भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 12.4

12.4.01

ये च^अस्य दुर्गेषु वैदेहकव्यञ्जनाः, ग्रामेसु गृहपतिक.व्यञ्जनाः, जन.पद.संधिषु गो.रक्षक.तापस.व्यञ्जनाः, ते सामन्त.आटविक.तत्.कुलीन.अपरुद्धानां पण्य.आगार.पूर्वं प्रेषयेयुः "अयं देशो हार्यः" इति ॥

12.4.02

आगतांश् च^एषां दुर्गे गूढ.पुरुषान् अर्थ.मानाभ्याम् अभिसत्कृत्य प्रकृतिच्.छिद्राणि प्रदर्शयेयुः ॥

12.4.03

तेषु तैः सह प्रहरेयुः ॥

12.4.04

स्कन्ध.आवारे वा^अस्य शौण्डिक.व्यञ्जनः पुत्रम् अभित्यक्तं स्थापयित्वा^अवस्कन्द.काले रसेन प्रवासयित्वा "नैषेचनिकम्" इति मदन.रस.युक्तान् मद्यकुम्भान्^शतशः प्रयच्छेत् ॥

12.4.05

शुद्धं वा मद्यं पाद्यं वा मद्यं दद्याद् एकम् अहः, उत्तरं रस्.सिद्धं प्रयच्छेत् ॥

12.4.06

शुद्धं वा मद्यं दण्ड.मुख्येभ्यः प्रदाय मद.काले रस.सिद्धं प्रयच्छेत् ॥

12.4.07

दण्ड.मुख्य.व्यञ्जनो वा पुत्रम् अभित्यक्तम् इति समानम् ॥

12.4.08

पाक्व.मांसिक.औदनिक.औण्डिक.आपूपिक.व्यञ्जना वा पण्य.विशेषम् अवघोषयित्वा परस्पर.संघर्षेण कालिकं समर्घतरम् इति वा परान् आहूय रसेन स्व.पण्यान्य् अपचारयेयुः ॥

12.4.09

सुरा.क्षीर.दधि.सर्पिस्.तैलानि वा तद्.व्यवहर्तृ.हस्तेषु गृहीता स्त्रियो बालाश् च रस.युक्तेषु स्व.भाजनेषु परिकिरेयुः ॥

12.4.10

"अनेन^अर्घेण, विशिष्टं वा भूयो दीयताम्" इति तत्र^एव^अवाकिरेयुः ॥

12.4.11

एतान्य् एव वैदेहक.व्यञ्जनाः, पण्य.विरेयेण^आहर्तारो वा ॥

12.4.12

हस्त्य्.अश्वानां विधा.यवसेषु रसम् आसन्ना दद्युः ॥

12.4.13

कर्म.कर.व्यञ्जना वा रस.अक्तं यवसम् उदकं वा विक्रीणीरन् ॥

12.4.14

चिर.संसृष्टा वा गो.वाणिजका गवाम् अज.अवीनां वा यूथान्य् अवस्कन्द.कालेषु परेषां मोह.स्थानेषु प्रमुञ्चेयुः, अश्व.खर.उष्ट्रमहिष.आदीनां दुष्टांश् च ॥

12.4.15

तद्.व्यञ्जना वा चुच्छुन्दरी.शोणित.अक्त.अक्षान् ॥

12.4.16

लुब्धक.व्यञ्जना वा व्याल.मृगान् पञ्जरेभ्यः प्रमुञ्चेयुः, सर्प.ग्राहा वा सर्पान् उग्र.विषान्, हस्ति.जीविनो वा हस्तिनः ॥

12.4.17

अग्नि.जीविनो वा^अग्निम् अवसृजेयुः ॥

12.4.18

गूढ.पुरुषा वा विमुखान् पत्त्य्.अश्व.रथ.द्विप.मुख्यान् अभिहन्युः, आदीपयेयुर् वा मुख्य.आवासान् ॥

12.4.19

दूष्य.अमित्र.आटविक.व्यञ्जनाः प्रणिहिताः पृष्ठ.अभिघातम् अवस्कन्द.प्रतिग्रहं वा कुर्युः ॥

12.4.20

वन.गूढा वा प्रत्यन्त.स्कन्धम् उपनिष्कृष्य^अभिहन्युः, एक.अयने वीवध.आसार.प्रसारान् वा ॥

12.4.21

ससंकेतं वा रात्रि.युद्धे भूरि.तूर्यम् आहत्य ब्रूयुः "अनुप्रविष्टाः स्मो, लब्धं राज्यम्" इति ॥

12.4.22

राज.आवासम् अनुप्रविष्टा वा संकुलेषु राजानं हन्युः ॥

12.4.23

सर्वतो वा प्रयातम् एन(?एव?) म्लेच्छ.आटविक.दण्ट.चारिणः सत्त्र.अपाश्रयाः स्तम्भ.वाट.अपाश्रया वा हन्युः ॥

12.4.24

लुब्धक.व्यञ्जना वा^अवस्कन्द.संकुलेषु गूढ.युद्ध.हेतुभिर् अभिहन्युः ॥

12.4.25

एक.अयने वा शैल.स्तम्भ.वाट.खञ्जन.अन्तर्.उदके वा स्व.भूमि.बलेन^अभिहन्युः ॥

12.4.26

नदी.सरस्.तटाक.सेतु.बन्ध.भेद.वेगेन वा प्लावयेयुः ॥

12.4.27

धान्वन.वन.दुर्ग.निम्न.दुर्गस्थं वा योग.अग्नि.धूमाभ्यां नाशयेयुः ॥

12.4.28

संकट.गतम् अग्निना, धान्वन.गतं धूमेन, निधान.गतं रसेन, तोय.अवगाढं दुष्ट.ग्राहैर् उदक.चरणैर् वा तीक्ष्णाः साधयेयुः, आदीप्त.आवासान् निष्पतन्तं वा ॥
कz12.4.29अब्। योग.वामन.योगाभ्यां योगेन^अन्यतमेन वा ।
कz12.4.29च्द्। अमित्रम् अतिसंदध्यात् सक्तम् उक्तासु भूमिषु ॥ए
(योग.अतिसम्धानम् - दण्ड.अतिसम्धानम् - एक.विजयह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc