भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 1

1.1

आर्यभटकृतम्
आर्यभटीयम्
भास्कर-विरचित-भाष्योपेतम्
गीतिकापादः
[ मङ्गलाचरणम् ]
यस्मात् अशेषजगताम् प्रभवम् स्थितिम् च
संहारम् अपि उपदिशन्ति समग्रधीकाः ।
भृग्वङ्गिरःप्रभृतयः विदितान्तरायाः
तस्मै नमः कमलजाय चतुर्मुखाय ।
अथ अशेषजगदनुग्रहाय आचार्यार्यभटमुखारविन्दविनिस्सृत-दशगीतिका-सूत्रव्याख्यानम् आरभ्यते । तस्य एव अशेषविघ्ननिराकरणाय सर्वविद्याप्रभवस्य भगवतः कमलयोनेः प्रणामप्रक्रान्तशास्त्रवस्तुपरिग्रहाय आर्याम् आदौ प्रयुक्तवान् ã
प्रणिपत्य एकम् अनेकम् कम् सत्याम् देवताम् परम् ब्रह्म ।
आर्यभटः त्रीणि गदति गणितम् कालक्रियाम् गोलम्

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc