आर्यभटीय (टीका सहित) · अध्याय 3
अस्य गीतिसूत्रस्य पदानि ã वर्गाक्षराणि, वर्गे, अवर्गे, अवर्गाक्षराणि, कात्, ङ्मौ, यः, खद्विनवके, स्वराः, नव, वर्गे, अवर्गे, नव, अत्यन्तवर्गे, वा ।
वर्गाक्षराणि, वर्गाक्षराणि ककारादीनि मकारपर्यन्तानि । "ते वर्गाः पञ्च पञ्च" इति [कातन्त्रम्, 1.1.10 ] । वर्गाक्षरोच्चारणक्रमेण या सङ्ख्या अभिधीयते सा सङ्ख्या वर्गशब्देन उच्यते, अभेदोपचारात् । अतः वर्गाक्षरसङ्ख्या इति अर्थः । सा वर्गे, वर्गे इति गणितशास्त्रे विषमस्थानस्याः आख्या, तस्मिन् विषमस्थाने वर्गाक्षरसङ्ख्या उपचीयते । अवर्गे, न वर्गः अवर्गः समस्थानः, तस्मिन् अवर्गसंज्ञिते समस्थाने । अवर्गाक्षराणि, तानि यकारादीनि
हकारपर्यवसानानि । कुतः एतत्? "नञ् इव युक्तम् अन्यसदृशाधिकरणे तथा ह्य् अर्थगतिः" [अष्टाध्यायी, 3.1.12, पातञ्जलभाष्यम्] इति । वर्गाक्षराणि ककारादीनि ।
यादीनाम् [तु] यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणाकृतितुल्यम् एव क्षत्रियम् आनयति नान्त्यजादि, एवम् अत्र अपि केवलम् व्यञ्जनानाम् एव ग्रहणम् । तेषाम् यकारादीनाम् अवर्गाक्षराणाम् या सङ्ख्या सा अवर्गस्थाने उपचीयते । सा [वर्गाक्षराणाम् सङ्ख्या] वर्गस्थाने उपचीयमाना अवर्गस्थानम् अपि यदा प्राप्नोति, तदा प्राप्नुवाना या तेषाम् स्ववर्गाक्षराणाम् उपचितिः सा वर्गस्थानः एव, तस्याः अन्त्योपचितित्वात् । वर्गाक्षरसङ्ख्यायाः वर्गस्थाने
उपचीयमानात् अवकाशः न अस्ति चेत् सङ्ख्यायाः सर्गः न विद्यते इति वर्गावर्गयोः स्थानयोः स्थाप्यते । अथवा, या दशादिका सङ्ख्या सा द्विस्थानावगाहिनी, तस्याः द्विस्थानावगाहनशीलत्वात् द्वयोः अपि स्थानयोः स्थाप्यते । अन्यथा दशादिसङ्ख्यायाः अभावः एव स्यात् । तद् एकादिनवान्तसङ्ख्यया एव व्यवहारः स्यात् ।
अथवा "ङ्मौ" इति अत्र मकारग्रहणम् कुर्वन् आचार्यः ज्ञापयति ã या दशोत्तरवर्गाक्षरसङ्ख्या सा वर्गे वा अवर्गे च भवति । अन्यथा "गो यः" इति एवम् ब्रूयात् । एवम् अवर्गाक्षरसङ्ख्या अपि वर्गस्हाने योज्या । वर्गाक्षराणाम् सङ्ख्या वर्गस्थाने ककाराद् उपचीयते । एतत् उक्तम् भवति ã यानि वर्गाक्षराणि श्रूयते तानि ककारात् प्रभृति पठितानि भवन्ति इति । अन्यथा हि "स्वम् रूपम् शब्दस्य अशब्दसंज्ञा" [अष्टाध्यायी, 1.2.68] इति । यत् यत् अक्षरम्
उच्चारितम् तत् तस्य एव रूपस्य प्रतिपादकम् स्यात्, न कादिसङ्ख्यायाः । अतः उक्तम् "कात्" इति ।
ङ्मौ, ङः च मः च ङ्मौ । अनच्कौ एव ङकारमकारौ, तयोः द्वि[वच]ननिर्देशः ङ्मौ । ङकारमकारयोः या सङ्ख्या सा एकत्र संवृत्ता यकारसङ्ख्या भवति । ङकारः पञ्च, मकारः पञ्चविंशतिः, एते सङ्ख्ये एकत्र त्रिंशत्, तेन त्रिंशत्संख्यो यकारः । रेफादीनाम् अवर्गाक्षरत्वात् यकारसङ्ख्या एव केवलम् प्राप्नोति, अनिर्देशात् अन्यत्सङ्ख्यायाः । न रेफादीनाम् यकारसङ्ख्या । कुतः? यदि रेफादीनाम् अपि यकारसङ्ख्या एव स्यात् तदा यकारम्
एव सर्वत्र ब्रूयात्, न रेफादीनि । "नवराषहः गत्वांशकान् प्रथमपाताः" इति अत्र [रा]षहेषु एकम् एव अवर्गाक्षरम् ब्रूयात् । तस्मात् न रेफादीनाम् यकारसङ्ख्या । का तर्हि? केचित् आहुः ã एकैकवृद्ध्या रेफादीनाम् सङ्ख्या, यकारत्रिंशत्, रकारः एकत्रिंशत्, लकारः द्वात्रिंशत् इति आदि । एतत् न । कुतः? एकत्रिंशदादिसङ्ख्यायाः अन्येन एव प्रकारेण सिद्धत्वात् । यकारः त्रिंशत्, स एव यदा यकारः ककारसंयुक्तः तदा हि एकत्रिंशत्, खकारादिभिः द्वात्रिंशत्,
त्रयः त्रिंशत् आदिः इति सङ्ख्या ।
अन्ये आहुः ã रेफादयः दशोत्तरवृद्ध्या वर्धन्ते इति, रेफः चत्वारिंशत्, लकारः पञ्चाशत् । एवम् अवर्गाक्षराभावात् न शक्यते प्रतिपत्तुम् । यथा कात् इति आचार्येण अभिहितत्वात् एकाद्येकोत्तरिता सङ्ख्या वर्गाक्षराणाम् प्रतिपद्यते, एवम् अवर्गाक्षराणाम् अपि यात् इति यदा उच्यते तदा दशोत्तरिता सङ्ख्या प्रतिपत्तुम् शक्यते । अन्यथा "यात्" इति अपि उच्यमाने कथम् दशोत्तरिता सङ्ख्या, ननु च एकोत्तरिता स्यात् । न इति आह ã यस्मात् कात् इति [वर्गाक्षराणि]
वर्गस्थाने उपचीयन्ते तस्मात् तेषाम् एकोत्तरिता सङ्ख्या, यानि पुनर् अवर्गाक्षराणि यादीनि एकोत्तरोपचयानि अवर्गस्थाने तस्मात् दशोत्तरिता एव वृद्धिः भवति, अवर्गस्थानस्य दशकसङ्ख्याधारत्वात् । एवम् तर्हि याद्ग्रहणम् कर्तव्यम् । न कर्तव्यम् । कथम्? अक्रियमाणे अयम् अर्थः अवगम्यते । अकृतम् एव यदि कृतम् एव, किम् इति न पठ्यते? पठ्यते एव "ङ्मौ यः" । अत्र अयम् यकारः अनच्कः ङ्मौ यः, अपरः यकारः अपि अनच्कः एवम् पञ्चमीविभक्त्यन्तः
ङ्मौ यः । अत्र एकः यकारः लुप्तनिर्दिष्टः प्रतिपत्तव्यः । यथा "क्ङिति च" [अष्टाध्यायी, 1.1.5] इति अत्र लुप्तनिर्दिष्टः गकारः, किति गिति ङिति इति, एवम् अत्र अपि । अथवा द्वियकारोच्चारणे अपि विशेषः न अस्ति एव । एवम् याद् इति अस्य अयम् अर्थः सिद्धः । यदि एकोत्तराणि अवर्गस्हानस्थितत्वात् दशोत्तराणि एव भवन्ति तदा किम् इति आचार्येण "ङ्मौ यः" इति महाप्रयासः कृतः । कथम् तर्हि वक्तव्यः? "गः यः" इति गकारः त्रिसङ्ख्यः, अवर्गस्थानस्थितत्वात् एव अयम् त्रिंशत्कः
भविष्यति । न, ङकारमकारसङ्ख्यावत् एव शेषाणि अपि रेफादीनि चत्वारिंशदादिसङ्खानि भवन्ति इति अवर्गस्थानाश्रयात् एव सिद्धे सति ङ्मकारग्रहणम् कुर्वन् आचार्यः ज्ञापयति इति उक्तम् ã यावन्ति वर्गस्थानानि तेषु सर्वेषु एव सा सङ्ख्या युगपत् प्राप्ता, अवर्गाक्षराणाम् च या सङ्ख्या यावन्ति अवर्गस्थानानि तेषु सर्वेषु एव ।
अतः तत्सङ्ख्यानिरूपणार्थम् आह ã खद्विनवके स्वराः नव वर्गे अवर्गे । खानि शन्यानि, खानम् द्विनवकम् खद्विनवकम्, तस्मिन् खद्विनवके, अष्टादशसु शून्योपलक्षितेषु [स्थानेषु] । स्वराः नव वर्गे अवर्गे । वर्गे वर्गस्थाने नव स्वराः । अष्टादशसु च स्थानेषु नव वर्गस्थानानि, तत्र नवसु वर्गस्थानेषु नव स्वराः । के पुनर् ते नव स्वराः ग्राह्याः? यदि ह्रस्वाः एव केवलम् परिगृह्यन्ते तदा न पूर्यन्ते । अथ दीर्घाः एव केवलम्
परिगृह्यन्ते तदा अपि अष्टौ स्वराः भवन्ति, ननु लृवर्णस्य दीर्घाभावात् । अथ ह्रस्वाः दीर्घः च परिगृह्यन्ते तदा अतिरिच्यन्ते, अनिष्टम् प्राप्नोति । "झा ग्ड ग्ला र्ध द्ड" [गीतिकाí, 10] इति अत्र आकारस्य द्वितीये च प्रतिपादितत्वात् द्वितीयवर्गस्थाने झकारसङ्ख्या स्थाप्यमाना नवशतानि स्युः, न नव । अभीष्यते च नवसङ्ख्या, नवसङ्ख्याकः झकारः । तत्र ह्रस्वः एव झकारः पठ्यते इति चेत् "नृषि योजनम् ञिला भूव्यासः" [गीतिकाí, 6] इति अत्र लकारे पञ्चसहस्राणि
स्युः, न पञ्चाशत् । तत्र च अवश्यम् दीर्घः लकारः पठितव्यः, अन्यथा गीतिः एव भिद्येत । अतः न केवलम् ह्रस्वाः न केवलम् दीर्घाः, न अपि ह्रस्वदीर्घाः, न स्वराः मातृकापठितात् परिगृह्यन्ते । कस्मात् तर्हि स्वराः परिगृहीतव्याः? उच्यते ã यत्र नव एव केवलाः स्वराः पठ्यन्ते, तस्मात् परिगृहीतव्याः । कस्मिन् नव एव केवलाः पठ्यन्ते? आह ã पाणिनीये व्याकरणे प्रत्याहारे अ इ उ ऋ ऌ ए ओ ऐ औ इति एते नव स्वराः । तत्र प्रथमे वर्गस्थाने अकारः, द्वितीये
इकारः, तृतीये उकारः, इति आदि । एवम् स्वरोपलक्षितेषु वर्गस्थानेषु वर्गाक्षरसङ्ख्या । अवर्गाक्षरसङ्ख्या च स्वरोपलक्षितवर्गस्थानोत्तरे अवर्गस्थाने ।
अथवा वर्गे अवर्गे इति अयम् वीप्सा, वर्गे अवर्गे च, वर्गस्थाने अवर्गस्थाने च ते एव नव स्वराः । तद् यथा ã अकारः प्रथमे वर्गस्थाने तदनन्तरावर्गस्थाने च । तद् यदि वर्गाक्षरसंयुक्तः अकारः प्रथमवर्गस्थाने "भृगुबुध" इति आदिषु, स एव यदा अवर्गाक्षरसंयुक्तः तदा तत्प्रथमवर्गस्थानानन्तरावर्गस्थाने "नवराषह" इति आदिषु । एवम् इकारादिषु अपि स्वेषु वर्गावर्गस्थानेषु योज्यम् । अथ दीर्घेषु अकारादिषु कथम् करणीयम्?
उच्यते ã यथा ते व्याकरणे अकारादयः स्वराः अष्टादशप्रभेदाः, द्वादश भेदाः च लृवर्णसन्धिस्वराः परिगृह्यन्ते, एवम् अत्र अपि । तेन "ञिला भूव्यास" इति आदिषु आकारः प्रथमः एव वर्गस्थानेषु । अष्टादशस्थानेषु यानि वर्गस्थानानि अवर्गस्थानानि च तेषु वर्गाक्षरावर्गाक्षरसङ्ख्या निरूपिता ।
यदा पुनर् अष्टादशव्यतिरिक्तेषु स्थानेषु सङ्ख्या कस्यचित् विवक्षिता भवति तदा कथम् करणीयम् इति? अत्र आह ã नवान्त्यवर्गे वा । नवानाम् अन्तः नवान्तः । नवान्ते भवम् नवान्त्यम् । नवान्त्यः च असौ वर्गः च नवान्त्यवर्गः । तस्मिन् नवान्त्यवर्गे वा स्वराः भवन्ति, विकल्पिताः स्वराः भवन्ति । विकल्पः च कस्मिंशित् कथम् उपलक्ष्यते? यथा "पुत्रच्छेद्यविकल्पा अपत्यच्छेद्यप्रकाराः", एवम् अत्र अपि केनचित् प्रकारेण विकल्पिताः नवात्यवर्गे
दशमे वर्गस्थाने स्वराः भवन्ति । यदि प्रथमे वर्गस्थाने अकारः शुद्धः विकल्पितः स एव तस्मात् वर्गस्थानात् दशमे वर्गस्थाने अनुस्वारादिना विकल्प्यते, एवम् इकारादयः स्वस्मात् वर्गस्थानात् दशमे वर्गस्थाने, पुनर् अपि च यावत् अभीष्टम् भवति तावत् तेन अपि अनुबन्धेन स्वरान् विकल्प्य सङ्ख्योपदेष्टव्या । एतत् परिभाषाबीजम् आचार्येण सङ्ख्याविवक्षूणाम् अनुग्रहाय उपदिष्टम् । स्वशास्त्रव्यवहारः तु लृवर्णवर्गस्थानात् न अतिरिच्यते ।
वर्गाक्षराणाम् अवर्गाक्षराणाम् च [या] सङ्ख्या सा अक्षराभिहितत्वात् यावन्ति वक्ष्यमाणानि गीतिकासूत्रेषु अक्षराणि तेषाम् सर्वेषाम् एव प्राप्नोति तत् च अनिष्टम् प्रसज्येत, तेन अत्र अर्थवन्ति यानि अक्षराणि तेषाम् सङ्ख्या न भवेत् इति एतत् वक्तव्यम् । यथा ã "युगरविभगणाः ख्युघृ" [गीतिका í, 3] इति अत्र ख्युघृ-शब्दस्य सङ्ख्या इष्यते न युगरविभगणशब्दस्य । यदि प्रतिषेधः न उचते तदा ख्युघृ-शब्दस्य यथा सङ्ख्या एवम् युगरविभगणशब्दस्य
अपि प्राप्नोति । स तर्हि प्रतिषेधः अवश्यम् वक्तव्यः । न वक्तव्यः । यदि सर्वेषाम् एव अक्षराणाम् गीतिकासूत्रप्रतिबद्धानाम् सङ्ख्या स्यात् तदा सर्वम् एव एतत् शास्त्रम् अनर्थकम् स्यात् ।
[ ज्योतिषशास्त्रप्रादुर्भावे व्याख्याकारमतम् ]
अथ कथम् अस्य अतीन्द्रियाणाम् स्फुटग्रहगत्यर्थानाम् प्रादुर्भावः? ब्रह्मणः प्रसादेन इति । एवम् अनुश्रूयते ã अनेन आचार्येण महद्भिः तपोभिः ब्रह्मा आराधितः । अतः अस्य तत्प्रसादेन स्फुटग्रहगत्यर्थानाम् प्रादुर्भावः इति । आह च ã
अतीन्द्रियार्थावगतेः तपोभिः परोपकारक्षमकाव्यदृष्टेः ।
यः अलङ्कृतेः अव्ययम् अन्वयस्य पराशरस्य अनुकृतिम् चकार ॥
इति । ब्रह्मणः कुतः? ब्रह्मा स्वयंभूः ज्ञानराशिः । ततः सर्वासाम् विद्यानाम् प्रादुर्भावः । अतः अनेन लोकानुग्रहाय स्फुटग्रहगत्यर्थवाचकानि दश गीतिकासूत्राणि गणितकालक्रियागोलार्थवाचकम् आर्याष्टशतम् च विनिबद्धम् । स्फुटग्रहगत्यर्थहेतवः अर्थाः, तस्मात् सर्वदा एव नित्याः, तेषाम् शब्देभ्यः अवगतिः इति शब्दबद्धाः, यथा सुवर्णिकारः सुवर्णम् आदाय कटककेयूरकुण्डलाद्यलङ्कारम् निष्पाद्य निष्पन्नम् अपि अलङ्कारम् भङ्क्त्वा
अन्यत्वम् आपादयति । अथ च सुवर्णस्य तापच्छेदनिकषादिपरीक्षणेन अन्यत्वम् मनाग् अपि न भवति इति अर्थानाम् अपि साधुशब्दालङ्कारनानावृत्तबन्धैः विरच्यमानानाम् अनन्यत्वम् इति । श्रुतौ अपि शतपथे बृहदारण्यके पठ्यते; तद् यथा ã "पेशस्कारी पेशसः मात्राम् अपादयान्यन्नवतरम् कल्याणतरम् रूपम् तनुते" [बृहदारण्यकोपनिषत्, 4.4.4] इति । एवम् अयम् आगमार्थः ब्रह्मणः सकाशात् आचार्येण अधिगतः ।
अथ अन्ये मन्यन्ते ã "ज्योतिषाम् उदयमध्यास्तमयप्राप्तीन् दृष्ट्वा प्रत्यक्षानुमानाभ्याम् परिच्छिद्य स्वधीविरचितम्" इति । एतत् च न । ज्योतींषि क्षितितलम् भित्वा पूर्वस्याम् दिशि उद्गतानि क्रमेण अम्बरमध्यम् अतीत्य परस्याम् दिशि क्षितितलम् भित्वा एव प्रविशन्तः लक्ष्यन्ते । एतावति उदयास्तमयान्तरे वियत्युपलक्षणाभावात् ज्योतिषाम् गतिप्रमाणपरिच्छेदः दुःसम्पाद्यः, गतेः चेयत्तापरिज्ञानाभावात् "एतावता कालेन इयती गतिः एतावता कालेन
कियती" इति गणितकर्म न प्रवर्तते । प्रमाणफलराश्योः अपरिज्ञानात् अप्रवत्तेः च गणितकर्मणः ग्रहाणाम् युगभगणापरिज्ञानम्, युगभगणापरिज्ञानात् ग्रहगतिपरिज्ञानाभावः । यथा अत्र अश्वादीनाम् गतिः प्रत्यक्षेण देशकालाभ्याम् सह उपपद्यते इति अतः गणितकर्म प्रवर्तते, अतीन्द्रियत्वात् ग्रहगतेः वियत्युपलक्षणाभावात् न प्रत्यक्षेण परिच्छिद्यते, कथम् तर्हि आगमात् उपगतग्रहयुतिग्रहनक्ष्त्रयोगग्रहणादयः प्रत्यक्षीक्रियन्ते?
अन्यत् च ã ग्रहादीनि ज्योतींषि क्षितितलम् भित्त्वा एव पूर्वस्याम् दिशि उद्गतानि क्रमेण अम्बरमध्यम् अतीत्य क्षितितलम् भित्वा एव अस्तम् गच्छन्तः लक्ष्यन्ते । ज्योतिश्चक्रस्य प्रवहाक्षेपात् ज्योतिश्चक्रप्रतिबद्धाः ग्रहाः प्राङ्मुखाः स्वगत्या भ्रमन्तः अपि लघ्व्या ज्योतिश्चक्रगत्या अपराम् दिशम् आसादयन्तः लक्ष्यन्ते, कुलालचक्रारूढकीटवत् । तस्मात् अन्या ज्योतिश्चक्रगतिः, अन्या ग्रहगतिः प्राङ्मुखी । कुतः? यस्मात् ग्रहः अश्विन्याम् दृष्टः भरण्यादिषु
परस्परम् प्राग्व्यवस्थितेषु नक्षत्रेषु उपलक्ष्यते भचक्रे, न रेवत्यादिषु परस्परापरस्थितेषु । तस्मात् ज्योतिश्चक्रग्रहगत्योः भिन्नत्वात् उदयास्तमयदेशान्तरप्राप्त्यनुमानम् उपपद्यते । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्येण अधिगतः इति । ग्रहस्य नक्षत्राणाम् च नित्यसम्बन्धात् नक्षत्राणाम् निस्चलत्वात् ग्रहगत्यनुमानम् इति एतत् च न । बहूनि नक्षत्राणि तेषु ग्रहस्य पारम्पर्येण भुक्तेः अनेकरूपत्वात् विक्षेपापक्रमचक्रवशात्
दक्षिणोत्तरमछ्यासन्नदूरचारित्वात् ग्रहस्य एकस्मिन् एव नक्षत्रे गतिपर्ययेण उदयास्तमयवक्रानुवक्रसम्भवात् ग्रहगतिवैचित्र्यम्, गणितेन च एकरूपा गतिः अनुमीयते । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्येण अधिगतः इति ।
अन्यत् च ã देशान्तराक्षविशेषात् ग्रहगतिवैचित्र्यम् । तत् यथा ã लङ्कायाम् अक्षाभावात् सर्वदा एव तुल्ये रात्र्यहनी लङ्कासमीपवर्तिनाम् रोहणसिंहलानाम् च; ततः उत्तरतः दिवसस्य वृद्धिः निशायाः हानिः, दक्षिणतः निशायाः वृद्धिः दिवसस्य हानिः इति । सूर्यग्रहणम् अपि अक्षदेशान्तरवशात् क्वचित् खण्डम्, क्वचित् सकलम्, क्वचित् न एव । चन्द्रग्रहणम् च इह घटीव्यतीतायाम् रात्र्याम्, घटिकादेशान्तरापरदेशस्थिता ग्रहीतारः दिनान्ते कथयन्ति,
पूर्वतः च याता दूरोद्गतस्य चन्द्रमसः ग्रहणम् कथयन्ति । तस्मात् उदयमध्यास्तप्राप्तिनक्षत्रयोगपर्ययादिभिः विचित्रा इयम् ग्रहगतिः देशान्तराक्षविशेषैः च अतिविचित्रत्वम् आपद्यमाना न शक्यते अनेकरूपत्वात् गणितन्यायेन आनेतुम् । न च कश्चित् एवम् प्रकाराणाम् देशकालपर्ययेण उपपद्यमानानाम् प्रतिजागरिता । यः च सर्वः चिरम् जीवति स वर्षशतम् जीवति । तस्य अपि युगपत् अनेकदेशान्तराक्षविशेषत् नक्षत्रयोगपर्ययादिभिः उत्पद्यमानग्रहगतयः
युगपत् न प्रत्यक्षीभवन्ति । तस्मात् अयम् आगमः ब्रह्मणः प्रसादात् आचार्येण अधिगतः इति । वक्ष्यति च ã
सदसज्ज्ञानसमुद्रात् समुद्धृतम् ब्रह्मणः प्रसादेन ।
सज्ज्ञानोत्तमरत्नम् मया निमग्नम् स्वमतिनावा ॥
[गोलपादः, 49]
इति ।
[ वेदाङ्गेषु ज्योतिषशास्त्रप्राधान्यम् ]
न केवलम् ज्योतिषाम् अयम् आगमः, वेदाङ्गम् च । "तस्मात् ब्राह्मणेण निष्कारणम् षडङ्गः वेदः अध्येयः" [पाताञ्जलमहाभाष्यम्, पस्पशाह्निकम्] षडङ्गेषु प्रधानम् ज्योतिषाम् अयनम् । कुतः अस्य प्राधान्यम्? यस्मात् अनधीतशिक्षादयः अपि प्राग् गुरूपदेशात् वेदान् अधीयते, न च तेषाम् दुरधीतम् भवति । न अनधिगतज्योतिषाम् अयना वेदोक्तान् यज्ञकालान् जानते । अथ शिक्षया वर्णानाम् स्थानकरणप्रयत्नानि निरूप्यन्ते ã
अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरः तथा ।
जिह्वामूलम् च दन्ताः च नासिकोष्ठौ च तालु च ॥
[पाणिनीयशिक्षा, श्लोí 13]
इति आदि । वर्णाः उच्चार्यमाणाः स्वैः स्वैः स्थानकरणप्रयत्नैः स्वभावतः एव आस्यात् निष्क्रामन्ति, न अन्यतः । "अकुहविसर्जनीयाः कण्ठ्याः, ऋटुरषाः मूर्धन्याः ।" अकुहविसर्जनीयाः उच्चार्यमाणा कण्ठप्रदेशात् एव आस्यात् निष्क्रामन्ति न मूर्ध्नः, ऋटुरषाः उच्चार्यमाणाः मूर्ध्नः एव न अन्यस्मात् प्रदेशान्तरात् इति । यस्मात् तेषाम् स्थानकरणप्रयत्नाः स्वभावतः एव सिद्धाः तस्मात् तेषाम् स्थानकरणप्रयत्नः निरर्थकः । तथा च अनधीतव्याकरणाः
अपि ब्राह्मणाः वेदान् अधीयते । न च तेषाम् दुरधीतम् भवति । न च अनधीतज्योतिषाम् अयना वेदोक्तान् यज्ञकालान् जानते । व्याकरणेन किल वेदानाम् रक्षा क्रियते । रक्षा अपि प्रजानाम् पार्थिवैः दुष्टनिग्रहेण शिष्टानुग्रहेण च क्रियते । एवम् वेदानाम् शब्दराशित्वात् असाधूनाम् उद्धारः निग्रहः, साधूनाम् शब्दानाम् सम्यक् कृतः अनुग्रहः इति । एतत् च न । नित्याः वेदाः । तेषु शब्दराशिप्रक्षेपाणाम् [स्वतः सिद्धिः], दृष्टानुविधित्वात् छन्दसः । यः यः
शब्दः वेदेषु पठ्यते तस्य तस्य अप्रसिद्धलक्षणस्य अपि स्वयम् लक्षणम् साध्यम् प्रत्ययप्रकृतिलोपागमवर्णविकारादिभिः । न च ज्योतिषाम् अयनस्य अपि । ये ये वेदे यज्ञकालाः दृष्टाः ते सर्वे एव ज्योतिषाम् अयने गणितलक्षणसिद्धाः एव ।
अन्यत् च ã "दृष्टानुविधित्वात् छन्दसः" इति यदि वेदेषु दृष्टः एव अनुविधीयते तदा नहि किञ्चित् प्रयोजनम् व्याकरणेन । अथ ऋग्यजुःसाम्नाम् सर्वेषाम् एव प्रतिपदानिरुक्तेः निरुक्तस्य आव्यापिता । अथ छन्दोविचितैः ऋग्यजुःसाम्नाम् नित्यः एव छन्दः निबद्धः । न च तेषाम् इदानीम् काव्यपदपूर्वः निबद्धः क्रियते । न च अन्यूनाधिकलक्षणानाम् ऋग्यजुःसाम्नाम् इदानीम् अन्यथाकरणम् करणम् । एवम् च बाह्वृचे श्रुतौ श्रूयते, न हि एकेन अक्षरेण
द्वाभ्याम् वा ऊनानि छन्दांसि क्रियन्ते इति । न हि एवम् वेदोक्तानाम् यज्ञकालानाम् इति क्रमः श्रूयते । न हि आधानादिषु संस्कारेषु कालविशेषाः ज्योतिषाम् अयनात् विना अवगम्यन्ते । तत् यथा संस्कारेषु ã
एवम् गच्छन् स्त्रियम् क्षामाम् मघाम् मूलम् च वर्जयेत् ।
सुस्थः इन्दौ सुलक्षण्याम् विद्वांसम् पुत्रम् अश्नुयात् ॥
[याज्ञवल्क्यस्मृतिः, आचाराध्यायः, विवाहप्रकरणम्, श्लोí 80]
इति । तत्र मघामूलयोः प्रतिपत्तिच्छेदौ इन्दोः च सुस्थदुःस्थताम् च नानधीतज्योतिषाम् अयना जानते । "सा यदि गर्भम् न दधीत सिंह्या श्वेतपुष्प्या उपोष्य पुष्येण मूलम् उत्थाप्य" इति [पारस्करगृह्यसूत्रम्, काí 1, कण्डिका 13, सूí 1] तत्र पुष्यस्य प्रतिपत्तिच्छेदौ नानधीतज्योतिषाम् अयना जानते । तथा च पुंसवने ã "यत् अहः पुंसा नक्षत्रेण चन्द्रमाः [युज्येत] तत् अहर् उपवास्य" इति [पारस्करगृह्यसूत्रम्, 1. 14. 3] । तत्र पुंनक्षत्राणि पुनर्
वसुपुष्यहस्तस्वातिश्रवणाः । एतेषाम् निरुपहतानाम् अनुकूलहतानाम् च प्रतिपत्तिच्छेदौ नानधीतज्योतिषाम् अयना जानते ।
अन्यत् च ã
नामधेयम् दशम्याम् तत् द्वादश्याम् वा अस्य कारयेत् ।
पुण्ये अहनि मुहूर्त्ते वा नक्षत्रे वा गुणान्विते ॥
[मनुस्मृतिः, 2.30]
इति । अत्र पुण्यस्य अह्नः, नक्षत्रस्य गुणान्वितस्य, मुहूर्तस्य वा प्रतिपत्तिच्छेदौ नानधीतज्योतिषाम् अयना जानते ।
अन्यत् च ã "उदगयने आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिम् गृह्णीयात्", "त्रिषु त्रिषु उत्तरादिषु", "स्वातौ मृगशिरसि रोहिण्याम् च" [पारस्करगृह्यसूत्रम्, 1.4.5-7] इति अत्र उदगयनादीनाम् उत्तरादीनाम् नक्ष्त्राणाम् वधूवरयोः अनुकूलानाम् च प्रतिपत्तिच्छेदौ नानधीतज्योतिषाम् अयना जानते, एवमादि प्रतिशाखम् संस्काराणाम् पुण्याहनक्षत्रमुहूर्तचोदना ज्योतिषाम् अयनाङ्गविषयाः तद्विद्भ्यः एव अवगन्तव्याः, न गुरूपदेशात् सम्प्रदायाविच्छेदात्
वा अवगन्तव्याः । इति अध्येयम् ज्योतिषाम् अयनम् ।
अन्यत् च ã छन्दसः उपाकर्मणि "अथ अतः अध्यायोपाकर्म । ओषधीनाम् प्रादुर्भावे श्रवणेन श्रावण्याम् पौर्णमास्याम् श्रावणस्य पञ्चमी हस्तेन वा" [पारस्करगृह्यसूत्रम्, 2.10.1-2] इति अत्र श्रावणपौर्णमासीम् श्रवणेन युक्ताम्, श्रावणस्य पञ्चमीम् हस्तेन युक्ताम् नानधीतज्योतिषाम् अयना जानते । अन्यत् च ã [छन्दसः उत्सर्गे] "पौषस्य रोहिण्याम् मध्यमायाम् वाष्टकायाम् अध्यायान् उत्सृजेरन्" [पारस्करगृह्यसूत्रम्, 2.12.1] इति एतत् च
। अथ नक्षत्राधानेषु "या असौ वैशाखस्य आमावास्या तस्याम् आदधीत सा रोहिण्या सम्पद्यते" [आपस्तम्बश्रौतसूत्रम्, 4.3.20; बौधायनव्याख्या] इति अत्र प्राग् एव रोहिण्या वैशाखस्य आमावास्यायाः परिज्ञानयोग्यस्य आधानद्रव्यस्य अर्जनम् ऋत्विजाम् च वरणम् इति एतत् च ज्योतिषाम् अयनाङ्गविषयम्, तद्विद्भ्यः एव अवगन्तव्यम्, न गुरूपदेशात् सम्प्रदायाविच्छेदात् वा अवगन्तव्यम् इति अध्येयम् ज्योतिषाम् अयनम् । तथा च "कृत्तिकासु अग्निम् आदधीत" [तैत्तिरीयब्राह्मणम्,
1.1.2.1] एवमादि नक्षत्राधानचोदनाः च "पश्विज्या संवत्सरे [संवत्सरे], प्रावृषि आवृत्तिमुखयोः वा" [कात्यायनश्रौतसूत्रम्, पशुबंधí, 1-2] इति आवृत्तिमुखयोः प्रतिपत्तिच्छेदौ वेदिनाम् अनधीतज्योतिषाम् अयना [न] जानते । अन्यत् च ã "दर्शपौर्णमासाभ्याम् यजेत" [शतपथब्राह्मणम्, 11.2.5.10] इति एवमादि चोदनाः च [श्रौत]स्मार्तेषु च कर्मसु "अपरपक्षे श्राद्धम् कुर्वीत ऊर्ध्वम् वा चतुर्य्याम्" [पारस्करगृह्यसूत्रपरिशिष्टकारभाष्यम्, श्राद्धसूत्रम्
1] ।
अपि नः स कुले जायात् यः नः दद्यात् त्रयोदशीम् ।
पायसम् मधुसंयुक्तम् वर्षासु च मघासु च ॥
[मनुस्मृतिः, 3.264]
इति ।
किम् बहुना, श्रौतस्मार्तविषयाणाम् तिथिनक्षत्रविषयाणाम् कर्मणाम् नित्यानाम् काम्यानाम् च न ज्योतिषाम् अयनात् विना समारम्भः, इति अध्येयम् ज्योतिषाम् अयनम् ।
[ लोकव्यवहारे ज्योतिषशास्त्रोपादेयता ]
लोकः च तिथिनक्षत्रमुहूर्तविषयाणाम् [सम्बन्धेन एव] शुभेषु कार्येषु प्रवर्तते । तथा च पुष्पफलपाणिः सर्वः एव दैवज्ञम् उपेत्य पृच्छति ã "कदा मे किम् भविष्यति? कदा अहम् कृष्यादिकर्मणि प्रवर्ते? कदा अहम् दैवज्ञकेन उपतिष्ठे? कदा अहम् अध्वानम् प्रपद्ये? कदा राजानम् पश्यामि? इहस्थस्य शुभम् मे भविष्यति आहोस्विद् अन्यस्थानगतस्य? केन कर्मणा प्रवृत्तस्य मे फलम् भविष्यति?" इति एतत् दैवज्ञात् अवगतार्थः
सर्वः एव शुभेषु कार्येषु प्रवर्तते । अशुभेषु अपि ã "कदा परदेशम् दिधक्षुः अहम् प्रवर्ते? कदा वैरिणः विनाशाय प्रतिष्ठे? कदा गजाश्वहरणम् [विदधे]? कदा पुरम् ग्रामम् वा घातयामि?" एतत् च दैवज्ञात् अवगत्य सर्वः प्रवर्तते । म्लेच्छादयः अपि च शकुननिमित्तस्वप्नबलात् एव कार्येषु प्रवर्तन्ते । यस्य च यत्किञ्चित् शुभम् भवति स ब्रवीति "शुभनक्षत्रमुहूर्तेषु अहम् आगतः", यस्य वा यत्किञ्चित् स्खलितम् भवति स ब्रवीति ã "मम नक्षत्रपीडा
वर्तते, न अनुकूलाः ग्रहाः" इति । तथा च हस्तिशिक्षाविदः स्वशास्त्रोक्ततिथिनक्षत्रेषु एव पारिबन्धादिहस्तिकर्मसु प्रवर्तन्ते ।
पक्षच्छिद्रेषु तिथयः ये यस्य -रवः मता।
तेषु तेषु पारिप्रवेशबन्धम् च परिवर्जयन्ति ।
नक्षत्रम् हस्तिनाम् प्राह स्वयम् एव प्रजापतिः ।
हस्तहस्तविशुद्धः हि हस्तिनाम् कर्म कीर्त्यते ॥
इति आदि । तथा च अश्वशिक्षायाम् ã
अश्विन्याम् रेवतौ पुष्ये पुनर् वस्योः च कारयेत् ।
वाजिनाम् सर्वकर्माणि स्वातौ वारुणहस्तयोः ॥
इति । तथा च विषतन्त्रे ã
कृत्तिकासु विशाखासु मघासु भरणीषु च ।
सार्पे मूले तथा अर्द्रायाम् सर्पदष्टः न जीवति ॥
आविद्धम्लेच्छादयः अपि च न शुभतिथिनक्षत्रमुहूर्तान् उल्लङ्घ्य प्रवर्तन्ते । तथा क्षुतरुदिताक्रुष्टप्रत्यस्खलितश्रवणम् परिहरन्ति । तृणकाष्ठभारलवणास्थिमत्तोन्मत्तक्लीबाहिदर्शनम् परिहरन्ति । सितकुसुमस्वादुफलेक्षुवंशा[म्बर]स[म]लङ्कृतस्त्रीपूर्णकुम्भादिदर्शनम् अभिनन्दन्ति । इति अध्येयम् ज्योतिषाम् अयनम् लोकानुग्रहाय । इति एवम् इदम् प्रथमम् गीतिकासूत्रम्
[ ग्रहाणाम् युगभगणाः ]
ग्रहाणाम् युगभगणप्रदर्शनाय आर्याम् आह ã
युगरविभगणाः ख्युघृ शशि
चयगियिङुशुछ्लृ कु ङिशिबुण्लृष्खृ प्राक् ।
शनि ढुङ्विघ्व गुरु ख्रि-
च्युभ कुज भद्लिझ्नुखृ भृगुबुधसौराः
अस्याः पदानि ã युगरविभगणाः, ख्युघृ अविभक्तिकः निर्देशः, शशि अविभक्तिकः एव, चयगियिङुशुछ्लृ अविभक्तिकः, कु अविभक्तिकः एव, ङिशिबुण्लृष्खृ अविभक्तिकः, प्राक्, शनि, ढुङ्विघ्व, गुरु, ख्रिच्युभ, कुज, भद्लिझ्नुखृ, एतानि शन्यादीनि अपि च पदानि अविभक्तिकनिर्दिष्टानि एव । अविभक्तिकनिर्देशाः अन्यत्र अपि दृश्यन्ते "ऐउण् ऋऌक्", "सर्वविश्व" इत्यादिषु च । भृगुबुधसौराः ।
[युगरविभगणाः] । युगे रविभगणाः युगरविभगणाः, युगस्य वा रविभगणाः युगरविभगणाः । युगम् कालक्रियापादे वक्ष्यते । अथ अत्र द्वन्द्वनिर्देशः कस्मात् न भवति? ã युगम् च रविभगणाः च युगरविभगणाः, युगम् ख्युघृ रविभगणाः ख्युघृ इति । एवम् च सति द्वन्द्वनिर्देशे यत् तत् कालक्रियापादे वक्ष्यते, तत् एव न वक्तव्यम् भवति । सत्यम्, किन्तु त्रैराशिकम् न सिद्ध्यति । सप्तमासमासे षष्ठीसमासे वा क्रियमाणे त्रैराशिकम्
सिद्धम् । यदि दिवससङ्ख्ये वर्षसङ्ख्ये वा युगे यथानिर्दिष्टाः ग्रहभगणाः लभ्यन्ते तदा अस्मिन् निर्दिष्टे कियन्तः इति तत्कालमध्यमग्रहभगणादयः लभ्यन्ते । षष्ठीसमासे च यद् यस्य दिवससङ्ख्यस्य वर्षसङ्ख्यस्य युगस्य यथानिर्दिष्टाः ग्रहभगणाः लभ्यन्ते, अस्य इष्टस्य कियन्तः इति मध्यमग्रहभगणादिसिद्धिः । द्वन्द्वे पुनर् न एतत् सिद्ध्यति । असौ च अत्र युगभगणशब्दः सर्वत्र अधिकारार्थे प्रयुज्यते । अधिकारे च यथा युगरविभगणाः
एवम् युगे शशिभगणाः इत्यादि । अन्यथा कस्मिन् काले कस्य वा कालस्य एते ग्रहभगणाः इति एतत् ने निर्दिष्टम् भवति । तस्मात् षष्ठीसप्तमीसमासाभ्याम् अन्यतरेण व्याख्येयम्, अर्केण एव ग्रहाणाम् युगप्रसिद्धेः । उक्तम् च ã
विशिष्टदेशकालार्कभादिपर्याययोगजः ।
कालः ग्रहात् च सदसद्वर्गः स्यात् व्यावहारिकम् ॥
इति । उत्तरत्र अपि अधिकारार्थम् रवियुगभगणशब्दः सम्बन्धनीयः, रवियुगे शशिभगणाः रवियुगस्य वा इति । कथम् इदम्? [रवियुगभगणाः इति] पाठान्तरे अपि द्वन्द्वनिर्देशात् षष्ठीसप्तम्यर्थः दुर्लभः भवेत् अधिकारः च । एवम् तर्हि एकशेषनिर्देशः अत्र प्रतिपत्तव्यः, रवियुगभगणाः च रवियुगभगणाः च रवियुगभगणाः इति । एकेन रवियुगभगणशब्देन रवियुगभगणाः च रवियुगभगणप्रमाणसंसिद्धिः द्वितीयेन षष्ठीसप्तमीसमासाभ्यां
त्रैराशिकसिद्धिः इति । यदि एवम् युगरविभगणशब्देन अपि अयम् अर्थः शक्यते ज्ञातुम्, न किञ्चित् पाठान्तरे प्रयोजनम् ।
युगरविभगणाः कियन्तः? उच्यन्ते ã ख्युघृ । उकारवर्गस्थाने अयम् खकारः यकारः च, तेन उकारवर्गस्थाने द्वात्रिंशत् । घृ ऋकारवर्गस्थाने घकारः, तेन तस्मिन् स्थाने चत्वारि । एवम् एकत्र त्रिचत्वारिंशत् लक्षा विंशतिसहस्राणि । अङ्कैः अपि 4320000 ।
शशि चयगियिङुशुछ्लृ । प्रकृताधिकारयुगभगणसंयोगेन शशिशब्दः व्याख्येयः ã युगशशिभगणाः । अत्र अपि तौ एव समासौ । युगशशिभगणाः चयगियिङुशुछ्लृ । पूर्ववत् एव वर्गावर्गस्थानेषु सङ्ख्या स्थापनीया । रसाग्निरामदहनेष्वद्रिशैलशिलीमुखाः । अङ्कैः अपि 57753336।
कु ङिशिबुण्लृष्खृ । तथा एव युगकुभगणाः तथा एव स्वस्थाने अपि विनिवेशिताः, खाम्बरेष्वद्रिरामाश्वियमाष्टतिथयः, 1582237500 ।
भचक्रप्रतिबद्धानि नक्षत्राणि तस्य भचक्रस्य प्रवहाक्षेपवशात् अपराम् दिशम् आसादयन्ति । नक्षत्राणि [भुवम्] ग्रहवत् स्वगत्या प्राङ्मुखीम् भ्रमन्तीम् इव पश्यन्ति इति अनया युक्त्या भुवः भगणनिर्देशः ।
प्राक् । ये एते ग्रहाः विवस्वदादयः प्राङ्मुखाः भ्रमन्ति । यदि अपि भपञ्जरप्रवहाक्षेपात् अपगच्छन्ति दिशम्, तथा अपि एते स्वगत्या प्राङ्मुखम् एव गच्छन्ति । अल्पत्वात् गतेः कालान्तरेण प्राचीम् दिशम् आसादयन्तः लक्ष्यन्ते, कुलालचक्रस्थकीटवत् । यदि एते प्राग्गतयः न स्युः, तदा अश्विन्याम् दृष्टः [ग्रहः] भरण्याम् न उपलक्ष्येत । यदि एते अपराभिमुखाः स्युः, तदा अश्विन्याम् दृष्टाः रेवत्याम् उपलक्ष्येरन् । तस्मात् एते प्राङ्मुखाः एव
भ्रमन्ति इति अतः "प्राक्" इति ।
किम् पुनर् भूभगणोपदेशे प्रयोजनम् इति आह ã "रविभूयोगाः [भूदिवसाः]", [कालक्रियाí, 5] इति भूदिवसानयनम् । न एतत् अस्ति, प्रकारान्तरनिष्पन्नत्वात् कुदिवसानाम् । यदि अपि अयम् एव कुदिवसप्रतिपत्तेः उपायः स्यात् तथा अपि उपदेशगौरवात् न युज्यते । का उपदेशगुरुता? उच्यते ã "कु ङिशिबुण्लृष्खृ" इति कुभगणोपदेशः, "रविभूयोगाः भूदिवसाः" इति भूदिवसोपदेशः । कथम् तर्हि अभिधीयते? उच्यते ã भूदिवसप्रमाणनिर्देशः । एवम् लघुतरप्रकारः
। तस्मात् न एकम् प्रयोजनम् उपदेशस्य एतावतः कारणम् भवितुम् अर्हति । अन्यत् अपि प्रयोजनान्तरम् अस्ति इति आह । तत् यथा ã कलियातभूभगणैः सर्वे एव ग्रहाः मीनमेषसन्ध्युदयकालावधयः आनीयन्ते । कलि[यात]रविमण्डलाहर्गणसमासः [एव] कलियातभूभगणाः । तैः त्रैराशिकम् ã यदि युगप्रसिद्धभूभगणैः इष्टग्रहभगणाः मीनमेषसन्धिप्रारब्धाः प्राप्यन्ते, तदा कलियातभूभगणैः कियन्तः इति इष्टग्रहभगणादयः । अथवा
सूर्योदयकालावधेः एव ग्रहाः आनीयन्ते । कथम्? रविभगणाः याताहर्गणे क्षिप्त्वा तद्दिवससूर्यराश्यादीन् च अधः विन्यस्य इष्टग्रहभगणैः क्रमेण संगुणय्य स्वच्छेदैः षष्ट्यादिभिः भक्त्वा उपरि उपरि आरोप्य तथा एव भूभगणैः विभजेत, लब्धम् इष्टग्रहमण्डलानि । शेषम् द्वादशादिगुणितम् कृत्वा तद् अवशिष्टम् [अधः अधः] प्रक्षिप्य तथा एव च अपहृते राश्यादयः । अथवा, रविमण्डलाहर्गणयोगम् द्वादशभिः संगुणय्य रवियातराशयः
प्रक्षिप्यन्ते, त्रिंशता भागानित्यादि [अर्घात् त्रिंशता संगुणय्य रवियातभागान् प्रक्षिपेत् इति आदि] कर्म कृत्वा खखषड्घनच्छेदराशिम् निधाय त्रैराशिकम् ã यदि युगभूभगणैः अभीष्टग्रहभगणाः लभ्यन्ते, तदा खखषड्घनभागहारभूभगणैः कियन्तः? तेन खखषड्घनगुणितयुगभूभगणैः भागे हृते भगणादिलब्धिः । अथवा, राश्यादिगुणकारसंवर्ग- [12 x 30 x 60]-खखषड्घन-[21600]योः गुणकारभागहारयोः तुल्यत्वात् नष्टयोः
अभीष्टग्रहभगणगुणितभूभगणलिप्तानाम् युगभूभगणाः एव भागहारः, फलम् अभीष्टग्रहलिप्ताः ।
शनि ढुङिवघ्व । पूर्ववत् शनियुगभगणाः ढुङ्विघ्व, कृतरसेषु अङ्गमनवः, अङ्कैः अपि 146564 । गुरु ख्रिच्युभ । पूर्ववत् एव, कृताश्वियमाब्धिरसाग्नयः, अङ्कैः अपि 364224 । तथा एव कुज भद्लिझ्नुखृ, वेदाश्विवसुरसरन्ध्रयमास्विनः, अङ्कैः अपि 2296824 ।
भृगुबुधसौराः । भृगुः च बुधः च भृगुबुधौ, तयोः सौराः । सूर्यस्य इमे सौराः । के? भगणाः । भृगुबुधयोः सौराः, भृगुबुधसौराः । सूर्यस्य ये भगणाः ते एव शुक्रबुधयोः अपि ख्युघृ-सङ्ख्या इति । एतेषाम् युगभगणानाम् उत्पत्तिप्रत्याख्यानम् "क्षितिरवियोगादिनकृद्" [गोलपादः, 48] इति अस्याम् कारिकायाम् व्याख्यास्यामः । एवम् द्वितीया गीतिः
[ ग्रहोच्चयुगभगणाः ]
ग्रहोच्चयुगभगणप्रतिपादनाय आह ã
चन्द्रोच्च र्जुष्खिध बुध
सुगुशिथृन भृगु जषबिखुछृ शेषार्काः ।
चन्द्रोच्च, र्जुष्खिध, बुध, सुगुशिथृन, भृगु, जषबिखुछृ, एतेषाम् अविभक्तिकः निर्देशः, शेषार्काः ।
अत्र अपि अधिकृतयुगभगणसंयोगेन एव व्याख्येयम् । चन्द्रोच्चस्य युगभगणाः चन्द्रोच्चयभगणाः, र्जुष्खिध नवेन्दुयमाष्टवस्वब्धयः, अङ्कैः अपि 488219 । बुध एवम् बुधोच्चयुगभगणाः सुगुशिथृन खाश्व्यम्बरमुनिरामरन्ध्राद्रिशशिनः, अङ्कैः अपि 17937020 । भृगु तथा एव भृगूच्चयुगभगणाः जषबिखुछृ वस्वष्टाग्नियमाश्विशून्याद्रयः, अङ्कैः अपि 7022388 ।
अत्र अयम् भृगुशब्दः, आहोस्वित् भृगुजशब्दः? भृगुः नाम भगवान् महर्षिः तस्य पुत्रः शुक्रः तस्य ये भगणाः निर्दिश्यन्ते; तेन भृगुजः इति, अथवा भार्गवः इति निर्देश्यः । यदि अयम् भृगुजशब्दः, तदा षबिखुछृ इति एते भगणाः प्राप्नुवन्ति, जषबिखुछृ इति एते च इष्यन्ते । कथम् तर्हि अत्र भृगुशब्दः एव विज्ञेयः, यत् उत भृगुजशब्दः? भृगुशब्दः एव विज्ञायते । कुतः? अन्यत्र भृगुजशब्दस्य आश्रवणात् । अत्र शास्त्रे भृगुजशब्देन न
क्वचित् शुक्रः आचार्येण निर्दिष्टः । तेन तर्हि भृगुशब्देन भृगुगुरुबुधशनि इति आदि यदि अपि उच्यते, भार्गवशब्देन निर्देशः कर्तव्यः, न भृगुशब्देन, भृगोः अपत्यम् भार्गवः इति । न एषः दोषः, भृगोः अपत्यम् भृगुः इति अपि भवति, "यथा बभ्रुः, मण्डुः, लमकः" [अष्टाध्यायी, 3.1.2. पातञ्जलभाष्यम्] इति । बभ्रोः अपत्यम् बाभ्रव्यः इति आदि वक्तव्ये बभ्रुः इति उच्यते, एवम् माण्डव्यः मण्डुः । तथा एव भार्गवः भृगुः ।
शेषार्काः । निर्दिष्टेभ्यः ये अन्ये ते शेषाः, ते च शनिगुरुभौमाः । तेषाम् शेषाणाम् । अर्कस्य इमे आर्काः । के? भगणाः । शेषाणाम् आर्काः, शेषार्काः । "ख्युघृ"तुल्याः एव उच्चभगणाः शनिगुरुभौमानाम् । यतः सूर्यादयः विग्रहवन्तः परिभ्रमन्तः राशिषु उपलक्ष्यन्ते, तेन तेषाम् भगणाः कीर्त्यन्ते । एते पुनर् शश्युच्चादयः न एव लक्ष्यन्ते; तेषाम् कथम् भगणाः भवन्ति, अलक्ष्यमाणत्वात् इति? अत्र उच्यते ã अत्र चन्द्रादीनाम् एव [स्वोच्चस्थितानाम्
भगणाः] । अथवा स्फुटग्रहगतिः अत्र साध्यते । तस्याः साधनोपायाः मध्यमः, शीघ्रः, मन्दः, परिधयः, ज्या इति आदयः । सा च स्फुटा ग्रहगतिः एतैः उपायैः साधयितुम् शक्यते, न अन्यथा । यथा प्रकृतिप्रत्ययलोपागमवर्णविकारादिभिः उपायैः साधुशब्दः साध्यते, एवम् अत्र अपि । तस्मात् उपायाः उपेयसाधकाः । तेषाम् न नियमः । उक्तम् च ã
उपादायाः अपि ये हेयाः तान् उपायान् प्रचक्षते ।
उपायानाम् च नियमः न अवश्यम् अवतिष्ठते ॥
[वाक्यपदीयम्, 2.38]
इति । तस्मात् उपायमात्रत्वात् न दोषः ।
[ पातयुगभगणाः ]
अथ पातभगणप्रदर्शनार्थम् आह ã
बुफिनच पातविलोमा
अधिकृतयुगभगणसंयोगात् युगपातविलोमभगणाः । बुफिनच रसाश्वियमदस्राग्नियमाः, अङ्कैः अपि 232226; एते भगणाः । पातस्य विलोमा विपरीतगतिः प्रसिद्धा, तेन अत्र अनुलोमगतिजिज्ञासुभिः मण्डलात् विशोध्यते, तस्य पातस्य अनुलोमगतिः भवति । सा चन्द्रात् विशोध्यते । तस्मात् पातविशुद्धशेषात् चन्द्रमसः क्षेपः साध्यते । यदि एतावता प्रयोजनेन पातः मण्डलात् शोध्य अनुलोमः क्रियते अत्र, तर्हि महाप्रयासः - पातः मण्डलात् शोध्यः,
स चन्द्रात् इति । कथम् तर्हि? यः एव करणागतपातः चन्द्रमसि क्षिप्यते, विलोमत्वात् अपचयः क्षेपः इति । तस्मात् उत्तरः दक्षिणः वा विक्षेपः साध्यते । किम् अयम् चन्द्रमसः पातः उच्यते, ननु च सर्वेषाम् एव अयम् इति? नहि, पारिशेष्यात् चन्द्रस्य एव अयम् पातः, ग्रहाणाम् पाताः वक्ष्यन्ते, "नवराषह" [गीतिकाí, 8] इति । तस्मात् परिशिष्टः चन्द्रस्य एव अयम् । ननु सूर्यः अपि अन्यः अस्ति? तस्य विक्षेपाभावात् पाताभावः ।
[ भगणारम्भकालादिनिर्देशः ]
एते ग्रहोच्चपातभगणाः कस्मिन् काले, कस्मिन् देशे, कस्मात् ज्योतिश्चक्रप्रदेशात् प्रवृत्ताः इति एतत् न ज्ञायते । अतः तत्प्रदर्शनार्थम् आह ã
बुधाह्नि अजार्कोदयात् च लङ्कायाम्
बुधाह्नि, अजार्कोदयात्, च, लङ्कायाम् ।
बुधस्य अहः बुधाहः, तस्मिन् बुधाह्नि । ननु च "राजाहस्सखिभ्यष्टच्" [अष्टाध्यायी, 5.4.19] इति समासान्ते कृते बुधाहे इति भवितव्यम् । न एषः दोषः, समासान्तविधेः अनित्यत्वात् । अनित्यः समासान्तविधिः, कस्मिन् चित् भवति कस्मिन् चित् न भवति इति । तेन बुधाह्नि इति अपि भवति । बुधदिवसे बुधादिवारः अनन्तरकृतयुगप्रवृत्तौ । तेन बुधादिवारात् कृतयुगादि अहर् गणः गण्यते । अजार्कोदयात् अजः मेषः । अर्कस्य उदयः अर्कोदयः । अजः च अर्कोदयः
च अजार्कोदयः । "सर्वः द्वन्द्वः विभाषायाम् एकवत् भवति" [अष्टाध्यायी 2.2.29, पातञ्जलभाष्यम्] इति एकवत् भावः । तस्मात् अजार्कोदयात्, मेषादेः अर्कोदयात् च । मेषादेः भगणप्रदेशात् सूर्योदयात् च लङ्कायाम् एते ग्रहाः स्वान् स्वान् भगणान् भोक्तुम् आरब्धाः । मेषादेः यस्मात् एते प्रवृत्ताः तस्मात् एषु ग्रहेषु न क्षेपः न अपचयः । यस्मात् सूर्योदयात् तस्मात् अर्धरात्र्यादिषु कालविशेषेषु यथा इष्टम् स्वभोगैः सञ्चालनम्, यतः लङ्कायाम् ततः अन्येषु
देशेषु देशान्तररेखायाः पूर्वतः अपरतः व्यवस्थितेषु देशान्तरफलापचयः क्षेपः च । चकार एतान् एव अर्थान् समुच्चिनोति । बुधाह्नि अर्कोदयात् लङ्कायाम् इति । एवम् तृतीया गीतिः
[ अल्पमानम् तद्गतप्रमाणम् च ]
कल्पयुगमन्वन्तराणाम् गतागतप्रतिपादनाय आह ã
काहः मनवः ढ मनुयु-
गाः श्ख गताः ते च मनुयुगाः छ्ना च ।
कल्पादेः युगपादाः
ग च गुरुदिवसात् च भारतात् पूर्वम्
काहः, मनवः, ढ इति अविभक्तिकः निर्देशः, मनुयुगाः, श्ख अयम् अपि अविभक्तिकः एव, गताः, ते, च अविभक्तिकः, मनुयुगाः, छ्ना [अविभक्तिकः], च, कल्पादेः, युगपादाः, ग अविभक्तिकः एव, च, गुरुदिवसात्, च, भारतात्, पूर्वम् ।
कः इति प्रजापतेः आख्यानम् । कस्य अहः काहः, ब्रह्मदिवसः इति अर्थः । तस्य काहस्य कियत् प्रमाणम् इति आह ã मनवः ढ । चतुर्दश मनवः काहस्य प्रमाणम् । ब्रह्मणः दिवसे चतुर्दश मनवः परिवर्तन्ते । एकैकस्य मनः कियत् कियत् अन्तरम् इति आह ã मनुयुगाः श्ख । द्वासप्ततियुगानि मनः मनोः अन्तरम् । अत्र कथम् उच्यते तद् द्वासप्ततियुगानि मनोः अन्तरम् इति । अन्ये पुनर् अन्यथा मन्यन्ते ã
तद् एकसप्ततिगुणम् मन्वन्तरम् इह उच्यते ।
इति । एकसप्ततिः चतुर्युगानि मनोः अन्तरम् । अत्र कथम्? उच्यते ã ये एवम् मन्यन्ते तेषाम् पूर्वापरविरोधः । एकसप्ततिः चतुर्युगानि मनोः अन्तरम् इति उक्त्वा त एवम् पुनर् अपि आह ã
सहस्रयुगपर्यन्तम् अहर् यत् ब्रह्मणः विदुः ।
रात्रिम् युगसहस्रान्ताम् ते अहोरात्रविदः जनाः ॥
[श्रीमद्भगवद्गीता, 8.17; मनुस्मृतिः, 1.73]
इति । तत्र एकसप्ततिः चतुर्दशभिः गुणितानि न एव युगसहस्रम् भवति । तस्मात् उच्यते पूर्वापरविरोधः । यदि एकसप्ततिः मनोः अन्तरम्, कथम् चतुर्दशमन्वन्तराणि युगसहस्रम् भवति? अस्माकम् तु द्वासप्ततिः चतुर्युगानि मनोः अन्तरम् । अष्टोत्तरम् सहस्रम् ब्राह्मः दिवसः इति एतत् उपपन्नम् ।
तेषु मनुषु चतुर्दशसु कियन्तः मनवः व्यतिक्रान्ताः इति आह ã गताः ते च । गताः च-सङ्ख्या, षट् इति अर्थः । सप्तमस्य मनोः कियन्ति युगानि इति आह ã मनुयुगाः छ्ना । मनोः सप्तमस्य व्यतीतानि सप्तविंशतिः युगानि । अष्टाविंशतितमस्य युगस्य पादाः व्यतीताः ग त्रिसङ्ख्याः कृतत्रेताद्वापरसंज्ञिताः । च पादपूरणे । गुरुदिवसात् च भारतात् पूर्वम् । गुरोः दिवसः गुरुदिवसः, तस्मात् गुरुदिवसात्, भारतात् च पूर्वम् । गुरुदिवसेन उपलक्षितात्
भारतात् पूर्वम् इति सामान्येन अभिहितत्वात् कलियुगादेः पूर्वम् इति व्याख्येयम् । अन्यथा पूर्वशब्दात् अतिरिच्यते । एते मनवः, एतानि च युगानि, एते च युगपादाः व्यतिक्रान्ताः । चकार एतान् एव अर्थान् समुच्चिनोति ।
अत्र एतत् प्रष्टव्यम् ã किम् एतानि युगानि युगपादाः च तुल्यप्रमाणाः आहोस्वित् भिन्नप्रमाणाः इति? केचित् आहुः भिन्नप्रमाणाः इति । तद् यथा ã
चत्वारि आहुः सहस्राणि [वर्षाणाम् यत् कृतम् युगम्] ।
तस्य तावत् शती सन्ध्या सन्ध्यांशः च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥
[मनुस्मृतिः, 1.69-70]
अस्माकम् पुनः तत्र युगपादाः सर्वे एव तुल्यप्रमाणाः । अन्यथा अतीतानागतग्रहगतिपरिज्ञानम् एव न घटते । अयम् च युगादिगतनिर्देशः ग्रहगतिपरिज्ञानाय एव । तद् यथा ã षण्मनवः व्यतिक्रान्ताः इति । षण्णाम् च मनूनाम् व्यतीतानि युगानि द्व्यग्न्यब्धयः, 432 । एतानि च सप्तमस्य मनोः सप्तविंशतिः युगानि, तत्सहितानि नवेषु अब्धयः, 459 । एतानि व्यतीतयुगानि वर्षाणि क्रियन्ते । कथम्? ख्युघृ-सङ्ख्यानि वर्षाणि युगप्रमाणम् । तेन ख्युघृ-गुणानि
वर्षाणि, वस्वष्टाश्विवस्तुरन्ध्ररूपाणि अयुतगुणानि, 1982880000 । एतानि च अष्टाविंशतितमयुगस्य पादत्रयस्य वर्षाणि कृताश्व्यग्नयः अयुतगुणाः 3240000, एतैः सहितानि अर्कर्तुवसुरन्ध्ररूपाणि अयुतगुणानि 1986120000 एतावान् कालः कलियुगादौ ब्रह्मदिवस्य अतीतः । यावन्ति वर्षाणि अतीतानि कलियुगस्य तावन्ति अत्र प्रक्ष्प्य अहर्गणः क्रियते । अस्मिन् अहर्गणे गुरोः प्रभृति दिनवारः, कृतयुगाद्यहर्गणे बुधात्, कलियुगादेः शुक्रात् । "बुधाह्नि अजार्कोदयात् च
लङ्कायाम्" इति कृतयुगादौ बुधवासरोपदेशात् कल्पादेः गुरुः अभ्यूहितः, कलियुगादेः च भृगुः । एवम् कल्पाद्यहर्गुणे, कृतयुगाद्यहर्गणे वा क्रियमाणे न कस्यदित् क्षेपः ।
यदा पुनः कलियुगव्यतीतात् एव अहर्गणः क्रियते, तदा शश्युच्चस्य राशित्रयम् क्षेपः, पातस्य षड्राशयः । कथम्? [द्वाप]रान्ताहर्गणम् पातभगणैः शश्युच्चस्य भगणैः च पृथक् पृथक् संगुणय्य भूदिवसैः भागलब्धानि मण्डलानि, शेषे द्वादशगुणिते भूदिवसैः अपहृते षड्राशयः पातस्य, शश्युच्चस्य च त्रयः राशयः लभ्यन्ते । अथवा चतुर्भिः समैः युगपादैः पातभगणाः शश्युच्चभगणाः च लभ्यन्ते, तत् एतैः समैः त्रिभिः
युगपादैः कियन्तः इति भगणाः लभ्यन्ते । शेषे द्वादशगुणे [चतुर्विभक्ते राशयः] इति । एवम् इदम् चतुर्थम् गीतिकासूत्रम्
[ ग्रहाणाम् कक्ष्याप्रमाणानि ]
एते ग्रहाः भ्रमन्तः कियत्प्रमाणासु कक्ष्यासु भ्रमन्ति इति एतत् न ज्ञायते, तत्ज्ञानार्थम् आह ã
शशिराशयः ठ चक्रम्,
ते अंशकलायोजनानि य-व-ञ-गुणाः ।
प्राणेन एति कलाम् भम्,
खयुगांशे ग्रहजवः, भवांशे अर्कः
[शशिराशयः, ठ अविभक्तिकः, चक्रम्, ते, अंशकलायोजनानि, य-व-ञ-गुणाः, प्राणेन, एति, कलाम्, भम्, खयुगांशे, ग्रहजवः, भवांशे, अर्कः ।]
शशिग्रहणात् अभिहिताः शशिभगणाः परिगृह्यन्ते । ते शशिभगणाः राशयः कर्तव्याः । कथम् इति आह ã ठ चक्रम्, द्वादशराशयः चक्रम् भवति इति । शशिभगणाः चक्रसंज्ञिताः द्वादशभिः गुण्यन्ते, ततः ते राशयः भवन्ति । ते राशयः अंशकलायोजनानि कर्तव्याः । कथम् इति आह ã ते अंशकलायोजनानि य-व-ञ-गुणाः । "य"गुणाः राशयः अंशाः, "व"गुणाः कलाः, "ञ"गुणाः योजनानि । एवम् इमानि आकाशकक्ष्यायोजनानि भवन्ति ।
व्योमाम्बरखरसाद्रीषुखयमाद्रिसागरादिवेदरवयः, अङ्कैः अपि 12474720576000, आकाशकक्ष्या । यावन्तम् आकाशप्रदेशम् रवेः मयूखाः समन्तात् द्योतयन्ति तावान् प्रदेशः खगोलस्य परिधिः, खकक्ष्या । अन्यथा हि अपरिमितत्वात् आकाशस्य परिमाणाख्यानम् न उपपद्यते ।
चन्द्रमसः लिप्ता दशयोजनानि इति अतः अणुत्वात् चन्द्रभगणैः एव उपदिष्टा खकक्ष्या । अन्येषाम् भगणैः अपि एषा शक्यते एव । ननु तद् यथा ã रवेः युगभगणाः लिप्तीकृताः द्वयेकाग्निरामनवकाः दशलक्षाभ्यस्ताः, ते च अङ्कैः अपि 93312000000 । रवेः लिप्तायोजनानि रामाग्नीन्दवः, योजनाष्टादशसहस्त्रभागाः च रन्ध्रवस्वग्निरवयः, अङ्कैः अपि लिख्यन्ते
133
12389
18000 ।
एतैः योजनैः योजनभागैः च गुणिताः युगरविलिप्ताः खकक्ष्यायोजनानि भवन्ति । शनैः चरस्य अपि लिप्तायोजनानि खवेदरन्ध्राग्नयः, रूपाब्धिरसाङ्गरामांशाः खाकाशाष्टाद्रीन्दवः, अङ्कैः अपि
3940
17800
36641 ।
एतैः युगशनैः चरलिप्ताः गुणिताः तानि एव खकक्ष्यायोजनानि भवन्ति । एवम् अन्यभगणेभ्यः अपि खकक्ष्यायोजनानि भवन्ति ।
प्राणेन एति कलाम् भम् । ननु च अत्र कक्ष्याः प्रक्रान्ताः, तासु प्रक्रान्तासु "प्राणेन एति कलाम् भम्" इति एतत् अप्राकरणिकम् । न एतत् अस्ति । एतानि सूत्राणि । सूत्रेषु च केचित् अर्थाः प्राकरणिकाः केचित् अप्राकरणिकाः, विचित्रत्वात् सूत्राणाम् । प्राणेन उच्छ्वासेन, एति गच्छति, कलाम् लिप्ताम्, भम् ज्योतिश्चक्रम् । प्रवहेण-आक्षिप्यमाणम् ज्योतिश्चक्रम् कलाम् एति उच्छ्वासतुल्येन कालेन । ज्योतिश्चक्रम् लिप्तानाम् खखषड्घनम्, तत् अहोरात्रेण पर्येति । अहोरात्रस्य
प्राणाः खखषड्घनतुल्याः । तेन कलाः च ज्योतिश्चक्रसम्बन्धाः प्राणाः च तुल्याः । तस्मात् छायाकरणादिषु प्राणेषु एव ज्यादिकम् कर्म प्रवर्तते । ज्योतिश्चक्राहोरात्रयोः आदिः रव्युदयात् इति कालक्रियापादे विस्तरेण व्याख्यास्यामः ।
ग्रहकक्ष्याप्रदर्शनार्थम् आह ã खयुगांशे ग्रहजवः । ख इति अनेन पूर्वनिर्दिष्टा खकक्ष्या परिगृह्यते । युगग्रहणेन युगसम्बन्धिनः ग्रहाणाम् भगणाः परिगृह्यन्ते । यदि खयुगांशे ग्रहजवः इति युगम् परिगृह्यते, एकत्वात् युगस्य एका एव सर्वेषाम् ग्रहाणाम् कक्ष्या स्यात् । खस्य युगांशः खयुगांशः । खकक्ष्यायाः स्वैः स्वैः युगभगणैः भागे हृते यत् लब्धम् तत् युगांशः । तस्मिन् युगांशे । ग्रहाणाम् जवः ग्रहजवः । जवः
वेगः गतिः इति अर्थान्तरम् । तावति परिधिप्रदेशे ग्रहाः परिभ्रमन्ति, स्वैः स्वैः गतिविशेषैः । खकक्ष्यायाम् स्वैः स्वैः युगभगणैः भागे हृते यथास्वम् ग्रहकक्ष्याः भवन्ति । [कथम्?] उच्यते ã त्रैराशिकगणितविशेषेण । "षष्ट्या सूर्याब्दानाम्" [कालक्रियाí, 12] इति अत्र ख्युघृ-तुल्यैः अर्कवर्षैः खकक्ष्यातुल्यानि योजनानि सर्वे एव ग्रहाः पूरयन्ति इति वक्ष्यति । तेन यदि एतावद्भिः युगभगणैः इष्टग्रहस्य [= इष्टग्रहस्य युगभगणैः] खकक्ष्या
[लभ्यते], ततः एकेन भगणेन का इति स्वकक्ष्या लभ्यते ।
भवांशे अर्कः । भस्य वांशः भवांशः, नक्षत्रपरिधेः षष्ट्यंशः सूर्यकक्ष्या भवति । कथम् उच्यते नक्षत्रकक्ष्यायाः षष्टिभागः सूर्यकक्ष्या इति, नक्षत्रकक्ष्यायाः असिद्धत्वात्? न अत्र सूर्यकक्ष्या अभिधीयते । किम् तर्हि? नक्षत्रकक्ष्या । कथम्? या अत्र सूर्यकक्ष्या सा नक्षत्रकक्ष्यायाः षष्टिभागः । सूर्यकक्ष्या च "खयुगांशे ग्रहजवः" इति अनेन सिद्धा यदि नक्षत्रकक्ष्यायाः षष्टिभागः तदा सर्वा नक्षात्रकक्ष्या कियती भवति
इति षष्ट्या गुण्यते, तदा तस्याः नक्षत्रकक्ष्यायाः प्रमाणम् भवति । सा च वसुगगनाम्बरशून्यरसाश्विरामाद्रिशशिनः, अङ्कैः अपि 173260008 । विचित्रत्वात् गणितनिर्देशस्य क्वचित् राशिः सकलः अभिधीयते, क्वचित् राशेः एकदेशः । अत्र पुनः राशेः एकदेशेन षष्ट्यंशेन सकलः राशिः अभ्यूह्यते ।
इष्टग्रहकक्ष्याभिः इष्टग्रहयोजनकर्णाः आनीयन्ते । यदि ã
चतुरधिकम् शतम् अष्टगुणम् द्वाषष्टिः तथा सहस्राणाम् ।
[गणितपादः, 10]
इति एतावता परिधिना अयुतप्रमाणविष्कम्भार्धम् लभ्यते, तदा इष्टकक्ष्यापरिधिना किम् इति तत्कक्ष्यायोजनविष्कम्भार्धम् लभ्यते । तद् एव योजनकर्णः स्वस्फुटजिज्ञांसुभिः स्फुटीक्रियते । यदि व्यासार्धलिप्ताभिः इयानिष्टयोजनकर्णः लभ्यते, तदा तेन अविशेषकर्णेन भूताराग्रहविवरेण कियान् योजनकर्णः इति स्फुटयोजनकर्णः लभ्यते । एवम् इदम् पञ्चमम् गीतिकासूत्रम्
[ भू-शशि-ग्रहाणाम् व्यासाः ]
योजनानि इति उक्तम् । तेषाम् योजनानाम् प्रमाणम् न ज्ञायते । तत्परिज्ञानार्थम् भूग्रहाणाम् व्यासप्रमाणप्रतिपादनार्थम् च आह ã
नृषि योजनम्, ञिला भू-
व्यासः अर्केन्द्वोः घ्रिञा गिण, क मेरोः ।
भृगु-गुरु-बुध-शनि-भौमाः
शशि-ङ-ञ-ण-न-मांशकाः, समार्कसमाः
नृषि अविभक्तिकः, योजनम्, ञिला अविभक्तिकः, भूव्यासः, अर्केन्द्वोः, घ्बिञा गिण क इति एते अविभक्तिकाः निर्देशाः, मेरोः, भृगु-गुरु-बुध-शनि-भौमाः, शशि-ङ-ञ-ण-न-मांशकाः, समाः, अर्कसमाः ।
नृणाम् षि नृषि, अष्टौ पुरुषसहस्राणि । नृषिः एव योजनम् नृषि योजनम् । "पुरुषः धनुर्दण्डः नरः" इति पर्यायाः । एतत् उक्तम् भवति ã अष्टौ धनुस्सहस्राणि योजनम् । अनेन योजनप्रमाणेन ञिला भूव्यासः । "ञिला" इति पञ्चाशदुत्तरम् सहस्रम् । ञिला एव भूव्यासः ञिला भूव्यासः, "व्यासः विष्कम्भः विस्तरः" इति पर्यायाः ।
अन्ये पुनर् अन्यथा मन्यन्ते ã जम्बूद्वीपविष्कम्भः, ततः द्विगुणोत्तराः समुद्राः द्वीपाः च इति अनया प्रक्रियया द्विगुणश्रेढ्याः चतुर्दशगच्छायाः यत् सर्वधनम् तावत् प्रमाणम् तस्य इति । एतत् अपि च गोलपादे विस्तारेण विचार्य प्रत्याख्यास्यामः । अन्यत् च तत्र एव अक्षोन्नत्या भूपरिधियोजनानयनम् उपदेक्ष्यामः । अथ तु पुराणे गङ्गाद्वारकुमार्यन्तरालम् योजनसहस्रम् उच्यते । तत् च [न] प्रत्यक्षेण उपलभ्यते । तत् यथा ã लङ्कोज्जयिन्योः
अन्तरालम् योजनानाम् शतद्वयम् । लङ्कातः दूरत् उत्तरेण कुमारी । तथा च कुमार्युज्जयिन्योः अन्तरालम् न योजनशतद्वयम् अपि पूर्यते । उज्जयिन्याः गङ्गाद्वारम् न योजनशतमात्रम् अपि । एवम् गङ्गाद्वारकुमार्यन्तरालम् योजनशतत्रयम् अपि न पूर्यते, किम् उच्यते योजनसहस्रम् इति । अथ अन्ये मन्यन्ते विषयान्तरबहुत्वात् भुवः महत्त्वम् इति । यथा पारशव-कुलपर्वत-[कु]रु- प्रभृतयः देशाः योजनशतसङ्ख्यया श्रूयन्ते, तेन भुवः महत्त्वम्
इति । तत् च न, गोलाकारत्वात् भुवः । तत्पृष्ठपरिध्युपरिचक्रव्यवस्थिताः एते देशाः इति एतत् सर्वम् एव सम्भवति । अथवा तत्र अल्पप्रमाणानि योजनानि श्रूयन्ते, येन एकेन दिवसेन विंशतिमात्राणि योजनानि गच्छन्ति इति । तस्मात् एतावान् एव भूव्यासः ।
भूव्यासः गणितेन अपि आनेतुम् शक्यते । तत् यथा ã स्फुटतिथिः तावत् सूर्यग्रहणे पूर्वापरयोः कपालयोः परे [= परमे तिथौ] विज्ञायते एव । तत्र परायाम् [=अमायाम्] तिथौ उदयास्तमययोः चतस्रः नाडिकाः अपचीयन्ते उपचीयन्ते वा । तत्र काले दृग्ज्या व्यसार्धम्, आदित्यस्य [लम्बनम्] मध्यमगत्या तिस्रः लिप्ताः षट्पञ्चाशद्विलिप्ताः च [3ऽ 56ऽऽ] । चन्द्रमसः अपि द्वापञ्चाशल्लिप्तिकाः सार्धाः [52ऽ 30ऽऽ] । उभयोः अपि सूर्याचन्द्रमसोः विपरीतकर्मणा
स्वाभिः स्वाभिः लम्बनलिप्ताभिः स्वयोजनकर्णावभ्यस्य, दृग्गतिज्यया व्यासार्धतुल्यया विभज्य, सूर्याचन्द्रमसोः भूव्यासार्धम् पृथक् पृथक् लभ्यते । तद्द्विगुणम् भूव्यासः । अतः सुष्ठु उक्तम् आचार्येण "ञिला भूव्यासः" इति ।
अर्कः च इन्दुः च अर्केन्दू, तयोः अर्केन्द्वोः, व्यासः इति अनुवर्तमानात्, घ्रिञा चतुश्चत्वारिंशच्छतानि दशोत्तराणि [4490] अर्कस्य व्यांसः । इन्दोः गिण शतत्रयम् पञ्चदशोत्तरम् [315] । सूर्याचन्द्रमसोः योजनव्यासौ एतौ । लिप्ताभिः व्यवहारः इति लिप्ताव्यासः क्रियते ã यदि स्वयोजनक्रणेन व्यासार्धलिप्ताः लभ्यन्ते तदा योजनव्यासैः कियन्तः इति लिप्ताव्यासलब्धिः, मध्यमयोजनकर्णेन मध्यमः, स्फुटेन स्फुटः । क मेरोः । मेरोः एकयोजनम् व्यासः
। एतत् अपि च "मेरुः योजनमात्रः" [गोलपादः, 11] इति अस्याम् कारिकायाम् वक्ष्यामः ।
भृगु-गुरु-बुध-शनि-भौमाः । भृगुः च गुरुः च बुधः च शनिः च भौमः च भृगुगुरुबुधशनिभौमाः । अत्र अपि षष्ट्या निर्देशः युक्तः, भृगुगुरुबुधशनिभौमानाम् व्यासः इति । न एतत् अस्ति । यदा व्यतिरेकः विवक्षितः तदा व्यतिरेकलक्षणा षष्ठी भवति । यदा पुनर् व्यतिरेकन् एव न विव्क्षितः तदा षष्ठी न उत्पद्यते । तत् यथा कश्चित् कञ्चन ब्रवीति "आदित्यस्य बिम्बम् पश" इति । तदाबिम्बव्यतिरेकेण आदित्यः, आदित्यव्यतिरेकण वा बिम्बम्
निर्दिष्टम् भवति । यदा पुनर् अव्यतिरेकविवक्षा तदा यत् एव बिम्बम् स एव आदित्यः ।
न ईक्षेत उद्यन्तम् आदित्यम् न अस्तम् यान्तम् कदाचन
[मनुसृतिः, 4.37]
इति आदि । अत्र अपि अयम् एव । बिम्बाव्यतिरिक्ताः ग्रहाः निर्दिश्यन्ते । शशि-ङ-ञ-ण-न-म-अंशकाः । शशिव्यांसस्य अनन्तरोक्तस्य ङ-ञ-ण-न-मांशकाः, एते भृगु-गुरु-बुध-शनि-भौमाः । शशिव्यासस्य ङांशः भृगुः पञ्चभागः, ञांशः गुरुः दशभागः, णांशः बुधः पञ्चदशभागः, नांशः शनिः विंशतिभागः, मांशः भौमः पञ्चविंशतिभागः । एतानि चन्द्रकक्ष्याप्रमाणपरिमाणानि ग्रहाणाम् व्यासयोजनानि ।
अथ किम् इति स्वकक्ष्याप्रमाणसम्भवानि एव च योजनानि न उच्यन्ते? अयम् आचार्यस्य अभिप्रायः ã यदि ग्रहाणाम् स्वकक्ष्यानिष्पन्नानि व्यासयोजनानि अभिधीयन्ते तदा व्यासलिप्तानयने स्वकक्ष्योत्पन्नाः स्फुटयोजनकर्णाः भागहाराः स्युः, लम्बनदृक्क्षेपलिप्तानयने च । तथा ग्रहाणाम् मनाग् अपि लम्बनदृक्क्षेपलिप्ताः न स्युः । दृश्यन्ते च तेषाम् लम्बननतिविशेषाः । तदर्थम् अत्र भागहाराः प्रदर्श्यन्ते । कथम्? शशि-ङ-ञ-ण-न-म-अंशकाः
इति । शशिव्यासस्य योजनप्रमाणस्य लिप्तानयने शशियोजनकर्णः भागहारः । तेन स भागहारः पञ्चादिभिः गुण्यते । स तावत् छेदः शशिव्यासः शुक्रादिव्यासः भवति ।
शुक्रस्य
315
171885;
गुरोः
315
343770;
बुधस्य
315
515655;
शनेः
315
687540;
भूतनयस्य
315
859425;
उपरिमांशः व्यासार्धेन गुणितः छेदेन विभक्तः लिप्तागतः ग्रहव्यासः भवति मध्यमः । स्फुटार्थम् पुनर् यथा ã स्वभूताराग्रहविवरेण छेदान् संगुणय्य व्यासार्धेन विभजेत्, स्फुटाः भवन्ति । ते एव ग्रहयोगेषु भूव्यासार्धगुणितस्य स्वदृग्गतेः स्वदृक्क्षेपस्य च भागहाराः, फलम् लम्बनावनतिलिप्ताः इति ।
चत्वारि मानानि वक्ष्यन्ते सौर-सावन-नाक्षत्र-चान्द्राणि । तत्र न ज्ञायते केन मानेन शास्त्रे अस्मिन् व्यवहारः कर्तव्यः इति अतः आह ã समार्कसमाः । समाः वर्षम्, समाः अस्मिन् शास्त्रे अर्कसमाः । अर्केण वर्षेण व्यवहर्तव्यम् अस्मिन् । अस्य एव निश्चयावगमनार्थम् वक्ष्यति "षष्ट्या सूर्याब्दानाम्" [कालक्रियापादः, 12] इति आदि । एवम् इदम् षष्ठम् गीतिकासूत्रम्
[ परमापक्रमः ग्रहविक्षेपाः च ]
एते ग्रहाः स्वकक्ष्यासु भ्रमन्तः विषुवते उत्तरेण दक्षिणेन च व्यावर्तमानाः लक्ष्यन्ते । तस्मात् तत्परिज्ञानार्थम् आह ã
भापक्रमः ग्रहांशाः,
शशिविक्षेपः अपमण्डलात् झार्धम् ।
शनि-गुरु-कुज ख-क-ग-अर्धम्,
भृगु-बुध ख, स्चाङ्गुलः घहस्तः ना
भापक्रमः, ग्रहांशाः, शशिविक्षेपः, अपमण्डलात्, झार्धम्, शनि-गुरु-कुज, ख-क-ग-अर्धम्, भृगु-बुध, ख स्चाङ्गुलः, घतस्तः, ना ।
भ चतुर्विंशतिः । भ एव अपक्रमः भापक्रमः । प्राङ्मुख[गमनेन] यद्दक्षिणेन उत्तरेण वा समरेखातः अपगमनम् अपक्रमः । केषाम् अयम् अपक्रमः किमात्मकः वा चतुर्विंशतिः इति आह ã ग्रहांशाः । ग्रहाणाम् आदित्यादीनाम् एते अंशकाः रासेः त्रिंसद्भागाः । समरेखातः उत्तरेण चतुर्विंशतिभागान् ग्रहः अपक्रामति मेषवृषमिथुनेषु क्रमेण, तान् एव अपक्रमभागान् उत्क्रमेण कर्कटकसिंहकन्यासु निवर्तते; दक्षिणेन
तुलावृश्चिकधनुःषु [क्रमेण] तान् एव उत्क्रमेण मकरकुम्भमीनेषु इति ।
अत्र ग्रहग्रहणम् किम् अर्थम् क्रियते? ग्रहाणाम् सर्वेषाम् एव एते अपक्रमांशकाः यथा स्युः इति, अन्यथा हि केषाम् एव स्युः । न एतत् अस्ति । अत्र ग्रहाः प्रक्रान्ताः तेषाम् प्रकृतत्वात् ग्रहाणाम् एव एते अंशकाः न अन्येषाम् । अवश्यम् ग्रहग्रहणम् कर्तव्यम् । अपक्रममण्डलात् विक्षेपांशाः उच्यन्ते । अपक्रममण्डलात् झार्धम् चन्द्रः विक्षिपति तथा शनिगुरुकुजभृगुबुधाः स्वान् भागान् विक्षिपन्ति । यस्मात् चन्द्रादीनाम् अपक्रममण्डलात् विक्षेपभागाः
अभिधीयन्ते अतः चन्द्रादीनाम् एव केवलानाम् अपक्रमभागाः अपि स्युः न आदित्यस्य । ग्रहग्रहणे पुनः क्रियमाणे सर्वेषाम् एव अपक्रमभागाः सिद्ध्यन्ति इति ।
शशिविक्षेपः अपमण्डलात् झार्धम् । शशिनः विक्षेपः शशिविक्षेपः । सः अपमण्डलात् । अप-मण्डलम् अपक्रममण्डलम्, तस्मात् अपक्रममण्डलात्, उत्तरेण दक्षिणेन वा चन्द्रस्य विक्षेपः । विषुवन् मण्डलात् अपक्रमः उत्तरेण दक्षिणेन वा, अपक्रममण्डलम् [च], तस्मात् विक्षेपः उत्तरेण दक्षिणेन वा । झार्धम्, झकारेण नव, झस्य अर्धम् झार्धम्, अर्धोनपञ्चभागाः चन्द्रमसः विक्षेपः । तथा एव अपक्रममण्डलात् एव शेषाणाम्
अपि ग्रहाणाम् विक्षेपाः ।
शनि-गुरु-कुज ख-क-गार्धम् । शनिगुरुकुजानाम् यथासङ्ख्येन, शनेः ख, द्वौ [भागौ] विक्षेपः; गुरोः क, एकः भागः; कुजस्य गार्धम्, गकारेण त्रयः भागाः, गस्य अर्धम् गार्धम्, सार्धः अंशः । भृगु-बुध ख । भृगुबुधयोः ख-सङ्ख्या विक्षेपः द्वौ भागौ । अत्र "भृगुबुधशनीनाम् ख" इति उच्यमाने खकारग्रहणम् एकम् न कर्तव्यम् भवति, तत् किम् इति आचार्येण पृथक् पाठेन द्विः खकारग्रहणम् कृतम्? उच्यते ã पृथक्
पृथक् कर्मप्रदर्शनार्थम्; शनिगुरुकुजानाम् एकम् विक्षेपकर्म भृगुबुधयोः अन्यत्, तस्मात् एतत् कर्मद्वयम् इति पृथक् पृथक् पाठात् एव सिद्ध्यति ।
"नृषि योजनम्" इति अत्र पुरुषः एव केवलः अभिहितः । सः पुरुषः कत्यङ्गुलः, कतिहस्तः वा इति एतत् न उपदिष्टम् । तदर्थम् आह ã स्चाङ्गुलः । सकारेण नवतिः, चकारेण षट्, स्चाङ्गुलः षण्णवत्यङ्गुलः । अङ्गुलस्य प्रमाणम् गणितपरिभाषातः प्रतिपत्तव्यम् ã अष्टौ यवमध्यान्यङ्गुलप्रमाणम् इति आदि । घहस्तः चतुर्हस्तः । ना पुरुषः । ननु च "नृषियोजनम्" इति अत्र एव एतत् वक्तुम् युक्तम् । एवम् मन्यन्ते । यथा इष्टग्रहयोगेषु अन्तरम्
विक्षेपलिप्ताः लभ्यन्ते । अङ्गुलानि हस्तान् च कृत्वा ग्रहयोः अन्तरम् अवधार्यम् इति । एवम् अपि विज्ञायते एव कियतीभिः लिप्ताभिः अङ्गुलम् भवति इति । अत्र स्वधिया प्रतिदिनग्रहचारगणितनिपुणतया अभ्यूह्यम् । उद्देशतः तु स्वधिया उपलक्षितम् उच्यते ã
योगे पादाङ्गुलम् लिप्ता यथा वा लक्ष्यते दृशा ।
[महाभास्करीयम्, 6.55]
इति । एवम् इदम् सप्तमम् गीतिकासूत्रम्
[ ग्रहोच्चपातस्थानानि ]
चन्द्रपातात् प्रवृत्तस्य चन्द्रमसोः विक्षेपः साध्यते । अनिर्दिष्टत्वात् पातस्य, ग्रहाणाम् पुनः कस्मात् प्रभृति विक्षेपाः साध्यन्ते एव इति एतत् न ज्ञायते । अतः तेशाम् पातभागानाम् मन्दोच्चभागानाम् च प्रतिपादनाय आह ã
बुध-भृगु-कुज-गुरु-शनि न-व-
रा-ष-ह गत्वा अंशकान् प्रथमपाताः ।
सवितुः अमीषाम् च तथा
द्वा-ञखि-सा-ह्दा-ह्ल्य-खिच्य मन्दोच्चम्
बुध-भृगु-कुज-गुरु-शनि अविभक्तिकः निर्देशः, न-व-रा-ष-ह अयम् अपि अविभक्तिकः, गत्वा, अंशकान्, प्रथमपाताः, सवितुः, अमीषाम्, च, तथा, द्वा ञखि सा ह्दा ह्ल्य खिच्य एतानि अपि द्वादीनि अविभक्तिकानि, मन्दोच्चम् ।
बुध-भृगु-कुज-गुरु[-शनि] अविभक्तिकम् एतत् ग्रहणकवाक्यम् । सूत्राणाम् सोपसंस्कारत्वात् संस्कारम् अपेक्षते । कः अस्य संस्कारः? प्रक्रान्तद्योतिकया विभक्त्या संयोगः, बुध-भृगु-कुज-गुरु-शनीनाम् इति । एतेषाम् बुधादीनाम् "ना"दयः अंशाः । यथासङ्ख्येन बुधस्य न विंशतिः, भृगोः व षष्टिः, कुजस्य रा चत्वारिंशत्, गुरोः ष अशीतिः, शनेः ह शतम् । एतान् अंशकान् गत्वा, एतेषाम् बुध-भृगु-कुज-गुरु-शनीनाम् प्रथमपाताः व्यवस्थिताः
इति । प्रथमपातग्रहणम् द्वितीयपातनिराकरणार्थम् । यदि प्रथमपातग्रहणन् न क्रियते तदा सामान्येन द्वयोः अपि पातयोः ग्रहणम् स्यात् । तथा च विक्षेपादिग्रहणे निश्चयः न स्यात्, यस्मात् प्रथमपातात् उत्तरेण ग्रहाणाम् विक्षेपः भवति, द्वितीयात् पातात् दक्षिणेन । उक्तम् च ã
प्रथमात् पातात् शशिनः अपमण्डलस्य उत्तरेण विक्षेपः ।
विक्षेपः दक्षिणतः पुनर् अपि पातात् द्वितीयात् च ॥
इति । एते एव पाताः षड्राशियुताः द्वितीयपाताः भवन्ति । अत्र "गत्वा अंशकान् प्रथमपाताः" इति उच्यते । यदि ग्रहपाताः चलन्ति तदा एवम् युक्तम् वक्तुम् ã एतान् अंशकान् गत्वा प्रथमपाताः व्यवस्थिताः इति । बाढम् चलन्ति एते ग्रहपाताः, अन्यथा हि अयम् निर्देशः एव न घ्हटते "गत्वा अंशकान्" इति । यदि एतेषाम् ग्रहपातानाम् [गतिः तर्हि] चन्द्रपातवत् युगभगणनिर्देशः किम् इति आचार्येण न क्रियते ? अन्यत् च, यदि एतेषाम् गतिः स्यात् ग्रहविक्षेपाः न स्फुटाः
भवेयुः । अत्यन्तसूक्ष्मा एषाम् गतिः, महता कालेन कियती उपचीयते, ततः स्तोकत्वात् अन्तरस्य विक्षेपाः स्फुटाः एव लक्ष्यन्ते । आचार्येण गतिमत्वम् पातानात् निर्देशता तेषाम् गतिः अपि निर्दिष्टा एव "यस्मात् इङ्गितेन, चेष्टितेन, निमिषितेन, महता वा सूत्रप्रबन्धेन च, आचार्याणाम् अभिप्रायः गम्यते" । तस्मात् अनेन एव सूत्रबन्धेन ग्रहपातानाम् गतिमत्वम् उपदिषता तेषाम् युगभगणान् मुक्तकात् एव निर्दिष्टवान्, अन्यथा हि तेषाम् गतिमत्वनिर्देशः अनर्थकः
स्यात् । सम्प्रदायाविच्छेदात् स्मरन्ति वृद्धाः तत् युगभगणम् । तत् यथा ã
वस्वब्धियमाश्विखबाणाद्रीषुहुताशनः युगाब्दगणः ।
पातानाम् शतगुणितः मुक्तककथितम् किल आर्येण ॥
एकत्रिद्विचतुरिषून् क्रमशः भगणान् प्रयान्ति सर्वेषाम् ।
कल्पादेः गतकालात् गणनीयम् अतः गतिः तेषाम् ॥
तदानयनम् इदानीम् ã कल्पादेः अब्दनिरोधात् अयम् अब्दराशिः इति ईरितः खाग्न्यद्रिरामार्करसवसुरन्ध्रेन्दवः । ते च अङ्कैः अपि 1986123730 । अस्मिन् बुधादिपातभगणगुणिते स्वयुगविभक्ते भगणादयः पातभोगाः लभ्यन्ते । पातयुगप्रमाणम् सर्वेषाम् एव "खाकाशाष्टकृतद्विद्विव्योमेष्वद्रीषुवह्नयः" अङ्कैः अपि 35750224800 । एतैः युगवर्षैः बुधस्य पातः भगणम् एकम् भुङ्क्ते, शुक्रस्य त्रीणि, कुजस्य द्वौ, गुरोः चत्वारः, शनिपातः
पञ्च । एतेषाम् यथास्वम् लब्धाः पातभागाः यथापठिताः, एतत् एव गुरुशनैः चरयोः एका तत्परा [च] लभ्यते ।
अयम् अपरः प्रकारः ã बुध-भृगु-कुज-गुरु-शनि । प्रथमाबहुवचनसंस्कृतम् इदम् ग्रहणकवाक्यम् व्याख्यायते बुध-भृगु-कुज-गुरु-शनयः । न-व-रा-ष-ह इति एतान् अंशकान् मेषादिपरमाणोः प्रभृति गत्वा प्रथमपातेषु व्यवस्थिताः इति अर्थः । अत्र "तात्स्थ्यात् ताच्छाब्द्यम्", यथा "मञ्चाः क्रोशन्ति", मञ्चस्थेषु क्रोशत्सु मञ्चाः क्रोशन्ति इति उच्यते । एवम् अत्र अपि प्रथमपातव्यवस्थितान् एव ग्रहान् प्रथमपातः इति उक्तवान् । तदा तावन्तः
एव भागाः, न एते चलन्ति । यदि अपि कैश्चित् एषाम् गतिः उच्यते तथा अपि अस्माकम् नादरः, येन अतिमहता अपि कालेन मनाग् अपि अन्तरम् न भवति, यतः कलियुगान्ते शनैः चरपातस्य तिस्रः लिप्ताः, न किञ्चित् अन्तरम् । कलियुगे च परिसमाप्ते सर्वम् एव जगत् प्रलीयते, प्रलीने च जगति पुनर् अन्या सृष्टिः जायते, तत्र न जानीमः किम् भविष्यति इति । अथ च अन्तरे ने किञ्चित् अन्तरम्, न कश्चित् विशेषः । यत् अपि उक्तम् आचार्येण तत् शास्त्रभावप्रक्रियासम्प्रदायाविच्छेदप्रदर्शनार्थम्
। अन्यथा हि अनन्तत्वात् कालस्य गतिः एषाम् अल्पा अपि उपचीयमाना महती सञ्जायते । सा च अन्यथा न प्रतिपत्तुम् शक्यते इति पातयुगभगणनिर्देशः ।
सवितुः अमीषाम् च । सवितुः आदित्यस्य, अमीषाम् च ग्रहाणाम् बुधभृगुकुजगुरुशनीनाम् मन्दोच्चभागाः, केन एव प्रकारेण सवितुः द्वा अष्टसप्ततिभागाः, बुधस्य ञखि शतद्वयम् दशोत्तरम्, भृगोः सा नवतिः, कुजस्य ह्दा शतम् अष्टादशोत्तरम्, गुरोः ह्ल्य साशीतिकम् शतम्, शनेः खिच्य शतद्वयम् षट्त्रिंशदुत्तरम् मन्दोच्चम् । एते भागाः एषाम् ग्रहाणाम् पृथक् पृथक् मन्दोच्चम् । मन्दोच्चानाम् बहुत्वात् मन्दोच्चानि इति भवितव्यम् । न
एतत् अस्ति । सामान्योपक्रमः अत्र कृतः, यथा ã "रक्षोहागमलघ्वसन्देहाः प्रयोजनम्" [अष्टाध्यायी, 1.1.1., पातञ्जलभाष्यम्] इति, एवम् अत्र अपि "द्वा ञखि सा ह्दा ह्ल्य खिच्य मन्दोच्चम्" ।
अत्र शीघ्रोच्चम् मन्दोच्चम् इति । यस्य शीघ्रा गतिः तत् शीघ्रोच्चम्, यस्य पुनर् गतिः एव न अस्ति तत् मन्दोच्चम् इति । कथम्? उच्यते । लोके ã "शीघ्रः देवदत्तः" यः हि क्षिप्रतरम् गच्छति स शीघ्रः, "मन्दः यज्ञदत्तः" इति यः हि मन्दतरम् गच्छति स मन्दः । एवम् अत्र अपि यस्य अतिशीघ्रगतिः ग्रहगतेः तत् शीघ्रोच्चम् । यस्य पुनर् ग्रहगतेः अल्पीयसी गतिः [तत् मन्दोच्चम्] । एवम् ग्रहाणाम् अपि युक्तम् एव एतत् ।
अथ किम् इति मन्दोच्चगतिः न अभिहिता? उच्यते ã सूक्ष्मत्वात् आचार्यस्य न अत्र आदरः, महता अपि कालेन न किञ्चित् एव अन्तरम् भवति । अपि च मुक्तकेन एव आचार्येण अभिहितम् इति सम्प्रदायाविच्छेदात् अवधार्यते । अथवा गत्वा अंशकान् सवित्रादीनाम् मन्दोच्चानि व्यवस्थितानि इति व्याख्यायते । अन्यथा हि "तथा"-शब्दः सार्थकः न स्यात् । यथा बुधादीनाम् प्रथमपाताः "ना"दीन् अंशकान् गत्वा व्यवस्थिताः, एवम् एतेषाम् सवित्रादीनाम् मन्दोच्चानि
"द्वा"दीन् अंशकान् गत्वा व्यवस्थितानि इति । तेषाम् च मन्दोच्चानाम् अत्यन्तसूक्ष्मत्वात् वर्षगणेन एव आचार्येण यत् आख्यातम् तत् एव अव्यवच्छिन्नसम्प्रदायप्रतिपत्त्या अभिधीयते । तत् यथा ã
अष्टिकृताद्र्यष्टिनवाजैः उच्चयुगम् तिग्मदीधितेः उक्तम् ।
दशघनगुणितैः अब्दैः विश्वान् भुङ्क्ते क्रमात् भगणान् ॥
दन्ताष्टाब्ध्यग्निगुणाष्टरामयमलाः युगम् भवति अब्धाः ।
शतगुणिताः शशिजस्य प्राहुः भगणान् च सप्त एव ॥
व्योमाम्बरवेदकृतच्छिद्राब्धिकृताब्धिनन्दशैलाब्दाः ।
शुक्रस्य अर्धम् सूरेः भगणः भोगः तयोः एकः ॥
व्योमाम्बरशून्यकृताश्विरुद्रशरशैलवसुमुनीन्दुसमाः ।
असितोच्चयुगम् कौजम् द्विगुणन् भग[णा]नवेषवस्तु तयोः ॥
कल्पादिकालगणिता मन्दोच्चानाम् भवन्ति या गतयः ।
"गत्वा"शब्दात् एतत् व्याख्याता भास्करेण अत्र ॥
तत् यथा ã मन्दोच्चानयनम् प्रत्येतेषाम् कल्पादेः अब्दनिरोधात् गतकालः खाग्न्यद्रिरामार्करसवसुरन्ध्रेन्दवः, ते च 1986123730 । एतेषु वर्षेषु यथास्वम् मन्दोच्चभगणगुणितेषु स्वयुगाब्दविभक्तेषु रव्यादीनाम् मन्दोच्चानाम् राशिभागादयः लभ्यन्ते । एतेषाम् अपि कलियुगान्ते अपि अल्पम् अन्तरम्, यतः च शनैः चरस्य अपि सप्तमात्रा लिप्ता मन्दोच्चस्य उपचयः, न कश्चित् फलविशेषः । यथा अपि तु शास्त्रसम्प्रदायाविच्छित्तिकथने ग्रहपातेषु उक्तम्
तत् अत्र अपि अवधारणीयम् इति । एवम् इदम् अष्टमम् गीतिकासूत्रम्
[ ओजपदयोः मन्दशीघ्रपरिधयः ]
मन्दशीघ्रोच्चपरिधिप्रमाणप्रतिपादनाय आह ã
झार्धानि मन्दवृत्तम्
शशिनः छ, ग-छ-घ-ढ-छ-झ यथा उक्तेभ्यः ।
झा-ग्ड-ग्ला-र्ध-द्ड तथा
शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः
झार्धानि, मन्दवृत्तम्, शशिनः, छ ग छ घ ढ छ झ एते छादयः अविभक्तिकनिर्देशाः, यथा उक्तेभ्यः, झा-ग्ड-ग्ला-र्ध-द्ड अविभक्तिकः निर्देशः, तथा शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ।
झार्धानि । झस्य अर्धानि झार्धानि । वक्ष्यमाणानि मन्दशीघ्रोच्चवृत्तानि झार्धप्रमाणानि प्रतिपत्तव्यानि । मन्दवृत्तम् इति एकवचननिर्देशः । "प्रत्येकम् वाक्यपरिसमाप्तिः" [अष्टाध्यायी, 1.1.1, पातञ्जलभाष्यम्] इति अनेन न्यायेन मन्दवृत्तम् शशिनः छ, सप्त झार्धानि, सार्धैकत्रिंशत् भागाः; यथा उक्तेभ्यः मन्दोच्चभागविधानक्रमेण सवितृ-बुध-भृगु-कुज-गुरु-शनयः परिगृह्यन्ते । सवितुः ग, त्रीणि झार्धानि, सार्धत्रयोदशभागाः
। बुधस्य छ, सप्त झार्धानि, सार्धैकत्रिंशद्भागाः । भृगोः घ, चत्वारि झार्धानि, अष्टादशभागाः । कुजस्य ढ, चतुर्दश झार्धानि, त्रिषष्टिभागाः । गुरोः छ, सप्त झार्धानि, सार्धैकत्रिंशद्भागाः । शनेः झ, नव झार्धानि, सार्धचत्वारिंशद्भागाः । यथा उक्तेभ्यः यथा उक्तम् यथोक्तम्, तेभ्यः यथा उक्तेभ्यः । सवित्रादीनाम् च मन्दोच्चेभ्यः । ननु च अत्र सम्बन्धलक्षणया षष्ठ्या भवितव्यम्, यथा उक्तानाम् इति । न एतत् अस्ति । यथा उक्तेभ्यः
इति अनया पञ्चम्या मन्दोच्चविशुद्धेभ्यः राशिभ्यः मन्दोच्चात् अधिकेभ्यः राशिभ्यः वा राश्यादिभ्यः ज्याविभागेन एते परिधयः गुणकाराः । यथा उक्तेभ्यः इति अनेन एव वचनेन मन्दोच्चम् ग्रहमध्यात् पात्यते, परिशिष्टस्य ज्यासङ्कलनाय त्रैराशिकम् क्रियते । परिधिसंस्कारकरणम् च त्रैराशिकप्रसिद्ध्यर्थम् । यद्य् अस्य षष्टिशतत्रयपरिधेः इयम् ज्या ततः अभीष्टग्रहपरिधेः का ज्या लभ्यते । सा एव ज्या भुजाफलम् कोटिफलम् च इति अभिधीयते
। तत्र झार्धेन अपवर्त्य षष्टिशतत्रयपरिधिम् यथा उक्ताः च ग्रहपरिधयः झार्धापवर्तिताः । तेन गुणकारभागहारयोः झार्धापवर्तितयोः कर्मणि क्रियमाणे इष्टज्यायाः अशीतिः भागहारः यथोक्ताक्षरसङ्ख्यापरिधयः गुणकाराः ।
शीघ्रोच्चपरिधयः ã झा, नव झार्धानि, चत्वारिंशत् सार्धाः भागाः शनेः । ग्ड, षोडश झार्धानि, द्वासप्ततिभागाः गुरोः । ग्ला, त्रिपञ्चाशत् झार्धानि, शतद्वयम् अष्टत्रिंशदुत्तरम् सार्धम् भागानाम् कुजस्य । र्ध, एकोनषष्टिः झार्धानि, पञ्चषष्त्यधिकशतद्वयम् सार्धम् भागानाम् भृगोः । द्ड एकत्रिंशत् झार्धानि, एकोनचत्वारिंशदुत्तरम् शतम् सार्धम् भागानाम् बुधस्य । शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ।
शनि-गुरु-कुज-भृगु-बुधानाम् उच्चशीघ्राः तेभ्यः शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ।
शीघ्रोच्चेभ्यः इति वक्तव्ये उच्चशीघ्रेभ्यः इति विपरीतनिर्देशम् कुर्वन् आचार्यः ज्ञापयति ã शीघ्रोच्चात् ग्रहः शोध्यते इति । तस्मात् शुद्धशेषात् ज्या उत्पाद्यन्ते । ताभिः त्रैराशिकम् पूर्ववत् । पूर्वम् आचार्येण मन्दक्रमेण ग्रहाः निर्दिष्टाः । शशी सर्वेभ्यः शीघ्रः लक्ष्यते, तस्मात् मन्दः सविता, ततः मन्दः बुधः, तथा उत्तरम् भृगु-कुज-गुरु-शनयः । अयम् पुनर् शीघ्रक्रमः, शनि-गुरु-कुज-भृगु-बुधाः इति । एते शन्यादयः यथा उत्तरम्
शीघ्राः । एवम् इदम् नवमम् गीतिकासूत्रम्
[ युग्मपदयोः मन्दशीघ्रपरिधयः ]
एतेभ्यः एव मन्दशीघ्रेभ्यः द्वितीयचतुर्थपदपरिधिप्रमाणपरिज्ञानाय आह ã
मन्दात् ङ-ख-द-ज-डा
वक्रिणाम् द्वितीये पदे चतुर्थे च ।
जा-ण-क्ल-छ्ल-झ्न उच्चात्
शीघ्रात्, गियिङ्श कुवायुकक्ष्या अन्त्या
मन्दात्, ङ ख द ज डा इति एतानि अविभक्तिकानि, वक्रिणाम्, द्वितीये, पदे, चतुर्थे, च, जा ण क्ल छ्ल झ्न एतानि अविभक्तिकानि, उच्चात्, शीघ्रात्, गियिङ्श अविभक्तिकः, कुवायुकक्ष्या, अन्त्या ।
मन्दात् । तथा एव मन्दोच्चविशुद्धात् राश्यादिकात् उत्पन्नायाः ज्यायाः एते परिधिसंज्ञिताः गुणकाराः । तथा एव झार्धप्रमाणपरिमिताः ã बुधस्य ङ, पञ्च झार्धानि, द्वाविंशतिस्सार्धभागाः, भृगोः ख, द्वे झार्धे, नव भागाः । कुजस्य द, अष्टादश झार्धानि, एकाशीतिभागाः । गुरोः ज, अष्टौ झार्धानि, षट्त्रिंशद्भागाः । शनेः डा, त्रयोदश झार्धानि, अष्टपञ्चाशत् सार्धभागाः ।
वक्रिणाम् द्वितीये पदे चतुर्थे च । वक्रम् येषाम् ते वक्रिणः । वक्रिणः इति अनेन शशिसवित्रोः अग्रहणम्, येन तयोः वक्रा गतिः न अस्ति । वक्रिणः च बुध-भृगु-कुज-गुरु-शनयः । तेषाम् एते परिधयः । द्वितीये पदे चतुर्थे च । ये पूर्वाभिहिताः परिधयः ते उत्सर्गेण चतुर्षु पदेषु प्राप्ताः । तेषाम् द्वितीयचतुर्थयोः पदयोः एते परिधयः अपवादेन अभिधीयन्ते । द्वितीयचतुर्थपादव्यतिरेकेण पूर्वोक्तपरिधीनाम् विषयः । चकारः द्वितीयेषु
च चतुर्थेषु च इति एतत् अर्थम् समुच्चिनोति ।
अथवा ã वक्रिणाम् द्वितीये पदे । एते बुधादयः ग्रहाः द्वितीये पदे वक्रिणः भवन्ति । वक्राम् गतिम् चरन्ति इति अर्थः । ननु च मन्दग्रहणानन्तरम् द्वितीये पदे वक्रिणः इति उच्यन्ते, तेन मन्दोच्चस्य द्वितीयपदे वक्रपरिज्ञानम् प्राप्नोति, तत् च न इष्यते । न एतत् अस्ति । वक्रिणः द्वितीये पदे बुधादयः इति सामान्येन उच्यते । "सामान्यचोदनाः च विशेषे अवतिष्ठन्ते " इति विशेषे अवस्थाप्यते । कः च विशेषः ? शीघ्रोच्चद्वितीयपदे एतेषाम् बुधादीनाम्
वक्रपरिज्ञानम् इति अयम् विशेषः । उक्तम् च ã
मन्दोच्चात् अनुलोमम् प्रतिलोमम् च एव शीघ्रोच्चात् ।
[गोलí, 17]
इति । चतुर्हे च । एते परिधयः द्वितीये चतुर्थे च पदे गुणकाराः । द्वितीये एव पदे वक्रपरिज्ञानम् अन्यत्र अपि ã
प्रथमे दृश्यविधानम् द्वितीयपदगाः तु वक्रगाः सर्वे ।
अनुवक्रगाः तृतीये पदे चतुर्थे अस्तम् उपयान्ति ॥ इति ।
जा ण क्ल छ्ल झ्न । शीघ्रोच्चात् द्वितीयचतुर्थयोः पदयोः परिधयः । शनेः जा, अष्टौ झार्धानि, षट्त्रिंशद्भागाः । गुरोः ण, पञ्चदश झार्धानि, सप्तषष्टिः सार्धभागाः । कुजस्य क्ल, एकपञ्चाशत् झार्धानि, अर्धोनकम् त्रिंशदुत्तरम् शतद्वयम् भागानाम् । भृगोः छ्ल, सप्तपञ्चाशज्झार्धानि, सार्धम् षट्पञ्चाशदुत्तरम् शतद्वयम् भागानाम् । बुधस्य झ्न, एकोनविंशज्झार्धानि त्रिंशदुत्तरम् शतम् सार्धम् भागानाम् ।
उच्चात् शीघ्रात् । अत्र अपि शीघ्रोच्चात् इति वक्तव्ये उच्चात् शीघ्रात् इति विपरीतग्रहणम् कुर्वन्नाच्चार्यः ज्ञापयति ã शीघ्रोच्चात् ग्रहः शोध्यते इति । पदचतुष्टयग्रहणात् च कर्मचतुष्टयम् ã प्रथमम् मन्दोच्चकर्म, तदनन्तरम् शीघ्रकर्म, पुनर् मन्दकर्म, तदनन्तरम् शीघ्रकर्म । ततः ग्रहस्फुटः लभ्यते । रविचन्द्रयोः एकपरिधिनिर्देशात् एकम् एव कर्म ।
अथ कश्चित् ज्यारहितम् कर्म कर्तुम् इच्छति, तदर्थम् आह ã गियिङ्श कुवायुकक्ष्यान्त्या । त्रयस्त्रिंशच्छतानि पञ्चसप्तत्यधिकानि [3375] कुवायुकक्ष्याप्रमाणम् । कुः भूः, कुवायुः भूसम्बन्धी वायुः, तस्य इयम् अन्त्या कक्ष्या । एतावतः वायुकक्ष्यापरिच्छिन्नाकाशप्रदेशात् परतः नियतः वायुः येन नियतगतिना प्रवहेण ज्योतिश्चक्रम् इदम् भ्राम्यते । कुवायुकक्ष्याप्रमाणपरिच्छिन्नात् आकाशप्रदेशात् आरादनियताः वायवः इतः ततः परिभ्रमन्ति
।
कुवायुकक्ष्यायाः ग्रहकर्म ã ये अभीष्टाः भागाः तान् चक्रार्धभागेभ्यः विशोध्य शेषम् तैः एव अभीष्टभागैः गुणितम् प्रतिराश्य एकम् कुवायुकक्ष्यायाः द्वादशगुणितायाः शोध्यते, ततः शेषस्य यः चतुर्थोंशः स भागहारः । यत् प्रतिराशितम् तत् अन्त्यफलेन गुणितम् भागहारेण विभजेत् । लब्धम् अभीष्टफलम् । उक्तम् च अस्माभिः कर्मनिबन्धे ã
मख्यादिरहितम् कर्म कथ्यते तत्समासतः ।
चक्रार्धांशकससूहात् विशोध्याः ये भुजांशकाः ॥
तच्छेशगुणिताः द्विष्ठाः शोध्याः खखेषुखाब्धितः ।
शेषस्य चतुर्थांशेन द्विष्ठम् अन्त्यफलाहतम् ॥
बाहुकोट्योः फलम् कृत्स्नम् क्रमोत्क्रमगुणस्य वा ।
[ महाभास्करीयम्, 7.17-19 ]
इति दशमम् गीतिकासूत्रम्
[ चतुर्विंशतिज्यार्धानि ]
अत्र अशेषग्रहकर्म, तत् च ज्याप्रतिबन्धम् इति अतः ज्यादर्शनार्थम् आह ã
मखि भखि फखि धखि णखि ञखि
ङखि हस्झ स्ककि किष्ग श्घकि किघ्व ।
घ्लकि किग्र हक्य धकि किच
स्ग झश ङ्व क्ल प्त फ छ कलार्धज्याः
"मखि"आदयः निगदेन एव व्याख्याताः । कलार्धज्याः । कलाः च ताः अर्धज्याः च कलार्धज्याः । एताः ज्याः लिप्ताप्रमाणपरिमिताः । अर्धज्याभिः यतः शास्त्रव्यवहारः तेन अर्धज्या एव उक्ता
[ दशगीतिकासूत्रपरिज्ञानफलम् ]
दशगीतिकासूत्रपरिज्ञानफलप्रदर्शनाय आह ã
दशगीतिकसूत्रम् इदम्
भूग्रहचरितम् भपञ्जरे ज्ञात्वा ।
ग्रहभगणपरिभ्रमणम्
स याति भित्त्वा परम् ब्रह्म
अत्र परिभाषागीतिकाः दशगीतिकाः गृह्यन्ते । एतत् दशगीतिकसूत्रम् भूग्रहचरितम् । भुवि लोके । ग्रहाणाम् चरितनिबन्धनत्वात् एतत् एव दशगीतिकसूत्रम् ग्रहचरितम्, ग्रहचरितहेतुत्वात् वा यथासुखम् कृतम् इति । भुवि ग्रहचरितम् भूग्रहचरितम् । न अन्यलोके ग्रहचरितनिबन्धनम् अस्ति यतः दशगीतिकसूत्रम् तेन उच्यते भूग्रहचरितम् । भपञ्जरे ज्ञात्वा । भपञ्जरः गोलः, तस्मिन् गोले तत् ग्रहचरितम् ज्ञात्वा, अवगम्य, ग्रहाणाम् स्फुटगतेः प्रतिपत्तिहेतुः
यतः गोलः, एतत् ग्रहाणाम् भानाम् च परिभ्रमणमार्गम् भित्त्वा परम् ब्रह्म याति । यः गोले समग्रम् दशगीतिकसूत्रप्रतिबद्धम् ग्रहचरितम् जानाति स परम् ब्रह्म याति इति
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0