आर्यभटीय (टीका सहित) · अध्याय 2
अस्याः पदविभागः: ã प्रणिपत्य, एकम्, अनेकम्, कम्, सत्याम्, देवताम्, परम्, ब्रह्म, आर्यभटः, त्रीणि, गदति, गणितम्, कालक्रियाम्, गोलम् ।
अत्र प्रणिपत्य इति "प्र"-शब्दः प्रकर्षवाची, प्रकर्षेण निपत्य प्रणिपत्य, प्रणामम् कृत्वा इति अर्थः । क्त्वाप्रत्ययेन पूर्वकालक्रिया अभिधीयते, यथा स्नात्वा भुङ्क्ते इति । स्नानक्रिया अनन्तरम् भोजनक्रिया । एवम् अत्र अपि प्रणिपतनानन्तरम् गणितम्, कालक्रियाम्, गोलम् च गदति । एकम्, अभेदरूपेण व्यवस्थितम्, निर्विकारम् । अनेकम्, न एकम् अनेकम्, भेदरूपेण व्यवस्थितम् । कम्, कः इति प्रजापतेः आख्यानम् । कम् प्रणिपत्य एवंगुणविशिष्टम्
।
अथ यदि असौ प्रजापतिः एकः कथम् असौ अनेकः? यदि असौ अनेकः कथम् एकः? एकानेकयोः परस्परविरुद्धयोः युगपत् एकत्र अवस्थानम् न सम्भवति, यथा अत्यन्तविरुद्धयोः च्छाया आतपयोः उष्णशीतयोः वा इति । अत्र उच्यते ã यथा वृक्षः एकवस्तुरूपेण [तिष्ठति], असौ एव यदा मूल-स्कन्ध-शाखा-प्ररोहादिप्रपञ्चेन विकल्प्यते तदा अनेकः । एवम् असौ अपि परमात्मा निर्विकारः निरञ्जनः एकः एव, असौ एव [यदा] अनेकप्राणिशरीरे व्यवस्थितः
विकल्प्यते [तदा] अनेकः । आह च ã
एकः एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा च एव दृश्यते जलचन्द्रवत् ॥
[अमृतबिन्दूपनिषत्, श्लोí 12]
इति । अथवा असौ एकः एव आसीत्, ततः स्वयम् अर्धेन पुरुषः अभवत् अर्धेन नारी इति । ततः सर्वान् प्राणिनः असृजत् इति । अथवा असौ भगवान् प्रजापतिः विश्वरूपः । तस्मात् तस्य विश्वरूपत्वात् एकानेकत्वम् एकस्मिन् युगपत् सम्भवति इति अयम् अदोषः ।
सत्याम् देवताम् । देवः एव देवता, सत्या च देवता च । स एव कः सत्यत्वेन देवतात्वेन च विशिष्यते । कम् सत्याम् देवताम् प्रणिपत्य । न केवलम् सत्यत्वेन देवतात्वेन च विशेषितः । केन च तर्हि इति आह ã परम् ब्रह्म । परम् च तत् ब्रह्म परम् ब्रह्म । परम् श्रूयते पुलस्त्य-पुलह-क्रत्वादिकम् । एवम् असौ भगवान् कः, सत्या देवता, परम् ब्रह्म च । कम्, सत्याम् देवताम्, परम् ब्रह्म च प्रणिपत्य ।
अथ कथम् कः शब्दः पुल्लिङ्गः, सत्या देवता स्त्रीलिङ्गः, परम् ब्रह्म नपुंसकलिङ्गः? तैः भिन्नलिङ्गैः एकम् वस्तु अभिधीयते । ननु च अत्र सर्वैः एव शब्दैः एकलिङ्गैः भवितव्यम्? न इति आह । एते शब्दाः आविष्टलिङ्गाः । तैः आविष्टलिङ्गैः शब्दैः एकम् एव वस्तु अभिभीयते । यथा ã "कारणम् इयम् ब्राह्मणी, भूतम् इयम् ब्राह्मणी, आवपनम् इयम् उष्ट्रिका" इति [अष्टाध्यायी अí 4, पादः 1, सूत्रम् 3, पातञ्जलमहाभाष्यम्, आक्षेपवार्तिकः
5117]
अथवा ब्रह्मणोः द्वयोः अप्य् आचार्येण प्रणिपातः कृतः, शब्दब्रह्मणः परब्रह्मणः च । तयोः उपवर्णना इयम् क्रियते ã प्रणिपत्य इति । निगदव्याख्यानम् एवम् ã एकम्, परिज्ञानतः तु तत्त्वस्य अभेदरूपत्वात्, यस्मात् सर्वेषु एव ज्ञेयेषु परिज्ञानमात्रसामान्यम् एकम्; अनेकम् ऋग्यजुःसामाथर्वेतिहासपुराणशिक्षाकल्पव्याकरणनिरुक्तछन्दोविचितिज्योतिषम् इति आदिशब्दरूपेण व्यवस्थितत्वात् अनेकम् । कः इति शब्दब्रह्मणः आख्यानम् । कम् एकम् अनेकम्
प्रणिपत्य । सत्याम् देवताम् इति एतत् द्वयोः ब्रह्मणोः शेषः, सत्या देवता शब्दब्रह्म । उक्तम् च ã
ज्ञानान्तरभावि यत् च हि फलम् ज्ञात्वा क्रिया अतः च यत्
सर्वस्य अव्यभिचारिकारणम् इति ज्ञानस्थितौ निश्चयः ।
ज्ञेयम् च अपरिमाणम् अल्पविषयश्रौतादिशास्त्रम् पुनर्
दिव्यम् चक्षुः अतीन्द्रिये अपि विषये व्याहन्यते न क्वचित् ॥
परम् ब्रह्म । "परम्"-शब्दः प्रकर्षवाची । प्रकृष्टम् ब्रह्म परम् ब्रह्म, यत् सर्वैः अपि मुक्तिवादिभिः प्रार्थ्यते, मोक्षदः परमात्मा इति अर्थः । एवम् च द्वयोः ब्रह्मणोः प्रणामः कृतः । अन्यत्र अपि "ब्रह्म"-शब्देन शब्दब्रह्म-परब्रह्मणोः एव ग्रहणम् । तद् यथा ã
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परम् च यत् ।
शब्दब्रह्मणि निष्णातः परम् ब्रह्म अधिगच्छति ॥
[अमृतबिन्दूपनिषद्, श्लोí 7; वायुपुराणम्, अम्शः 6, अí 5, श्लोí 64]
इति ।
अथवा, प्रणिपत्य कम् हिरण्यगर्भम्, एकानेकस्वरूपम्, सर्वप्राणिनाम् महत् नाम । तत्र विशेषः एकम्, तस्य तस्य यतः अधिष्ठातृदेवता हिरण्यगर्भः एकः एव । यदा कारणानाम् अधिष्ठातृदेवताविशेषभेदेन विवक्ष्यते तदा अनेकम् । तत् यथा ã त्रयोदश कारणानि, त्वचः वायुः, चक्षुषः सूर्यः, श्रोत्रस्याः आकाशः, रसनस्याः आपः, घ्राणस्य पृथिवी, एवम् पञ्चानाम् बुद्धीन्द्रियाणाम् अधिष्ठात्र्यः देवताः, वाचः अग्निः, पाणेः इन्द्रः, पादस्य
विष्णुः, पायुनः मित्रः, उपस्थस्य प्रजापतिः, एवम् कर्मेन्द्रियाधिष्ठात्र्यः देवताः, मनसः चन्द्रः, बुद्धेः सविता, अहङ्कारस्य रुद्रः इति । सत्याम् देवताम् अन्तर्यामिनः ईश्वरस्य भगवतः परमात्मनः कारणशक्त्या अधिष्ठिताः सर्वे एव पदार्थाः स्वार्थे प्रवर्तन्ते । अतः ताम् परमात्मनः कारणशक्तिम् सत्याम् देवताम् । अतः एव स्त्रीलिङ्गेन निर्देशः कृतः । परम् ब्रह्म यत् तत् अधिकारी ब्रह्म परमात्मा तम् । एवम् ब्रह्मत्रयम् प्रणिपत्य
। यदि एवम्, चकारः तर्हि कर्तव्यम् । न कर्तव्यम् । अन्तरेण अपि चकारम् च अर्थः गम्यते एव । तत् यथा ã
बाले वृद्धे क्षते क्षीणे क्षीरम् युक्त्या प्रयोजयेत् ।
इति । बाले च वृद्धे च क्षते च क्षीणे च इति गम्यते । एवम् अत्र अपि च अर्थः, कम् च सत्याम् देवताम् च परम् ब्रह्म च इति ।
आर्यभटः आचार्यस्य समाख्यानः । त्रीणि गदति । त्रीणि वस्तूनि गदति इति । ननु अत्र एवम् युक्तम् वक्तुम् ã "आर्यभटः अहम् त्रीणि गदामि" इति, अन्यथा अन्यस्य कस्यचित् एतत् वाक्यम् आभाति । यथा किंचित् कश्चित् पृच्छति ã "राजकुले केन किम् उक्तम् इति आह ã एवम् उक्ते राजनि एवम् देवदत्तो ब्रवीति । यज्ञदत्तः अपि एवम् एव निगदति" इति । तस्मात् तत्र अपि आर्यभटः त्रीणि गदति इति, न तत् आचार्यस्य वचनम् इति । अत्र उच्यते । अयम् आचार्यः महानुभावः स्वयम्
एव ब्रुवन् परत्वम् आपाद्य कथयति, यथा आह कौटिल्यः ã
सुखग्रहणविज्ञेयम् तत्त्वार्थपदनिश्चितम् ।
कौटिल्येन कृतम् शास्त्रम् विमुच्य ग्रन्थविस्तरम् ॥
[अर्थशास्त्रम्, 1.1.19]
इति । अथवा यः तेजस्वी पुरुषः समरेषु निकृष्टासितेजोवितानच्छुरितबाहुः शत्रुसङ्घातम् प्रकाशम् प्रविश्य प्रहरन् एवम् आह ã "अयम् असौ उदितः अदितिकुलप्रसूतः समरेषु अनिवारितवीर्यः यज्ञदत्तः प्रहरति । यदि कस्यचित् शक्तिः प्रतिप्रहरतु" इति । एवम् असौ अपि आचार्यः गणितकालक्रियागोलातिशयज्ञानोदधिपारगः वित्सभाम् अवगाह्य "आर्यभटः त्रीणि गदति गणितम् कालक्रियाम् गोलम्" इति उक्तवान् ।
गणितम् कालक्रियाम् गोलम् । गणितम्, क्षेत्रच्छायाश्रेढीसमकरणकुट्टाकारादिकम् । कालः, प्राणविनाडीनाड्यहोरात्रपक्षमाससंवत्सरयुगादिकम् । तत्परिज्ञानार्थम् क्रिया कालक्रिया । अन्ये पुनः क्रिया अव्यतिरिक्तम् कालम् एतेन अभ्युपगच्छन्ति । तेषाम् अयम् विग्रहः ã कालः च असौ क्रिया च कालक्रिया । एवम् एतौ द्वौ पक्षौ ã केचित् कालम् क्रियाव्यतिरिक्तम् मन्यन्ते, अन्ये क्रिया एव कालः इति । उभयथाः अस्माकम् अदोषः इति, येन अस्मदीये सिद्धान्ते
सूर्योदयात् प्रभृति यावत् अपरः सूर्योदयः तावत् अहोरात्रम्, यः च सूर्याचन्द्रमसोः परः विप्रकर्षः सः अर्धमासः, यः च तयोः परः सन्निकर्षः स मासः; एवम् द्वादशमासाः संवत्सरः इति अयम् कालः, क्रियाव्यतिरिक्तः वा अस्तु क्रिया वा इति । गोलम्, ग्रहभ्रमणधरित्रीसंस्थानदर्शनोपायम् । गदति इति कर्तृवाचकः शब्दः, वाक्यत्वात् । गणितकालक्रियागोलानाम् द्वितीयैकवचने निर्देशः गणितम् कालक्रियाम् गोलम् इति गणितशब्दः नपुंसकलिङ्गम्, कालक्रिया
स्त्रीलिङ्गम्, गोलः पुल्लिङ्गम् । एतेषाम् सामान्योपक्रमेण नपुंसकलिङ्गेन एव आचार्येण अभिधानम् [कृतम्] "त्रीणि गदति" इति ।
अत्र अयम् गणितशब्दः अशेषगणिताभिधायी, तस्मात् अशेषगणिताभिधायित्वात् यथा क्षेत्रगणितम् ब्रवीति, एवम् ग्रहगणितम् अपि; ग्रहगणितस्य च क्षेत्राद्यव्यतिरिक्तत्वात् कालक्रियागोलयोः च गणिताव्यतिरिक्तत्वात् गणितम् निगदति इति एतावत् एव सिद्धे कालक्रियागोलग्रहणम् कुर्वन् आचार्यः ज्ञापयति ã क्षेत्रच्छायाश्रेढीसमकरणकुट्टाकारादिकम् सामान्यगणितम् किंचित् वक्ष्ये, विशेषगणिते पुनः कालक्रियया गोलेन तात्पर्यम् इति । अन्यथा
अशेषगणिताभिधायिगणितशब्देन एव सिद्धत्वात् कालक्रियागोलयोः पृथग्ग्रहणम् अनावश्यकम् स्यात् । तथा च, आचार्येण गणितपादे गणितवस्तु दिङ्मात्रम् एव अभिहितम्, कालक्रियागोलयोः कालक्रियागोल [वस्तु] विशेषेण । अवश्यम् अयम् अर्थः अभ्युपगन्तव्यः ã किंचित् गणितम् इति । अन्यथा हि महत् गणितवस्तु, अष्टौ व्यवहाराः मिश्रक-श्रेढी-क्षेत्र-खात-चिति-क्राकचिक-राशि-च्छायाभिधायिनः । मिश्रकः इति सकलगणितवस्तुसंमिश्रकः संस्पर्शकः इति अर्थः
। श्रेढी इति आद्युत्तरप्रचितः इति अर्थः । क्षेत्रम् इति अनेकाश्रिक्षेत्रफलानि आनयति इति अर्थः । खातः इति खन्यप्रमाणम् निर्दिशति इति अर्थः । चितिः इति इष्टकाप्रमाणेन उपरिनिचितवस्तुप्रमाणम् आवेदयति इति अर्थः । क्राकचिकम् इति, क्रकचः नम दारुच्छेदकम्, तस्मिन् क्रकचे भवः क्राकचिकः, तद्वस्तुप्रमाणम् अवगमयति इति अर्थः । राशिः इति धान्यादिरूपवस्तुनिचितम् तद्वस्तुप्रमाणम् जनयति इति अर्थः । छाया इति शङ्क्वादिच्छायाप्रमाणेन कालम् कथयति
इति अर्थः । इति व्यवहारगणितस्य अष्टाभिधायिनः चत्वारि बीजानि प्रथमद्वितीयतृतीयचतुर्थानि यावत् तावत् वर्गावर्गघनाघनविषमाणि । एतत् एकैकस्य ग्रन्थलक्षणलक्ष्यम् मस्करि-पूरण-मुद्गल-प्रभृतिभिः आचार्यैः निबद्धम् कृतम्, स कथम् अनेन आचार्येण अल्पेन ग्रन्थेन शक्यते वक्तुम् । तत् सुष्ठु उक्तम् अस्माभिः किंचित् गणितम् विशेषतः कालगोलौ इति । एवम् इयम् आर्या व्याख्याता
[ संख्याविन्यासे परिभाषा ]
युगभगणादिसङ्ख्यासंक्षेपम् विवक्षुः आचार्यः [परि]भाषासूत्रप्रदर्शनाय गीतिकासूत्रम् आह ã
वर्गाक्षराणि वर्गे अवर्गे अवर्गाक्षराणि कात् ङ्मौ यः ।
खद्विनवके स्वराः नव वर्गे अवर्गे नवान्ति अवर्गे वा
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0