अर्थशास्त्र · अध्याय 12.2
स चेत् संधौ न^अवतिष्ठेत, ब्रूयाद् एनं - "इमे शत्रु.षड्.वर्ग.वशगा राजानो विनष्टाः, तेषाम् अनात्मवतां न^अर्हसि मार्गम् अनुगन्तुम् ॥
धर्मम् अर्थं च^अवेक्षस्व ॥
मित्र.मुखा ह्य् अमित्रास् ते ये त्वा साहसम् अधर्मम् अर्थ.अतिक्रमं च ग्राहयन्ति ॥
शूरैस् त्यक्त.आत्मभिः सह योद्धुं साहसम्, जन.क्षयम् उभयतः कर्तुम् अधर्मः, दृष्टम् अर्थं मित्रम् अदुष्टं च त्यक्तुम् अर्थ.अतिक्रमः ॥
मित्रवांश् च स राजा, भूयश् च^एतेन^अर्थेन मित्राण्य् उद्योजयिष्यति यानि त्वा सर्वतो^अभियास्यन्ति ॥
न च मध्यम.उदासीनयोर् मण्डलस्य वा परित्यक्तः, भवांस् तु परित्यक्तः यत्त्वा समुद्युक्तम् उपप्रेक्षन्ते "भूयः क्षय.व्ययाभ्यां युज्यताम्, मित्राच् च भिद्यताम्, अथ^एनं परित्यक्त.मूलं सुखेन^उच्छेत्स्यामः" इति ॥
स भवान् न^अर्हति मित्र.मुखानाम् अमित्राणां श्रोतुम्, मित्राण्य् उद्वेजयितुम् अमित्रांश् च श्रेयसा योक्तुम्, प्राण.संशयम् अनर्थं च^उपगन्तुम्" इति यच्छेत् ॥
तथा^अपि प्रतिष्ठमानस्य प्रकृति.कोपम् अस्य कारयेद् यथा संघ.वृत्ते व्याख्यातं योग.वामने च ॥
तीक्ष्ण.रसद.प्रयोगं च ॥
यद् उक्तम् आत्म.रक्षितके रक्ष्यं तत्र तीक्ष्णान् रसदांश् च प्रयुञ्जीत ॥
बन्धकी.पोषकाः परम.रूप.यौवनाभिः स्त्रीभिः सेना.मुख्यान् उन्मादयेयुः ॥
बहूनाम् एकस्यां द्वयोर् वा मुख्ययोः कामे जाते तीक्ष्णाः कलहान् उत्पादयेयुः ॥
कलहे पराजित.पक्षं परत्र.अपगमने यात्रा.साहाय्य.दाने वा भर्तुर् योजयेयुः ॥
काम.वशान् वा सिद्ध.व्यञ्जनाः सांवदनिकीभिर् ओषधीभिर् अतिसंधानाय मुख्येषु रसं दापयेयुः ॥
वैदेहक.व्यञ्जने वा राज.महिष्याः सुभगायाः प्रेष्याम् आसन्नां काम.निमित्तम् अर्थेन^अभिवृष्य परित्यजेत् ॥
तस्य^एव परिचारक.व्यञ्जन.उपदिष्टः सिद्ध.व्यञ्जनः सांवदनिकीम् ओषधीं दद्यात् "वैदेहक.शरीरे^अवघातव्या" इति ॥
सिद्धे सुभगाया अप्य् एनं योगम् उपदिशेत् "राज.शरीरे^अवधातव्या" इति ॥
ततो रसेन^अतिसंदध्यात् ॥
कार्तान्तिक.व्यञ्जनो वा महा.मात्रं "राज.लक्षण.सम्पन्नम्" क्रम.अभिनीतं ब्रूयात् ॥
भार्याम् अस्य भिक्षुकी "राज.पत्नी राज.प्रसविनी वा भविष्यसि" इति ॥
भार्या.व्यञ्जना वा महा.मात्रं ब्रूयात् "राजा किल माम् अवरोधयिष्यति, तव^अन्तिकाय पत्त्र.लेख्यम् आभरणं च^इदं परिव्राजिकया^आहृतम्" इति ॥
सूद.आरालिक.व्यञ्जनो वा रस.प्रयोग.अर्थं राज.वचनम् अर्थं च^अस्य लोभनीयम् अभिनयेत् ॥
तद् अस्य वैदेहक.व्यञ्जनः प्रतिसंदध्यात्, कार्य.सिद्धिं च ब्रूयात् ॥
एवम् एकेन द्वाभ्यां त्रिभिर् इत्य् उपायैर् एक.एकम् अस्य महा.मात्रं विक्रमाय^अपगमनाय वा योजयेत् - इति ॥
दुर्गेषु च^अस्य शून्य.पाल.आसन्नाः सत्त्रिणः पौर.जानपदेषु मैत्री.निमित्तम् आवेदयेयुः - "शून्य.पालेन^उक्ता योधाश् च^अधिकरणस्थाश् च "कृच्छ्र.गतो राजा जीवन्न् आगमिष्यति, न वा, प्रसह्य वित्तम् आर्जयध्वम्, अमित्रांश् च हत" इति ॥
बहुली.भूते तीक्ष्णाः पौरान् निशास्व् आहारयेयुः, मुख्यांश् च^अभिहन्युः "एवं क्रियन्ते ये शून्य.पालस्य न शुश्रूषन्ते" इति ॥
शून्य.पाल.स्थानेषु च सशोणितानि शस्त्र.वित्त.बन्धनान्य् उत्सृजेयुः ॥
ततः सत्त्रिणः "शून्य.पालो घातयति विलोपयति च" इत्य् आवेदयेयुः ॥
एवं जानपदान् समाहर्तुर् भेदयेयुः ॥
समाहर्तृ.पुरुषांस् तु ग्राम.मध्येषु रात्रौ तीक्ष्णा हत्वा ब्रूयुः "एवं क्रियन्ते ये जन.पदम् अधर्मेण बाधन्ते" इति ॥
समुत्पन्ने दोषे शून्य.पालं समाहर्तारं वा प्रकृति.कोपेन घातयेयुः ॥
तत्.कुलीनम् अपरुद्धं वा प्रतिपादयेयुः ॥
कz12.2.33अब्। अन्तः.पुर.पुर.द्वारं द्रव्य.धान्य.परिग्रहान् ।
कz12.2.33च्द्। दहेयुस् तांश् च हन्युर् वा ब्रूयुर् अस्य^आर्त.वादिनः ॥ए
(सेना.मुख्य.वधह्<द्वितीयो भागह्> - मण्डल.प्रोत्साहनम्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0