भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 28

28.1

सह एकेन वर्तते इति सैकः । सह गच्छेन वर्तते इति सगच्छः । अनन्तरप्रकृतः सैकसगच्छः । पदम् गच्छः तत्र सैकम् च [सैक] सगच्छम् च पदम् च सैकसगच्छपदानि । तेषाम् सैकसगच्छपदानाम् क्रमात् आनुपूर्व्यात् । त्रयाणाम् संवर्गितम् त्रिसंवर्गितम् । केषाम् त्रयाणाम् ? प्रकृतानाम् सैकसगच्छपदानम् । षष्ठः अंशः । तस्य त्रिसंवर्गितस्य षष्ठः अंशः षष्ठः भागः । वर्गचितिघनः स भवेत् । वर्गस्य चितिः वर्गचितिः वर्गचितेः
घनः वर्गचितिघनः । वर्गसङ्कलना इति अर्थः । चितिवर्गः घनचितिघनः च । चितेः वर्गः सङ्कलनावर्गः इति यावत् । स एव चितिवर्गः घनचितिघनः भवति ।
उद्देशकः ã
सप्तानाम् अष्टानाम् सप्तदशानाम् चतुर्भुजाः चितयः ।
एकविधानम् वाच्यम् पदः तराः ताः हि वर्गाख्याः

28.2

न्यासः ã
परिलेखः 56
करणम् ã पदम् 7, सैकम् 8, एतत् एव सगच्छम् 15 । एतेषाम् त्रयाणाम् संवर्गः 840, षड्भक्तः वर्गचितिघनप्रमाणम् 140 । शेषयोः अपि यथाक्रमेण लब्धम् 204, 1785 ।
घनचितौ उद्देशकः ã
चतुरश्रघनाः चितयः पञ्चचतुर्नवस्तराः विनिर्देश्याः ।
एकावघटिताः ताः समचतुरश्रेष्टकाः क्रमशः

28.22

न्यासः ã
परिलेखः 57
परिलेखः 58
करणम् ã चितिसङ्कलना । सा च "अथवा आद्यन्तम् पदार्धहतम्" [ गणित í, 29 ] इति अनेन आनीयते । अत्र आदिः एकः 1, अन्त्यधनम् पञ्च 5, एकत्र षट् 6, पदार्धेन पञ्चानाम् अर्धेन हतम् सङ्कलनाचितिः पञ्चानाम् जाता 15, अस्य वर्गः घनचितिघनः भवति । स च 225 । शेषयोः अपि यथाक्रमेण लब्धम् 100, 2025

28.23

[ प्रकारान्तरेण राशिद्वयसंवर्गज्ञानम् ]
द्वयोः रास्योः संवर्गानयन उपायान्तरम् आह ã
सम्पर्कस्य हि वर्गात् विशोधयेत् एव वर्गसम्पर्कम् ।
यत् तस्य भवति अर्धम् विद्यात् गुणकारसंवर्गम्

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc