भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 34

34.1

गुणकाराः भागहराः, ये गुणकाराः आसन् ते प्रतिलोमक्रमणि [भागहाराः भवन्ति] । भागहराः ते भवन्ति गुणकाराः, [ये] भागहाराः ते गुणकाराः भवन्ति । यः क्षेपः सः अपचयः, पूर्वम् यः क्षेपः आसीत् स विलोमकर्मणि अपचयः भवति । अपचयः क्षेपः च, यः अपचयः स क्षेपः विपरीतकर्मणि भवति ।
अत्र ये उद्देशकाः ते प्रायशः प्रदर्शिताः । स्वतन्त्रे अपि च छायानीतशङ्कोः घटिकानयनम् प्रति व्यासार्धम् भागहारः आसीत् इति गुणकारः, लम्बकः गुणकारः आसीत् इति भागहारः । तत्र उत्तरगोले [क्षितिज्या क्षिपे] दित्यपनीयते, दक्षिणगोले अपनयेत् इति प्रक्षिप्यते । ततः विपरीतत्वात् एव व्यासार्धम् गुणकारः, स्वाहोरात्रार्धम् भागहारः । लब्धज्या विपरीतकर्मणा एव काष्ठीक्रियते । तस्मिन् काष्ठे उत्तरगोले चरप्राणाः प्रक्ष्प्यन्ते विशोधितत्वात्,
दक्षिणगोले विशोध्यन्ते क्षिप्तत्वात् इति आदि । एवम् सर्वत्र स्वतन्त्रे विपरीतकर्म नियोज्यम् ।
अन्यत्र अपि उद्देशकः ã
द्विगुणम् रूपसमेतम् पञ्चविभक्तम् त्रिताडितम् भूयः ।
द्व्यूनम् सप्तविभक्तम् लब्धम् रूपम् कियत् भवेत् पूर्वम्

34.2

न्यासः ã 2 गु, 1 क्षे, 5 हा, 3 गु, 2 ऊ, 7 हा, सप्तभिः भागलब्धम् रूपकम् 1 ।
करणम् एतत् ã लब्धम् रूपम् 1, सप्तभिः गुणितम् जातम् 7, द्वाभ्याम् युक्तम् 9, त्रिभिः भक्तम् 3, पञ्चगुणम् 15, एकोनम् 14, दलितम् लब्धम् 7 ।
उद्देशकः ã
त्रिगुणम् रूपविहीनम् दलितम् द्वाभ्याम् समन्वितम् भूयः ।
भक्तम् त्रिभिः तु तस्मात् द्विकहीनम् किम् भवेत् रूपम्

34.25

न्यासः ã 3 गु, 1 ऊ, 2 हा, 2 क्षे, 3 हा, 2 ऊ, लब्धम् रूपम् 1 ।पूर्ववत् आगतम् 5

34.29

[ अनेकवर्णसमीकरणविशेषः ]
राश्यूनक्रमसङ्कलितानयनम् आह ã
राश्यूनम् राश्यूनम् गच्छधनम् पिण्डितम् पृथक्त्वेन ।
व्येकेन पदेन हृतम् सर्वधनम् तत् भवति एवम्

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc