भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 30

30.1

द्वयोः कृतिः द्विकृतिः, द्विकृतिः गुणः यस्य स द्विकृतिगुणः, तस्मात् द्विकृतिगुणात् । कस्मात् इति आह ã संवर्गात् । द्व्यन्तरवर्गेण सम्युतात् । द्वयोः अपि अन्तरम् द्व्यन्तरम्, द्व्यन्तरस्य वर्गः द्व्यन्तरवर्गः, तेन द्व्यन्तरवर्गेण संयुतात् । द्विकृतिगुणात् संवर्गात् द्वयोः अपि अन्तरवर्गेण मिश्रितात् यत् मूलम् । तत् अन्तरयुक्तम् अन्तरेण युक्तम् अन्तरयुक्तम् । हीनम् विरहितम् । तद्गुणकारद्वयम् तस्य संवर्गस्य गुणकारद्वयम् । दलितम् अर्धितम् ।
उद्देशकः ã
संवर्गः अष्टौ दृष्टः व्यक्तम् तत्र अन्तरम् भवेत् द्वितयम् ।
अष्टादशके मुनयः गुणकारौ तौ तयोः वाच्यौ

30.24

न्यासः ã संवर्गः 8, अन्तरम् 2 । संवर्गः 18, अन्तरम् 7 ।
करणम् ã संवर्गः 8, एतत् द्विकृतिगुणम् 32; द्व्यन्तरम् 2, अस्य वर्गः 4, अनेन संयुक्तः 36 । अस्य मूलम् 6, एतत् तेन अन्तरेण युक्तम् 8, हीनम् 4 । यथाक्रमेण दलितौ परस्परगुणकारौ 4, 2 ।
द्वितीयोद्देशके अपि गुणकारौ लब्धौ 9, 2 ।
अत्र गुण्यगुणकारयोः अविशेषात् गुणकारद्वयम् इति उच्यते

30.25

[ मूलफलज्ञानम् ]
मूलफलानयनार्थम् आह ã
मूलफलम् सफलम् कालमूलगुणम् अर्धमूलकृतियुक्तम् ।
तन्मूलम् मूलार्धोनम् कालहृतम् स्वमूलफलम्

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc