आर्यभटीय (टीका सहित) · अध्याय 27
उत्तरम् च आदिः च उत्तरादी । एकम् उत्तरादी यस्याः सैकोत्तरादिः । एकोत्तरादिः च असौ उपचितिः च एकोत्तराद्युपचितिः । उपचितिः श्रेढी एकोत्तरादित्वेन विशेष्यते । स एव एकोत्तराद्युपचितिः सङ्कलना इति उच्यते । तस्याः एकोत्तराद्युपचितेः सङ्कलनासंज्ञितायाः गच्छात् प्रभृति एकोत्तरत्रिसंवर्गः एकोत्तराणाम् त्रयाणाम् गच्छादेः सम्वर्गः । तत् यथा ã गच्छः, स एकोत्तरम्, पुनर् अपि एकोत्तरम् । त्रयाणाम् गच्छादेः संवर्गः । तत् यथा ã गच्छः, स एकोत्तरम्,
पुनर् अपि एकोत्तरम् । एतत् उक्तम् भवति ã गच्छः, स एव एकोत्तरः, स एव गच्छः द्व्युत्तरः, तेषाम् त्रयाणाम् संवर्गः, षड्भक्तः षड्भिः विभाजितः, स चितिघनः चितेः घनः चितिघनः सङ्कलनासङ्कलना इति अर्थः । अथ अन्यः करणोपायः ã सैकपदघनः, सैकम् च तत्पदम् च सैकपदम्, सैकपदस्य घनः सैकपदघनः, विगतः मूलेन विमूलः षड्भक्तः इति अनुवर्तते । वा सैकस्य पदस्य घनगणितम् वा स्वमूलविरहितम् षड्भिः भक्तम् चितिघनः
भवति ।
उद्देशकः ã
पञ्चानाम् अष्टानाम् चतुर्दशानाम् च याः क्रमात् चितयः ।
गच्छः तराः त्रिकोणा [ रूपविधानम् च ] मे वाच्यम्
न्यासः ã
परिलेखः 55
यथाक्रमेण गच्छाः 5, 8, 14 ।
करणम् ã गच्छः पञ्च 5 । अयम् एकोत्तरः 6 । पुनर् अयम् एकोत्तरः 7 । एतेषाम् त्रयाणाम् संवर्गः 210 । अयम् षड्भक्तः सङ्कलनासङ्कलना भवति 35 ।
द्वितीयोपायकरणम् ã सैकपदम् 6, अस्य घनः 216, अयम् विमूलः इति षड्भिः एव रहितः 210, पूर्ववत् षड्भक्तः सङ्कलनासङ्कलना भवति 35 ।
शेषयोः अपि लब्धम् यथाक्रमेण 120, 560
[ वर्गचितिघनः घनचितिघनः च ]
वर्गघनसङ्कलनानयनाय आह ã
सैकसगच्छपदानाम् क्रमात् त्रिसम्वर्गतस्य षष्ठः अंशः ।
वर्गचितिघनः स भवेत् चितवर्गः घनचितिघनः च
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0