आर्यभटीय (टीका सहित) · अध्याय 20
शङ्कुः गुणः यस्य तत् शङ्कुगुणम् । किम् तत् इति आह ã शङ्कुभुजाविवरम् । भुजाशब्देन प्रदीपोच्छ्रायः उच्यते, प्रदीपोच्छ्रायस्य शङ्कोः च यत् अन्तरालम् तत् शङ्कुभुजाविवरम्, तत् शङ्कुगुणम् । शङ्कुभुजयोः विशेषहृतम् शङ्कोः प्रदीपोच्छ्रायस्य यः विशेषः स शङ्कुभुजयोः विशेषः, तेन हृतम् भक्तम् । यत् लब्धम् सा छाया शङ्कोः तस्य एव स्वमूलात् तस्य एव शङ्कोः मूलात् सा छाया लभ्यते ।
उद्देशकः ã
यष्टिप्रदीपमूलात् द्वासप्तत्युच्छ्रितात् अशीत्याम् च ।
त्रिंशत्काद्विंशत्याम् स्थितस्य शङ्कोः वद च्छाये
न्यासः ã
परिलेखः 37
शङ्कुभुजाविवरम् 80, एतत् शङ्कुगुणम् 960; भुजा 72, शङ्कुः 12, एतयोः विशेषः 60, अनेन हृतम् शङ्कुगुणम् शङ्कुभुजाविवरम्, लब्धा छाया 16 ।
द्वितीयोद्देशकन्यासः ã
परिलेखः 38
पूर्वकरणेन एव लब्धा छाया
13
5
3 ।
एतत् कर्म त्रैराशिकम् । कथम् ? शङ्कुतः अधिकायाः उपरिभुजायाः यदि शङ्कुभुजान्तरालप्रमाणम् छाया लभ्यते तदा शङ्कुना का इति छाया लभ्यते ।
विपरीतकर्मणा उद्देशकः ã
छाया षोडश दृष्टा द्वासप्तत्युच्छ्रितस्य दीपस्य ।
मूलम् कियता शङ्कोः द्वादशकस्य त्वया वाच्यम्
न्यासः ã
परिलेखः 39
करणम् ã शङ्कुभुजान्तरेण अनेन 60 छाया लब्धा, तेन "भागहराः ते भवन्ति गुणकाराः" [गणितí, 28 ] इति छाया 16, गुणिता जाता 960; एतत् एव "शङ्कुगुणम् शङ्कुभुजाविवरम्" अत्र अपि शङ्कुः गुणकारः आसीत् इति "गुणकारा भागहरा" [ गणित í, 28 ] इति शङ्कुना 12 हृतम् शङ्कुभुजाविवरम् लब्धम् । तत् च 80 ।
उद्देशकः ã
यष्टिप्रदीपमूलात् पञ्चाशद्विवरसंस्थितः शङ्कुः ।
तस्य च्छाया पङ्क्तिः वाच्यः तस्मिन् कियान् दीपः
न्यासः ã
परिलेखः 40
करणम् ã "शङ्कुगुणा कोटी सा छायाभक्ता भुजा भवति" [गणितí, 16 ] इति वक्ष्यमाणकरणेन शङ्कुभुजाविवरयुक्तच्छाया कोटिः भवति इति । शङ्कुभुजाविवरम् 50, छाया 10, एकत्र 60, एतत् शङ्कुगुणम् 720, छायाभक्तम् भुजाप्रमाणम् 72
[ शङ्कुच्छायाद्वयेन दीपोच्छ्रायापसारज्ञानम् ]
अनिर्ज्ञातदीपोच्छ्रायावसानयोः शङ्कुच्छायाद्वयेन आनयनम् आह ã
छायागुणितम् छायाग्रविवरम् ऊनेन भाजितम् कोटी ।
शङ्कुगुणा कोटी साज्छायाभक्ता भुजा भवति
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0