भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 12.1

12.1.01

"बलीयसा^अभियुक्तो दुर्बलः सर्वत्र^अनुप्रणतो वेतस.धर्मा तिष्ठेत् ॥

12.1.02

इन्द्रस्य हि स प्रणमति यो बलीयसो नमति" इति भारद्वाजः ॥

12.1.03

"सर्व.संदोहेन बलानां युध्येत ॥

12.1.04

पराक्रमो हि व्यसनम् अपहन्ति ॥

12.1.05

स्व.धर्मश् च^एष क्षत्रियस्य, युद्धे जयः पराजयो वा" इति विशाल.अक्षः ॥

12.1.06

न^इति कौटिल्यः ॥

12.1.07

सर्वत्र^अनुप्रणतः कुलैडक इव निराशो जीविते वसति ॥

12.1.08

युध्यमानश् च^अल्प.सैन्यः समुद्रम् इव^अप्लवो^अवगाहमानः सीदति ॥

12.1.09

तद्.विशिष्टं तु राजानम् आश्रितो दुर्गम् अविषह्यं वा चेष्टेत ॥

12.1.10

त्रयो^अभियोक्तारो धर्म.लोभ.असुर.विजयिन इति ॥

12.1.11

तेषाम् अभ्यवपत्त्या धर्म.विजयी तुष्यति ॥

12.1.12

तम् अभ्यवपद्येत, परेषाम् अपि भयात् ॥

12.1.13

भूमि.द्रव्य.हरणेन लोभ.विजयी तुष्यति ॥

12.1.14

तम् अर्थेन^अभ्यवपद्येत ॥

12.1.15

भूमि.द्रव्य.पुत्र.दार.प्राण.हरणेन^असुर.विजयी ॥

12.1.16

तं भूमि.द्रव्याभ्याम् उपगृह्य^अग्राह्यः प्रतिकुर्वीत ॥

12.1.17

तेषाम् अन्यतमम् उत्तिष्ठमानं संधिना मन्त्र.युद्धेन कूट.युद्धेन वा प्रतिव्यूहेत ॥

12.1.18

शत्रु.पक्षम् अस्य साम.दानाभ्याम्, स्व.पक्षं भेद.दण्डाभ्याम् ॥

12.1.19

दुर्गं राष्ट्रं स्कन्ध.आवारं वा^अस्य गूढाः शस्त्र.रस.अग्निभिः साधयेयुः ॥

12.1.20

सर्वतः पार्ष्णिम् अस्य ग्राहयेत् ॥

12.1.21

अटवीभिर् वा राज्यं घातयेत्, तत्.कुलीन.अपरुद्धाभ्यां वा हारयेत् ॥

12.1.22

अपकार.अन्तेषु च^अस्य दूटं प्रेषयेत् ॥

12.1.23

अनपकृत्य वा संधानम् ॥

12.1.24

तथा^अप्य् अभिप्रयान्तं कोश.दण्डयोः पाद.उत्तरम् अहो.रात्र.उत्तरं वा संधिं याचेत ॥

12.1.25

स चेद् दण्ड.संधिं याचेत, कुण्ठम् अस्मै हस्त्य्.अश्वं दद्याद्, उत्साहितं वा गर.युक्तम् ॥

12.1.26

पुरुष.संधिं याचेत, दूष्य.अमित्र.अटवी.बलम् अस्मै दद्याद् योग.पुरुष.अधिष्ठितम् ॥

12.1.27

तथा कुर्याद् यथा^उभय.विनाशः स्यात् ॥

12.1.28

तीक्ष्ण.बलं वा^अस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलम् अनुरक्तं वा यद् अस्य व्यसने^अपकुर्यात् ॥

12.1.29

कोश.संधिं याचेत, सारम् अस्मै दद्याद् यस्य क्रेतारं न^अधिगच्छेत्, कुप्यम् अयुद्ध.योग्यं वा ॥

12.1.30

भूमि.संधिं याचेत, प्रत्यादेयां नित्य.अमित्राम् अनपाश्रयां महा.क्षय.व्यय.निवेशां वा^अस्मै भूमिं दद्यात् ॥

12.1.31

सर्व.स्वेन वा राज.धानी.वर्जेन संधिं याचेत बलीयसः ॥
कz12.1.32अब्। यत् प्रसह्य हरेद् अन्यस् तत् प्रयच्चेद् उपायतः ।
कz12.1.32च्द्। रक्षेत् स्व.देहं न धनं का ह्य् अनित्ये धने दया ॥ए
(मन्त्र.युद्ध)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc