भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 33

33.1

सह छेदेन वर्तते इति सच्छेदम् । किम् तत् ? राशिरूपम् । अत्र सच्छेदम् राशिरूपम् विन्यस्य एतत् उच्यते ã "छेदगुणम् सच्छेदम् परस्परम्" इति । छेदः गुणः यस्य राशिरूपस्य तद्राशिरूपम् छेदगुणम् । परस्परम् अन्योन्यम्, एकेन राशिच्छेदेन इतरः राशिः सच्छेदः गुण्यते, इतरेण अपि इतरः [ राशिः तद्वत् विन्यस्तः ] । तत् सवर्णत्वम्, तत् एव निर्वर्तितम् कर्म सवर्णत्वम् । सवर्णकयोः यथा इष्टम् संयोगः विश्लेषः च ।
उद्देशकः ã
अर्धम् षष्ठम् द्वादशभागम् चतुर्थभागसंयुक्तम् ।
एकत्र कियत् द्रव्यम् निर्देश्यम् तत्क्रमेण एव

33.2

न्यासः ã 1 1 1 1
2 6 12 4
करणम् ã द्वयोः
1 1
2 6,
एतौ परस्परच्छेदेन गुणितौ सच्छेदौ राशी
6 2
12 12 ।
एकत्र
2
3 ।
पुनर् तृतीयरासिना स्थापना
2 1
3 12,
प्रक्षिप्तेन
[ 3 ]
[ 4 ] ।
एवम् चतुर्थराशिना
3 1
4 4, लब्धम् रूपकम् 1 ।
उद्देशकः ã
अर्धम् षष्ठम् भागम् तृतीयकेन सहितम् कियत् द्रव्यम् ।
अर्धम् षष्ठः द्वादशकः विंशः सपञ्चभागः च

33.3

न्यासः ã 1 1 1
2 6 3
द्वितीयोद्देशके स्थापना ã
1 1 1 1 1
2 6 12 20 5
लब्धम् पूर्वकरणेन उभयत्रैकराशिकम् रूपम् 1, 1 ।
उद्देशकः ã
अर्धम् षड्भागोनम् पञ्चांशम् च अपि सप्तभागोनम् ।
त्र्यंशम् पादोनम् वा गणयते [ गणकाः ] कियत् द्रव्यम्

33.28

न्यासः ã 1 1í 1 1í 11í
2 6 5 734
लब्धम् यथाक्रमेण ã1 2 1
3 3512
[विपरीतकर्म ]
प्रतिलोमकरणप्रदर्शनार्थम् आह ã
गुणकाराः भागहराः भागहराः ते भवन्ति गुणकाराः ।
यः क्षेपः सः अपचयः अपचयः क्षेपः च विपरीते

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc