आर्यभटीय (टीका सहित) · अध्याय 35
राशिना ऊनम् राश्युनम् । [ राश्यूनम् ] राश्यूनम् इति अनया वीप्सया अनन्त्यम् गणितकर्म प्रदर्शयति । गच्छः पदम् पर्यवसानम् इति पर्यायाः । गच्छस्य धनम् गच्छधनम्, पदधनम् । राश्यूनन्यायेन यावत् पदम् तत् गच्छधनम् उच्यते । पिण्डितम् पृथक्त्वेन । पिण्डितम् एकत्र कृतम् । पृथक्त्वेन इति राश्यूनक्रमलब्धपदानाम् अविनष्टस्थापनाम् प्रदर्शयति । अविनष्टस्थापनाप्रयोजनम् च सर्वधनम् च सर्वधनात् अविनष्टस्थापितपदधने
अपनीते पृथक् पृथक् पदानाम् धनानि भवन्ति । यदि केवलम् सर्वधनपरिज्ञानमात्रम् एव स्यात् तदा पृ(थ)क्त्वेन इति अनर्थकम् स्यात्, यस्मात् अपृथक्करणे अपि सर्वधनस्य सिद्धत्वात् । विगतम् एकम् व्येकम्, तेन व्येकेन, तेन पदेन च । व्येकैः पदैः इति बहुवचनेन अत्र भवितव्यम् । न एषः दोषः । पदजातिम् अङ्गीकृत्य "जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्यात्" [अष्टाध्यायी, 1.2.58 ] इति एकवचनम् कृतम् । तेन यः अर्थः व्येकैः पदैः इति
स एव अर्थः व्येकेन पदेन इति अवगम्यते । हृतम् भक्तम् । सर्वधनम्, सर्वेषाम् पदानाम् यथाक्रमेण धनम् एकत्र तत् सर्वधनम् उच्यते । तत् भवति एवम्, यत् एवम् कृते कर्मणि तत् सर्वधनम् भवति ।
उद्देशकः ã
मत्तामत्तकरेणुविक्करचिता यूथा गजानाम् वने
एकापायचयेन [ ये अत्र ] गणिताः त्रिंशत् रसानाम् कृतिः ।
सप्तानाम् अपि सा एव च एकसहिता नागाग्रम् आगण्यताम्
यूथानाम् च पृथक् पृथक्त्वगणितम् निर्वर्ण्यताम् तत्त्वतः
न्यासः ã 30, 36, 49, 50 ।
करणम् ã एतानि धनानि अविनष्टानि एकत्र 165 । व्येकम् पदम् 3 । अनेन लब्धम् सर्वधनम् 55 । एतस्मात् प्रथमपदम् अपास्य मत्ताग्रम् 25, द्वितीयम् अपास्य अमत्तसङ्ख्या 19, तृतीयम् अपास्य करेणुसङ्ख्या 6, चतुर्थम् अपास्य विक्कसङ्ख्या 5 ।
उद्देशकः ã
नागाः वाजखरोष्ट्रवेसरगवाम् एकैकहीनाः क्रमात्
अष्टाविंशतिः एकहीनगणिता रूपोनम् अन्त्यम् पुनर् ।
तेषाम् सर्वधनम् पृथक् च नियमात् वाच्यम् त्वया निश्चितम्
कृत्स्नम् च आर्यभटप्रणीतगणितम् दृष्टम् गुरोः अन्तिके
न्यासः ã 28, 27, 26, 25, 24, 23, 21 । लब्धम् सर्वधनम् 29 । पृथक् पृथक् 1, 2, 3, 4, 5, 6, 8
[ एकवर्णसमीकरणम् ]
समकरणोद्देशकप्रदर्शनार्थम् आह ã
गुलिकान्तरेण विभजेत् द्वयोः पुरुषयोः तु रूपकविशेषम् ।
लब्धम् गुलिकामूल्यम् यदि अर्थकृतम् भवति तुल्यम्
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0