भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 29

29.1

सम्पर्कः समासः । येन द्वयोः राश्योः सम्पर्कः भवति इति द्वयोः एव सम्पर्कः परिगृह्यते । तस्य सम्पर्कस्य । हि पादपूरणे । वर्गात्, कृतेः । विशोधयेत् एव, अपनयेत् एव । किम् इति आह ã वर्गसम्पर्कम् । वर्गीकृतयोः सम्पर्कः वर्गसम्पर्कः वर्गसमासः, तम् वर्गसम्पर्कम् सम्पर्कस्य वर्गात् विशोधयेत् । यत् तस्य भवति अर्धम्, तस्य शुद्धशेषस्य अर्धम् दलम् यत् भवति । विद्यात्, अवबुद्ध्यात् । गुणकारसंवर्गम्, गुणकारयोः संवर्गः
गुणकारसम्वर्गः, तम् गुणकारसंवर्गम् विद्यात् ।
उद्देशकः ã
पञ्चानाम् च चतुर्णाम् सप्तनवानाम् च कः भवेत् घातः ।
अष्टानाम् च दशानाम् पृथक् पृथक् वाच्यताम् शीघ्रम्

29.23

न्यासः ã
5 7 8
4 9 10
करणम् ã पञ्चानाम् चतुर्णाम् च सम्पर्कः 9, अस्य वर्गः 81; पञ्चानाम् वर्गः 25, चतुर्णाम् वर्गः 16, एकत्र 41, सम्पर्कवर्गात् इमम् पञ्चवर्गचतुर्वर्गसम्पर्कम् विशोधयेत् । तत्र शेषः 40 । अस्य अर्धम् पञ्चानाम् चतुर्णाम् च संवर्गः लब्धः 20 । शेषयोः अपि यथाक्रमेण 63, 80

29.24

[ गुण्य-गुणकयोः आनयनम् ]
गुणकारयोः आनयनाय आह ã
द्विकृतिगुणात् संवर्गात् द्व्यन्तरवर्गेण संयुतात् मूलम् ।
अन्तरयुक्तम् हीनम् तत् गुणकारद्वयम् दलितम्

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc