अर्थशास्त्र · अध्याय 09.7
काम.आदिर् उत्सेकः स्वाः प्रकृतीः कोपयति, अपनयो बाह्याः ॥
तद् उभयम् आसुरी वृत्तिः ॥
स्व.जन.विकारः कोपः ॥
पर.वृद्धि.हेतुषु आपद्.अर्थो^अनर्थः संशय इति ॥
यो^अर्थः शत्रु.वृद्धिम् अप्राप्तः करोति, प्राप्तः प्रत्यादेयः परेषां भवति, प्राप्यमाणो वा क्षय.व्यय.उदयो भवति, स भवत्य् आपद्.अर्थः ॥
यथा सामन्तानाम् आमिष.भूतः सामन्त.व्यसनजो लाभः, शत्रु.प्रार्थितो वा स्व.भाव.अधिगम्यो लाभः, पश्चात् कोपेन पार्ष्णि.ग्राहेण वा विगृहीतः पुरस्ताल्.लाभः, मित्र.उच्छेदेन संधि.व्यतिक्रमेण वा मण्डल.विरुद्धो लाभः इत्य् आपद्.अर्थः ॥
स्वतः परतो वा भय.उत्पत्तिर् इत्य् अनर्थः ॥
तयोः अर्थो न वा^इति, अनर्थो न वा^इति, अर्थो^अनर्थ इति, अनर्थो^अर्थ इति संशयः ॥
शत्रु.मित्रम् उत्साहयितुम् अर्थो न वा^इति संशयः ॥
शत्रु.बलम् अर्थ.मानाभ्याम् आवाहयितुम् अनर्थो न वा^इति संशयः ॥
बलवत्.सामन्तां भूमिम् आदातुम् अर्थो^अनर्थ इति संशयः ॥
जायसा सम्भूययानम् अनर्थो^अर्थ इति संशयः ॥
तेषाम् अर्थ.संशयम् उपगच्छेत् ॥
अर्थो^अर्थ.अनुबन्धः, अर्थो निरनुबन्धः, अर्थो^अनर्थ.अनुबन्धः, अनर्थो^अर्थ.अनुबन्धः, अनर्थो निरनुबन्धः, अनर्थो^अनर्थ.अनुबन्धः इत्य् अनुबन्ध.षड्.वर्गः ॥
शत्रुम् उत्पाट्य पार्ष्णि.ग्राह.आदानम् अर्थो^अनर्थ.अनुबन्धः ॥
उदासीनस्य दण्ड.अनुग्रहः फलेन अर्थो निरनुबन्धः ॥
परस्य^अन्तर्.उच्छेदनम् अर्थो^अनर्थ.अनुबन्धः ॥
शत्रु.प्रतिवेशस्य^अनुग्रहः कोश.दण्डाभ्याम् अनर्थो^अनर्थ.अनुबन्धः ॥
हीन.शक्तिम् उत्साह्य निवृत्तिर् अनर्थो निरनुबन्धः ॥
ज्यायांसम् उत्थाप्य निवृत्तिर् अनर्थो^अनर्थ.अनुबन्धः ॥
तेषां पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥
इति कार्य.अवस्थापनम् ॥
समन्ततो युगपद्.अर्थ.उत्पत्तिः समन्ततो^अर्थ.आपद् भवति ॥
सा^एव पार्ष्णि.ग्राह.विगृहीता समन्ततो^अर्थ.संशय.आपद् भवति ॥
तयोर् मित्र.आक्रन्द.उपग्रहात् सिद्धिः ॥
समन्ततः शत्रुभ्यो भय.उत्पत्तिः समन्त्तो^अनर्थ.आपद् भवति ॥
सा^एव मित्र.विगृहीता समन्ततो^अनर्थ.संशय.आपद् भवति ॥
तयोश् चल.अमित्र.आक्रन्द.उपग्रहात् सिद्धिः, पर.मिश्र.अप्रतीकारो वा ॥
इतो लाभ इतरतो लाभ इत्य् उभयतो^अर्थ.आपद् भवति ॥
तस्यां समन्ततो^अर्थायां च लाभ.गुण.युक्तम् अर्थम् आदातुं यायात् ॥
तुल्ये लाभ.गुणे प्रधानम् आसन्नम् अनतिपातिनम् ऊनो वा येन भवेत् तम् आदातुं यायात् ॥
इतो^अनर्थ इतरतो^अनर्थ इत्य् उभयतो^अनर्थ.आपत् ॥
तस्यां समन्ततो^अनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ॥
मित्र.अभावे प्रकृतीनां लघीयस्य^एकतो^अनर्थां साधयेत्, उभयतो^अनर्थां ज्यायस्या, समन्ततो^अनर्थां मूलेन प्रतिकुर्यात् ॥
अशक्ये सर्वम् उत्सृज्य^अपगच्छेत् ॥
दृष्टा हि जीवतः पुनर्.आवृत्तिर् यथा सुयात्रा.उदयनाभ्याम् ॥
इतो लाभ इतरतो राज्य.अभिमर्श इत्य् उभयतो^अर्थ.अनर्थ.आपद् भवति ॥
तस्याम् अनर्थ.साधको यो^अर्थस् तम् आदातुं यायात् ॥
अन्यथा हि राज्य.अभिमर्शं वारयेत् ॥
एतया समन्ततो^अर्थ.अनर्थ.आपद् व्याख्याता ॥
इतो^अनर्थ इतरतो^अर्थ.संशय इत्य् उभयतो^अनर्थ.अर्थ.संशया ॥
तस्यां पूर्वम् अनर्थं साधयेत्, तत्.सिद्धाव् अर्थ.संशयम् ॥
एतया समन्ततो^अनर्थ.अर्थ.संशया व्याख्याता ॥
इतो^अर्थ इतरतो^अनर्थ.संशय इत्य् उभयतो^अर्थ.अनर्थ.संशय.आपद् ॥
एतया समन्ततो^अर्थ.अनर्थ.संशया व्याख्याता ॥
तस्यां पूर्वां पूर्वां प्रकृतीनाम् अनर्थ.संशयान् मोक्षयितुं यतेत ॥
श्रेयो हि मित्रम् अनर्थ.संशये तिष्ठन् न दण्डः, दण्डो वा न कोश इति ॥
समग्र.मोक्षण.अभावे प्रकृतीनाम् अवयवान् मोक्षयितुं यतेत ॥
तत्र पुरुष.प्रकृतीनां बहुलम् अनुरक्तं वा तीक्ष्ण.लुब्ध.वर्जम्, द्रव्य.प्रकृतीनां सारं महा.उपकारं वा ॥
संधिना^आसनेन द्वैधी.भावेन वा लघूनि, विपर्ययैर् गुरूणि ॥
क्षय.स्थान.वृद्धीनां च^उत्तर.उत्तरं लिप्सेत ॥
प्रातिलोम्येन वा क्षय.आदीनाम् आयत्यां विशेषं पश्येत् ॥
इति देश.अवस्थापनम् ॥
एतेन यात्रा.आदि.मध्य.अन्तेष्व् अर्थ.अनर्थ.संशयानाम् उपसम्प्राप्तिर् व्याख्याता ॥
निरन्तर.योगित्वाच् च^अर्थ.अनर्थ.संशयानां यात्रा.आदाव् अर्थः श्रेयान् उपसम्प्राप्तुं पार्ष्णि.ग्राह.आसार.प्रतिघाते क्षय.व्यय.प्रवास.प्रत्यादेये मूल.रक्षणेषु च भवति ॥
तथा^अनर्थः संशयो वा स्व.भूमिष्ठस्य विषह्यो भवति ॥
एतेन यात्रा.मध्ये^अर्थ.अनर्थ.संशयानाम् उपसम्प्राप्तिर् व्याख्याता ॥
यात्रा.अन्ते तु कर्शनीयम् उच्छेदनीयं वा कर्शयित्वा^उच्छिद्य वा^अर्थः श्रेयान् उपसम्प्राप्तुं न^अनर्थः संशयो वा पर.आबाध.भयात् ॥
सामवायिकानाम् अपुरोगस्य तु यात्रा.मध्य.अन्तगो^अनर्थः संशयो वा श्रेयान् उपसम्प्राप्तुम् अनिर्बन्ध.गामित्वात् ॥
अर्थो धर्मः काम इत्य् अर्थ.त्रि.वर्गः ॥
तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥
अनर्थो^अधर्मः शोक इत्य् अनर्थ.त्रि.वर्गः ॥
तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ॥
अर्थो^अनर्थ इति, धर्मो^अधर्म इति, कामः शोक इति संशय.त्रि.वर्गः ॥
तस्य^उत्तर.पक्ष.सिद्धौ पूर्व.पक्षः श्रेयान् उपसम्प्राप्तुम् ॥
इति काल.अवस्थापनम् ॥
इत्य् आपदः - तासां सिद्धिः ॥
पुत्र.भ्रातृ.बन्धुषु साम.दानाभ्यां सिद्धिर् अनुरूपा, पौर.जानपद.दण्ड.मुख्येषु दान.भेदाभ्याम्, सामन्त.आटविकेषु भेद.दण्डाभ्याम् ॥
एषा^अनुलोमा, विपर्यये प्रतिलोमा ॥
मित्र.अमित्रेषु व्यामिश्रा सिद्धिः ॥
परस्पर.साधका ह्य् उपायाः ॥
शत्रोः शङ्कित.अमात्येषु सान्त्वं प्रयुक्तं शेष.प्रयोगं निवर्तयति, दूष्य.अमात्येषु दानम्, संघातेषु भेदः, शक्तिमत्सु दण्ड इति ॥
गुरु.लाघव.योगाच् च^आपदां नियोग.विकल्प.समुच्चया भवन्ति ॥
"अनेन^एव^उपायेन न^अन्येन" इति नियोगः ॥
"अनेन वा^अन्येन वा" इति विकल्पः ॥
"अनेन^अन्येन च" इति समुच्चयः ॥
तेषाम् एक.योगाश् चत्वारस् त्रि.योगाश् च, द्वि.योगाः षट्, एकश् चतुर्.योगः ॥
इति पञ्च.दश.उपायाः ॥
तावन्तः प्रतिलोमाः ॥
तेषाम् एकेन^उपायेन सिद्धिर् एक.सिद्धिः, द्वाभ्यां द्वि.सिद्धिः, त्रिभिस् त्रि.सिद्धिः, चतुर्भिश् चतुः.सिद्धिर् इति ॥
धर्म.मूलत्वात् काम.फलत्वाच् च^अर्थस्य धर्म.अर्थ.काम.अनुबन्धा या^अर्थस्य सिद्धिः सा सर्व.अर्थ.सिद्धिः ॥ <इति सिद्धयह्>
दैवाद् अग्निर् उदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षम् आसुरी सृष्टिर् इत्य् आपदः ॥
तासां दैवत.ब्राह्मण.र्पणिपाततः सिद्धिः ॥
कz09.7.84अब्। अतिवृष्टिर् अवृष्टिर् वा सृष्टिर् वा या^आसुरी भवेत् ।
कz09.7.84च्द्। तस्याम् आथर्वणं कर्म सिद्ध.आरम्भाश् च सिद्धयः ॥ए
(स्कन्ध.आवार.निवेशह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0