आर्यभटीय (टीका सहित) · अध्याय 10
भागः हृतिः भजनम् अपवर्तनम् इति पर्यायाः । तम् भागम्, हरेत् गृह्णीयात् । कस्मात् स्थानात् प्रभृति इति आह ã अवर्गात्, न वर्गः अवर्गः, तस्मात् अवर्गात् । अत्र गणिते विषमम् स्थानम् वर्गः । तस्य एव नञा विषमत्वे प्रतिषिद्धे अवर्गः इति समम् स्थानम्, यतः हि विषमम् समम् च स्थानम् । केन भागम् हरेत् इति आह ã नित्यम् द्विगुणेन वर्गमूलेन । द्वौ गुणः यस्य तत् द्विगुणम् । किम् तत् ? वर्गमूलम् । तेन द्विगुणेन वर्गमूलेन । कथम्
पुनर् तत् वर्गमूलम् लभ्यते इति आह ã वर्गात् वर्गे शुद्धे लब्धम् स्थानान्तरे मूलम् । वर्गात् विषमस्थानात्, शुद्धे वर्गे वर्गगणिते इति अर्थः, यत् अत्र लब्धम् तत् स्थानान्तरे मूलसंज्ञम् भवति । स्थानात् अन्यस्थानम् स्थानान्तरम्, तस्मिन् स्थानान्तरे तस्य लब्धस्य मूलसंज्ञा । यत्र पुनः स्थानान्तरम् एव न विद्यते, तत्र तस्य तत्र एव मूलसंज्ञा । कुतः ? स्थानान्तरस्य असम्भवात् । एतत् एव सूत्रम् पुनर् पुनर् आवर्तये यावत् परिसमाप्तम् गणितकर्म
इति ।
उद्देशकः ã
एकादीनाम् मूलम् वर्गाणाम् पूर्वदृष्टसङ्ख्यानाम् ।
इच्छामि सखे ज्ञातुम् शरयमरसवर्गराशेः च
न्यासः ã 1, 4, 9, 16, 25, 36, 49, 64, 81, 625 ।
पृथक् पृथक् यथासङ्ख्येन वर्गमूलानि लब्धानि ã 1, 2, 3, 4, 5, 6, 7, 8, 9, 25 ।
भिन्नमूलानयने उद्देशकः ã
षण्णाम् सचतुर्थानाम् त्रयोदशानाम् [स]चतुर्नवांशानाम् ।
विगणय्य वर्गमूले वद भटसङ्ख्यानुसारेण
न्यासः ã 6 13
1 4
4 9
करणम् ã छेदोपरिराश्योः अभ्यासम् कृत्वा अंशम् प्रक्षिपेत् । जातम्
25 । 121
4 । 9 ।
एतयोः अंशच्छेदराश्योः पृथक् पृथक् मूले
5 । 11
2 । 3 ।
छेदराशिमूलेन अंशराशिमूलस्य भागलब्धम् भिन्नवर्गमूलम्
2
1
2 ,
त्रयोदशानाम् सचतुर्नवांशानाम् च भिन्नवर्गमूलम्
3
2
3
[ घनमूलम् ]
घनमूलानयनाय आह ã
अघनात् भजेत् द्वितीयात्
त्रिगुणेन घनस्य मूलवर्गेण ।
वर्गः त्रिपूर्वगुणितः
शोध्यः प्रथमात् घनः च घनात्
मूल पाठ: Āryabhaṭīya with the Commentary of Bhāskara I and Someśvara · Edition: Critical edition with Introduction and Appendices by Kripa Shankar Shukla. New Delhi: Indian National Science Academy, 1976. · Data entry Danielle Feller · GRETIL (Göttingen) · CC BY-NC-SA 4.0