भाषा

ENहिગુ
ग्रंथ पाठ

आर्यभटीय (टीका सहित) · अध्याय 11

11.1

न घनः अघनः, तस्मात् अघनात् । [भजेत्] भागम् हरेत्, भागम् गृह्णीयात् इति अर्थः । अघनस्थानस्य अनेकत्वात् आह ã द्वितीयात् । अत्र गणिते घनः एकः, द्वौ अघनौ । कुतः एतत् घनः एकः द्वौ अघनौ इति उच्यते ã "वर्गः त्रिपूर्वगुणितः शोध्यः प्रथमात् अघनात्" इति प्रथमाघनसिद्धिः, "अघनात् भजेत् द्वितीयात्" इति द्वितीयाघनसिद्धिः । घनः पुनर् एकः एव, द्वितीयस्य अश्रवणात् । अघनात् द्वितीयात् प्रभृति केन भागम् हरेत् इति आह ã त्रिगुणेन
घनस्य मूलवर्गेण । त्रयः गुणाः अस्य त्रिगुणः । कः ? घनस्य मूलवर्गः । तेन त्रिगुणेन घनस्य मूलवर्गेण । वर्गः त्रिपूर्वगुणितः सोध्यः प्रथमात् । वर्गः त्रिभिः पूर्वेण च राशिना गुणितः त्रिपूर्वगुणितः । कस्य वर्गः ? लब्धस्य इति वाक्यशेषः । शोध्यः । शोधयितव्यः । प्रथमात् अघनात् इति सम्बन्धनीयम् । घनः च घनात् । घनः च शोधयितव्यः । कुतः ? घनात् । घनस्थानात् । ततः घनमूलम् भवति इति अध्याहार्यम् । अत्र इदम् एव
घनराशिम् दृष्ट्वा घनः एकः द्वौ अघनौ इति विगणय्य यत्र घनः तस्मात् घनमूलम् पूर्वम् एव कुर्यात्, घनः च घनात् शोध्यः इति अनेन । ततः सर्वम् इदम् आर्यासूत्रम् उपस्थितम् भवति, "अघनात् भजेत् द्वितीयात्" इत्यादि ।
उद्देशकः ã
एकादीनाम् मूलम् घनराशीनाम् पृथक् तु मे ब्रूहि ।
वस्वश्विमुनीन्दूनाम् घनमूलम् गण्यताम् आशु

11.2

न्यासः ã 1, 8, 27, 64, 125, 216, 343, 512, 729, 9728.
लब्धम् घनमूलम् यथासङ्ख्येन 1, 2, 3, 4, 5, 6, 7, 8, 9, 12.
उद्देशकः ã
कृतयमवसुरन्ध्ररसाब्धिरूपरन्ध्राश्विनागसङ्ख्यस्य ।
मूलम् घनस्य सम्यक् वद भटशास्त्रानुसारेण

11.3

न्यासः ã 8291469824 । लब्धम् घनमूलम् 2024 ।
एवम् एव भिन्नघनमूलानयने अपि उद्देशकः ã
मूलम् त्रयोदशानाम् पञ्चघनांशैः त्रिशून्यरूपाख्यैः ।
अधिकानाम् भिन्नाख्यम् विगण्यताम् सङ्ख्यया सम्यक्

11.5

न्यासः ã
13
103
125 ।
लब्धम् घनमूलम्
2
2
5

मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc