भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 24

24.1

ग्रासेन ऊने ग्रासोने । के ? द्वे वृत्ते, ग्राह्यग्राहकमण्डलद्वयम् । ग्रासगुणे, ग्रासः गुणः ययोः ते ग्रासगुणे । भाजयेत् पृथक्त्वेन, एकैकम् । केन ? ग्रासोनयोगलब्धौ । ग्रासोनयोः योगः ग्रासोनयोगः, तयोः एव वृत्तयोः ग्रासविवर्जितयोः समासः ; तेन ग्रासोनयोगेन लब्धौ ग्रासोनयोगलब्धौ । सम्पाते शरौ सम्पातशरौ, अवग्राहशरौ इति यावत् । परस्परतः, अन्योन्यतः । यस्मात् महाविष्कम्भस्य अल्पः शरः महत्वात् मण्डलस्य, अल्पव्यासस्य
महान् शरः । यस्मात् अल्पस्य मण्डलस्य अल्पः अपि अवयवः अतिवक्रः उपलभ्यते, न तथा महतः । तस्मात् तौ संपातशरौ परस्परतः भवतः ।
उद्देशकः ã
अशीतिविष्कम्भतमोमयेन द्वात्रिंशत् इन्दोः स्थगिता यदा अष्टौ ।
ज्ञातुम् तत् इच्छामि शरौ कियन्तौ राहोः अथ इन्दोः परिपूर्णमूलैः

24.18

न्यासः ã
परिलेखः 54
करणम् ã ग्रासोने द्वे वृत्ते 72, 24 । ग्रासगुणे 576, 192 । ग्रासोनयोगः 96 । अनेन लब्धौ शरौ चन्द्रमसः 6, राहोः 2, परस्परतः इति

24.19

[ श्रेढीगणितम् ]
अथ इदानीम् श्रेढीगणितानयनाय आह ã
इष्टम् व्येकम् दलितम् सपूर्वम् उत्तरगुणम् समुखम् मध्यम् ।
इष्टगुणितम् इष्तधनम् तु अथवा आद्यन्तम् पदार्धहतम्

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc