [द्वितीयस्य] द्वे गुलिके षड्भिः गुणिते 12, अष्टादशयुक्ते 30 । एवम् समधनाः ।
समकरणेषु [एवम्] सर्वत्र योज्यम्
[ योगकालज्ञनम् ]
योगकालानयनार्थम् आह ã
भक्ते विलोमविवरे गतियोगेन अनुलोमविवरे द्वौ ।
गत्यन्तरेण लब्धौ द्वियोगकालौ अतीतैष्यौ
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0