भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 10.1

10.1.01

वास्तुक.प्रशस्ते वास्तुनि नायक.वर्धकि मौहूर्तिकाः स्कन्ध.आवारम्, वृत्तं दीर्घं चतुर्.अश्रं वा भूमि.वशेन वा, चतुर्.द्वारं षट्.पथं नव.संस्थानं मापयेयुः खात.वप्र.साल.द्वार.अट्टालक.सम्पन्नं भये स्थाने च ॥

10.1.02

मध्यमस्य^उत्तरे नव.भागे राज.वास्तुकं धनुः.शत.आयामम् अर्ध.विस्तारम्, पश्चिम.अर्धे तस्य^अन्तः.पुरम् ॥

10.1.03

अन्तर्.वंशिक.सैन्यं च^अन्ते निविशेत ॥

10.1.04

पुरस्ताद् उपस्थानम्, दक्षिणतः कोश.शासन.कार्य.करणानि, वामतो राज.औपवाह्यानां हस्त्य्.अश्व.रथानां स्थानम् ॥

10.1.05

अतो धनुः.शत.अन्तराश् चत्वारः शकट.मेथी.प्रतति.स्तम्भ.साल.परिक्षेपाः ॥

10.1.06

प्रथमे पुरस्तान् मन्त्रि.पुरोहितौ, दण्षिणतः कोष्ठ.अगारं महानसं च, वामतः कुप्य.आयुध.अगारम् ॥

10.1.07

द्वितीये मौल.भृतानां स्थानम् अश्व.रथानां सेना.पतेश् च ॥

10.1.08

तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥

10.1.09

चतुर्थे विष्टिर् नायको मित्र.अमित्र.अटवी.बलं स्व.पुरुष.अधिष्ठितम् ॥

10.1.10

वणिजो रूप.आजीवाश् च^अनु.महा.पथम् ॥

10.1.11

बाह्यतो लुब्धक.श्व.गणिनः सतूर्य.अग्नयः, गूढाश् च^आरक्षाः ॥

10.1.12

शत्रूणाम् आपाते कूप.कूट.अवपात.कण्टकिनीश् च स्थापयेत् ॥

10.1.13

अष्टादश.वर्गाणाम् आरक्ष.विपर्यासं कारयेत् ॥

10.1.14

दिव.आयामं च कारयेद् अपसर्प.ज्ञान.अर्थम् ॥

10.1.15

विवाद.सौरिक.समाज.द्यूत.वारणं च कारयेत्, मुद्रा.रक्षणं च ॥

10.1.16

सेना.निवृत्तम् आयुधीयम् अशासनं शून्य.पालो बध्नीयात् ॥
कz10.1.17अब्। पुरस्ताद् अध्वनः सम्यक्.प्रशास्ता रक्षणानि च ।
कz10.1.17च्द्। यायाद् वर्धकि.विष्टिभ्याम् उदकानि च कारयेत् ॥ए
(स्कन्ध.आवार.प्रयाणम् - बल.व्यसन.अवस्कन्द.काल.रक्षणम्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc