अर्थशास्त्र · अध्याय 12.3
राज्ञो राज.वल्लभानां च^आसन्नाः सत्त्रिणः पत्त्य्.अश्व.रथ.द्विप.मुख्यानां "राजा क्रुद्धः" इति सुहृद्.विश्वासेन मित्र.स्थानीयेषु कथयेयुः ॥
बहुली.भूते तीक्ष्णाः कृत.रात्रि.चार.प्रतीकारा गृहेषु "स्वामि.वचनेन^आगम्यताम्" इति ब्रूयुः ॥
तान्निर्गच्छत एव^अभिहन्युः, "स्वामि.संदेशः" इति च^आसन्नान् ब्रूयुः ॥
ये च^अप्रवासितास् तान् सत्त्रिणो ब्रूयुः "एतत् तद् यद् अस्माभिः कथितम्, जीवितु.कामेन^अपक्रान्तव्यम्" इति ॥
येभ्यश् च राजा याचितो न ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "अयाच्यम् अर्थम् असौ च^असौ च मा याचते, मया प्रत्याख्याताः शत्रु.संहिताः, तेषाम् उद्धरणे प्रयतस्व" इति ॥
ततः पूर्ववद् आचरेत् ॥
येभ्यश् च राजा याचितो ददाति तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "अयाच्यम् अर्थम् असौ च^असौ च मा याचते, तेभ्यो मया सो^अर्थो विश्वास.अर्थं दत्तः, शत्रु.संहिताः, तेषाम् उद्धरणे प्रयतस्व" इति ॥
ततः पूर्ववद् आचरेत् ॥
ये च^एनं याच्यम् अर्थं न याचन्ते तान् सत्त्रिणो ब्रूयुः - "उक्तः शून्य.पालो राज्ञा "याच्यम् अर्थम् असौ च^असौ च मा न याचते, किम् अन्यत् स्व.दोष.शङ्कितत्वात्, तेषाम् उद्धरणे प्रयतस्व" इति ॥
ततः पूर्ववद् आचरेत् ॥
एतेन सर्वः कृत्य.पक्षो व्याख्यातः ॥
प्रत्यासन्नो वा राजानं सत्त्री ग्राहयेत् "असौ च^असौ च ते महा.मात्रः शत्रु.पुरुषैः सम्भाषते" इति ॥
प्रतिपन्ने दूष्यान् अस्य शासन.हरान् दर्शयेत् "एतत् तत्" इति ॥
सेना.मुख्य.प्रकृति.पुरुषान् वा भूम्या हिरण्येन वा लोभयित्वा स्वेषु विक्रमयेद् अपवाहयेद् वा ॥
यो^अस्य पुत्रः समीपे दुर्गे वा प्रतिवसति तं सत्त्रिणा^उपजापयेत् "आत्म.सम्पन्नतरस् त्वं पुत्रः, तथा^अप्य् अन्तर्.हितः, तत्.किम् उपेक्षसे विक्रम्य गृहाण, पुरा त्वा युव.राजो विनाशयति" इति ॥
तत्.कुलीनम् अपरुद्धं वा हिरण्येन प्रतिलोभ्य ब्रूयात् "अन्तर्.बलं प्रत्यन्त.स्कन्धम् अन्तं वा^अस्य प्रमृद्नीहि" इति ॥
आटविकान् अर्थ.मानाभ्याम् उपगृह्य राज्यम् अस्य घातयेत् ॥
पार्ष्णि.ग्राहं वा^अस्य ब्रूयात् "एष खलु राजा माम् उच्छिद्य त्वाम् उच्छेत्स्यति, पार्ष्णिम् अस्य गृहाण, त्वयि निवृत्तस्य^अहं पार्ष्णिं ग्रहीष्यामि" इति ॥
मित्राणि वा^अस्य ब्रूयात् "अहं वः सेतुः, मयि विभिन्ने सर्वान् एष वो राजा प्लावयिष्यति, सम्भूय वा^अस्य यात्रां विहनाम" इति ॥
तत्.संहतानाम् असंहतानां च प्रेषयेत् "एष खलु राजा माम् उत्पाट्य भवत्सु कर्म करिष्यति, बुध्यध्वम्, अहं वः श्रेयान् अभ्युपपत्तुम्" इति ॥
कz12.3.21अब्। मध्यमस्य प्रहिणुयाद् उदासीनस्य वा पुनः ।
कz12.3.21च्द्। यथा^आसन्नस्य मोक्ष.अर्थं सर्व.स्वेन तद्.अर्पणम् ॥ए
(शस्त्र.अग्नि.रस.प्रणिधयह् - वीवधा.सार.प्र्रसार.वधह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0