भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 25

25.1

इष्टम्, ईप्सितम् । विगतम् एकेन व्येकम् । दलितम्, अर्धितम् । सपूर्वम्, इष्टात् पदात् यानि प्रागवस्थितानि [ पदानि ] तानि पूर्वशब्देन उच्यन्ते, सह पूर्वेण वर्तते इति सपूर्वम् । उत्तरः गुणः यस्य तदुत्तरगुणम् । समुखम्, मुखमादिः, सह मुखेन वर्तते इति समुखम् । मध्यधनम् भवति । इष्टगुणितम्, इष्टेन गुणितम् इष्टगुणितम् । इष्टधनम्, इष्टस्य गच्छस्य धनम् भवति ।
अत्र बहूनि सूत्राणि मुक्तकव्यवस्थितानि, तेषाम् यथासंयोगम् सम्बन्धः । "इष्टम् व्येकम् दलितम् उत्तरगुणम् समुखम्" इति मध्यधनानयनार्थम् सूत्रम् । "मध्यम् इष्टगुणितम् इष्टधनम्" इति गच्छधनानयनार्थम् । "इष्टम् व्येकम् सपूर्वम् उत्तरगुणम् समुखम्" इति अन्त्योपान्त्यादिधनानयनार्थम् । "इष्टम् व्येकम् दलितम् सपूर्वम् उत्तरगुणम् समुखम् इष्टगुणितम् इष्टधनम्" इति अवान्तरयथेष्टपदसङ्ख्यानयनार्थम् । एवम्
एतानि पादोनया आर्यया प्रतिबद्धानि । तानि यथाक्रमेण उद्देशकेषु एव प्रतिपादयिष्यामः ।
उद्देशकः ã
आदिः द्वितयम् दृष्टम् श्रेढ्याः प्रवदन्ति च उत्तरम् त्रीणि ।
गच्छः पञ्च निरुक्तः मध्याशेषे धने ब्रूहि

25.2

न्यासः ã आदिः 2, उत्तरम् 3, गच्छः 5 ।
करणम् ã इष्टम् गच्छः 5, व्येकम् 4, दलितम् 2, उत्तरगुणम् 6, समुखम् 8, एतत् मध्यधनम् । एतत् एव इष्टगच्छेन गुणितम् सर्वधनम् जातम् 40 ।
उद्देशकः ã
अष्टावादिः यस्याः पञ्च प्रवदन्ति च उत्तरम् श्रेढ्याः ।
गच्छः अष्टादश दृष्टः मध्याशेषे धने वाच्ये

25.3

न्यासः ã आदिः 8, उत्तरम् 5, गच्छः 18 ।
पूर्ववत् लब्धम् मध्यधनम्
50
1
2,
सर्वधनम् 909 ।
अन्त्योपान्त्यादिधनानयने उद्देशकः ã
एकादशोत्तरायाः सप्तादेः पञ्चविंशतिः गच्छः ।
तत्र अन्त्योपान्त्यधने वद शीघ्रम् विंशतेः च कियत्

25.4

न्यासः ã आदिः 7, उत्तरम् 11, गच्छः 25 ।
करणम् ã इष्टम् पञ्चविंशतिः 25, पूरणम् पदम् एकम् इति एकम् रूपम् 1, एतत् एव व्येकम् शून्यम् 0, एतत् एव सपूर्वम् इति शून्येन क्षिप्ता चतुर्विंशतिः 24, उत्तरगुणम् 264, समुखम् 271, एतत् अन्त्यधनम् । उपान्त्यधनानयने अत्र पूर्वाणि पदानि त्रयोविंशतिः 23 । एतैः पूर्वकरणेन उपान्त्यधनम् लब्धम् 260 । विंशतेः तु पूर्वपदानि एकोनविंशतिः । एतैः पूर्ववत् विंशतितमस्य पदस्य धनम् 216 ।
अवान्तरे यथेष्टपदसङ्ख्याधनानयने उद्देशकः ã
द्व्यादित्र्युत्तरसङ्ख्यम् दिने दिने कार्तिके क्रमात् मासे ।
प्रददाति महीपालः पञ्चदशाहे गते विप्रः ॥
ब्रह्मिष्ठः सम्प्राप्तः तस्मै दत्ता दशाहधनसङ्ख्या ।
पञ्चदिनोत्था अन्यस्मै कथय धनम् किम् तयोः तत्र

25.5

न्यासः ã आदिः 2, उत्तरम् 3, गच्छः 30। अत्र पञ्चदशाहे गते ब्रह्मिष्ठः आगतः तस्मै षोडशाहात् प्रभृति यत् उपचितम् दशाहधनम् तत् दत्तम् इति दश 10 इष्टम्, व्येकम् इति जातम् 9, दलितम् इति
4
1
2,
एतत् सपूर्वम् इति
19
1
2
उत्तरगुणितम् इति
58
1
2,
समुखम् इति
60
1
2,
इष्टगुणितम् इष्टधनम् इति दशगुणितम् जातम् 605 । द्वितीयस्य अपि 415 ।
उद्देशकः ã
पञ्चदशादिः यस्मिन् उत्तरम् अष्टादश उच्यते गच्छः ।
त्रिंशत् मध्यदशानाम् धनसङ्ख्याम् गण्यताम् शीघ्रम्

25.6

न्यासः ã
[ आदिः ] 15, उत्तरम् 18, गच्छः 30, दशसु व्यतिरिक्तेषु च शेषेषु मध्यस्थितानि पदानि 10 । लब्धम् पूर्वकरणेन 2760 ।
सर्वधनानयने उपायान्तरम् पुनर् अपि आर्यापादेन आह ã
तु अथवा आद्यन्तम् पदार्धहतम् ।
अथवा अयम् अपरः प्रकारः । आदिः च अन्तः च आद्यन्तम् । आदिशब्देन आदिधनम् परिगृह्यते, अन्तशब्देन अन्त्यधनम् । तत् आद्यन्तम् । पदम् गच्छः, तस्य अर्धम् पदार्धम्, पदार्धेन हतम् पदार्धहतम् । तत् आद्यन्तम् पदार्धगुणितम् इष्टधनम् इति अनुवर्तनात् इष्टधनम् भवति ।
उद्देशकः ã
पञ्चभिः आद्यः शङ्खः पञ्चोनशतेन यः भवेत् अन्त्यम् ।
एकादशशङ्खानाम् यत् तत् मूल्यम् त्वम् आचक्ष्व

25.7

न्यासः ã
आदिशङ्खमूल्यम् 5, अन्त्यस्य 95, शङ्खाः 11 ।
करणम् ã आद्यन्तधने 100, पदार्धम्
5
1
2
अनेन गुणितम् सर्वशङ्खमूल्यम् 550 ।
उद्देशकः ã
आदिधनम् एकम् उक्तम् हि अन्त्यधनम् प्रोच्यते शतम् सद्भिः ।
पदम् अपि तावत् प्रोक्तम् सर्वधनम् तत् कियत् दृष्टम्

25.19

न्यासः ã
आदिधनम् 1, अन्त्यधनम् 100, गच्छः अपि एतत् एव 100 । सर्वधनम् पूर्ववत् 5050

25.20

[ गच्छज्ञानम् ]
गच्छानयनार्थम् आह ã
गच्छः अष्टोत्तरगुणितात् द्विगुणाद्युत्तरविशेषवर्गयुतात् ।
मूलम् द्विगुणाद्यूनम् स्वोत्तरभजितम् सरूपार्धम्

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc