आर्यभटीय (टीका सहित) · अध्याय 31
मूलम् शतादि, फलम् वृद्धिः, मूलस्य फलम् मूलफलम् । सह फलेन वर्तते इति सफलम्, आत्मीयया वृद्ध्या युक्तम् मूलफलम् इति यावत् । कालमूलगुणम्, कालम् च मूलम् च कालमूले, कालमूले गुणौ यस्य मूलफलस्य तत् कालमूलगुणम् मूलफलम् । अर्धमूलकृतियुक्तम्, [ अर्धम् मूलस्य अर्धमूलम् मूलार्धम् इति, अर्धमूलस्य कृतिः अर्धमूलकृतिः, मूलकृतेः चतुर्थः भागः इति ], [अर्ध]कृतित्वात् द्वयोः वर्गेण इति चतुर्विभागः, तया
अर्धमूलकृत्या युक्तम् अर्धमूलकृतियुक्तम् । तन्मूलम्, तस्य एव निष्पादितस्य मूलम् तन्मूलम् । मूलार्धोनम्, मूलस्य शतादेः अर्धेन ऊनम् मूलार्धोनम् । कालहृतम्, कालेन हृतम् कालहृतम् । स्वमूलफलम्, स्वस्य मूलस्य फलम् स्वमूलफलम् ।
उद्देशकः ã
जानामि शतस्य फलम् न च किन्तु शतस्य यत्फलम् सफलम् ।
मासैः चतुर्भिः आप्तम् षड् वद वृद्धिम् शतस्य मासोत्थाम्
न्यासः ã
100 0
1 4
0 6
मासः 4, फलम् 6 ।
करणम् ã मूलफलम् सफलम् 6, कालमूलगुणम् 2400 । अर्धमूलकृतिः 2500, अनया युक्तम् 4900 । एतस्य मूलम् 70, मूलार्धोनम् 20, कालहृतम् [स्व]मूलफलम् जातम् 5 ।
प्रत्ययकरणम् पञ्चराशिकेन ã यदि शतस्य मासिकी वृद्धिः पञ्च तदा चतुर्भिः मासैः शतवृद्धेः [पञ्चधनस्य] का वृद्धिः इति ।
न्यासः ã
1 4
100 5
5 0
लब्धम् 1 । एतत्सहिता शतवृद्धिः षड् रूपाणि 6 ।
उद्देशकः ã
पञ्चविंशतेः मासिकी वृद्धिः न ज्ञायते । या पञ्चविंशतेः मासिकी वृद्धिः सा तेन एव अर्धेण अन्यत्र प्रयुक्ता, सह वृद्ध्या पञ्चभिः मासैः दृष्टा रूपत्रयम् पञ्चभागोनम् । तत्र इच्छामः ज्ञातुम् का पञ्चविंशतेः मासिकी वृद्धिः, का वा पञ्चविंशतिव[ऋ]द्धेः पञ्चमासप्रयुक्ताया वृद्धिः इति
न्यासः ã
25 0
1 5
0 2
4
5
लब्धम् पूर्वकरणेन पञ्चविंशतेः मासिकी वृद्धिः 2, पञ्चविंशतिवृद्धेः च पञ्चानाम् मासानाम् वृद्धिः
0
4
5 ।
उद्देशकः ã
शतस्य मासिकी वृद्धिः न ज्ञायते । किन्तु शतवृद्धिः अन्यत्र प्रयुक्ता पञ्चभिः मासैः सह वृद्ध्या दृष्टा रूपपञ्चदशकम् । तत्र इच्छामः ज्ञातुम् का च शतस्य मासिकी वृद्धिः का वा शतस्य वृद्धेः पञ्चमासप्रयुक्ताया वृद्धिः इति
न्यासः ã
100 0
1 5
0 15
मासाः 5, सफलम् 15 ।
लब्धम् ã पूर्ववत् शतवृद्धिः 10, शतवृद्धेः पञ्चमासप्रयोगात् वृद्धिः 5
[ त्रैराशिकम् ]
त्रैराशिकप्रतिपादनार्थमध्यर्धार्याम् आह ã
त्रैराशिकफलराशिम् तम् अथ इच्छाराशिना हतम् कृत्वा ।
लब्धम् प्रमाणभजितम् तस्मात् इच्छाफलम् इदम् स्यात्
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0