भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 26

26.1

गच्छः इति अनेन [प]दधनम् परिगृह्यते । अष्टोत्तरगुणितात् अष्टाभिः उत्तरेण च गुणितम् अष्टोत्तरगुणितम् । तस्मात् अष्टोत्तरगुणितात् । द्विगुणाद्युत्तरविशेषवर्गयुतात्, द्विगुणः च असौ आदिः च द्विगुणादिः, द्विगुणादेः उत्तरस्य च विशेषः द्विगुणाद्युत्तरविशेषः, द्विगुणाद्युत्तरविशेषस्य वर्गः द्विगुणाद्युत्तरविशेषवर्गः, द्विगुणाद्युत्तरविशेषवर्गेण युतम् द्विगुणाद्युत्तरविशेषवर्गयुतम्, तस्मात् द्विगुणाद्युत्तरविशेषवर्गयुतात् गच्छधनात्
[सर्वधनात्] अष्टोत्तरगुणितात् मूलम्, द्विगुणाद्यूनम् द्विगुणः च असौ आदिः च द्विगुणादिः, तेन द्विगुणादिना ऊनम् द्विगुणाद्यूनम्, स्वोत्तरेण भजितम् स्वोत्तरभजितम्, सह रूपेण वर्तते इति सरूपम्, अर्धम् दलितम्, गच्छः भवति ।
उद्देशकः ã
आदिः पञ्च प्रोक्तः सप्ताख्यम् च उत्तरम् भवेत् श्रेढ्या ।
पञ्चोनशतम् द्रव्यम् गच्छः वाच्यः कियान् तस्य

26.2

न्यासः ã
आदिः 5, उत्तरम् 7, सर्वधनम् 95 ।
करणम् ã गच्छधनात् अष्टोत्तरगुणितात् इति गच्छधनम् अष्टाभिः उत्तरेण च गुणितम् जातम् 5320 । द्विगुणः आदिः 10, एतत् उत्तरविशेषितम् 3, एतस्य वर्गः 9, अनेन युक्तम् जातम् 5329, एतस्मात् मूलम् 73, द्विगुणाद्यूनम् 63, स्वोत्तरेण अनेन 7 भजितम् 9, सरूपम् 10, अर्धम् गच्छः 5 ।
उद्देशकः ã
नवकाष्टौ वृद्धिमुखे यत्र यत् कीर्त्यते धनम् क्रमशः ।
रामाष्टशरम् दृष्टम् पदप्रमाणम् त्वया वाच्यम्

26.20

न्यासः ã
आदिः 8, उत्तरम् 9, गच्छधनम् 583 । पूर्ववत् लब्धम् पदप्रमाणम् 11

26.20

[ चितिघनज्ञानम् ]
सङ्कलनासङ्कलनानयनाय आह ã
एकोत्तराद्युपचितेः गच्छाद्येकोत्तरत्रिसंवर्गः ।
षड्भक्तः स चितिघनः सैकपदघनः विमूलः वा

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc