अर्थशास्त्र · अध्याय 09.6
दूष्येभ्यः शत्रुभ्यश् च द्विविधा शुद्धा ॥
दूष्य.शुद्धायां पौरेषु जानपदेषु वा दण्ड.वर्जान् उपायान् प्रयुञ्जीत ॥
दण्डो हि महा.जने क्षेप्तुम् अशक्यः ॥
क्षिप्तो वा तं च^अर्थं न कुर्यात्, अन्यं च^अनर्थम् उत्पादयेत् ॥
मुख्येषु त्व् एषां दाण्ड.कर्मिकवच् चेष्टेत ॥
शत्रु.शुद्धायां यतः शत्रुः प्रधानः कार्यो वा ततः साम.आदिभिः सिद्धिं लिप्सेत ॥
स्वामिन्य् आयत्ता प्रधान.सिद्धिः, मन्त्रिष्व् आयत्ता^आयत्त.सिद्धिः, उभय.आयत्ता प्रधान.आयत्त.सिद्धिः ॥
दूष्य.अदूष्याणाम् आमिश्रितत्वाद् आमिश्रा ॥
आमिश्रायाम् अदूष्यतः सिद्धिः ॥
आलम्बन.अभावे ह्य् आलम्बिता न विद्यन्ते ॥
मित्र.अमित्राणाम् एकी.भावात् पर.मिश्रा ॥
पर.मिश्रायां मित्रतः सिद्धिः ॥
सुकरो हि मित्रेण संधिः, न^अमित्रेण^इति ॥
मित्रं चेन् न संधिम् इच्छेद् अभीक्ष्णम् उपजपेत् ॥
ततः सत्त्रिभिर् अमित्राद् भेदयित्वा मित्रं लभेत ॥
मित्र.संघस्य वा यो^अन्त.स्थायी तं लभेत ॥
अन्त.स्थायिनि लब्धे मध्य.स्थायिनो भिद्यन्ते ॥
मध्य.स्थायिनं वा लभेत ॥
मध्य.स्थायिनि लब्धे न^अन्त.स्थायिनः संहन्यन्ते ॥
यथा च^एषाम् आश्रय.भेदस् तान् उपायान् प्रयुञ्जीत ॥
धार्मिकं जाति.कुल.श्रुत.वृत्त.स्तवेन सम्बन्धेन पूर्वेषां त्रैकाल्य.उपकारान् अपकाराभ्यां वा सान्त्वयेत् ॥
निवृत्त.उत्साहं विग्रह.श्रान्तं प्रतिहत.उपायं क्षय.व्ययाभ्यां प्रवासेन च^उपतप्तं शौचेन^अन्यं लिप्समानम् अन्यस्माद् वा शङ्कमानं मैत्री.प्रधानं वा कल्याण.बुद्धिं साम्ना साधयेत् ॥
लुब्धं क्षीणं वा तपस्वि.मुख्य.अवस्थापना.पूर्वं दानेन साधयेत् ॥
तत् पञ्च.विधं - देय.विसर्गो गृहीत.अनुवर्तनम् आत्त.प्रतिदानं स्व.द्रव्य.दानम् अपूर्वं पर.स्वेषु स्वयं.ग्राह.दानं च ॥
इति दान.कर्म ॥
परस्पर.द्वेष.वैर.भूमि.हरण.शङ्कितम् अतो^अन्यतमेन भेदयेत् ॥
भीरुं वा प्रतिघातेन "कृत.संधिर् एष त्वयि कर्म.करिष्यति, मित्रम् अस्य निसृष्टम्, संधौ वा न^अभ्यन्तरः" इति ॥
यस्य वा स्व.देशाद् अन्य.देशाद् वा पण्यानि पण्य.अगारतया^आगच्छेयुः तानि अस्य "यातव्याल् लब्धानि" इति सत्त्रिणश् चारयेयुः ॥
बहुली.भूते शासनम् अभित्यक्तेन प्रेषयेत् "एतत् ते पण्यं पण्य.अगारं वा मया ते प्रेषितम्, सामवायिकेषु विक्रमस्व, अपगच्छ वा, ततः पण.शेषम् अवाप्स्यसि" इति ॥
ततः सत्त्रिणः परेषु ग्राहयेयुः "एतद् अरि.प्रदत्तम्" इति ॥
शत्रु.प्रख्यातं वा पण्यम् अविज्ञातं विजिगीषुं गच्छेत् ॥
तद् अस्य वैदेहक.व्यञ्जनाः शत्रु.मुख्येषु विक्रीणीरन् ॥
ततः सत्त्रिणः परेषु ग्राहयेयुः "एतत् पण्यम् अरि.प्रदत्तम्" इति ॥
महा.अपराधान् अर्थ.मानाभ्याम् उपगृह्य वा शस्त्र.रस.अग्निभिर् अमित्रे प्रणिदध्यात् ॥
अथ^एकम् अमात्यं निष्पातयेत् ॥
तस्य पुत्र.दारम् उपगृह्य रात्रौ हतम् इति ख्यापयेत् ॥
अथ^अमात्यः शत्रोस् तान् एक.एकशः प्ररूपयेत् ॥
ते चेद् यथा.उक्तं कुर्युर् न च^एनान् ग्राहयेत् ॥
अशक्तिमतो वा ग्राहयेत् ॥
आप्त.भाव.उपगतो मुख्याद् अस्य^आत्मानं रक्षणीयं कथयेत् ॥
अथ^अमित्र.शासनं मुख्य.उपघाताय प्रेषितम् उभय.वेतनो ग्राहयेत् ॥
उत्साह.शक्तिमतो वा प्रेषयेत् "अमुष्य राज्यं गृहाण, यथा.अस्थितो नः संधिः" इति ॥
ततः सत्त्रिणः परेषु ग्राहयेयुः ॥
एकस्य स्कन्ध.आवारं वीवधम् आसारं वा घातयेयुः ॥
इतरेषु मैत्रीं ब्रुवाणाः "त्वम् एतेषां घातयितव्यः" इत्य् उपजपेयुः ॥
यस्य वा प्रवीर.पुरुषो हस्ती हयो वा म्रियेत गूढ.पुरुषैर् हन्येत ह्रियेत वा सत्त्रिणः परस्पर.उपहतं ब्रूयुः ॥
ततः शासनम् अभिशस्तस्य प्रेषयेत् "भूयः कुरु ततः पण.शेएषम् अवाप्स्यसि" इति ॥
तद् उभय.वेतना ग्राहयेयुः ॥
भिन्नेष्व् अन्यतमं लभेत ॥
तेन सेना.पति.कुमार.दण्ड.चारिणो व्याख्याताः ॥
सांधिकं च भेदं प्रयुञ्जीत ॥
इति भेद.कर्म ॥
तीक्ष्णम् उत्साहिनं व्यसनिनं स्थित.शत्रुं वा गूढ.पुरुषाः शस्त्र.अग्नि.रस.आदिभिः साधयेयुः, सौकर्यतो वा तेषाम् अन्यतमः ॥
तीक्ष्णो ह्य् एकः शस्त्र.रस.अग्निभिः साधयेत् ॥
अयं सर्व.संदोह.कर्म विशिष्टं वा करोति ॥
इत्य् उपाय.चतुर्.वर्गः ॥
पूर्वः पूर्वश् च^अस्य लघिष्ठः ॥
सान्त्वम् एक.गुणम् ॥
दानं द्वि.गुणं सान्त्व.पूर्वम् ॥
भेदस् त्रि.गुणः सान्त्व.दान.पूर्वः ॥
दण्डश् चतुर्.गुणः सान्त्व.दान.भेद.पूर्वः ॥
इत्य् अभियुञ्जानेषु^उक्तम् ॥
स्व.भूमिष्ठेषु तु त एव^उपायाः ॥
विशेषस् तु ॥
स्व.भूमिष्ठानाम् अन्यतमस्य पण्य.अगारैर् अभिज्ञातान् दूत.मुख्यान् अभीक्ष्णं प्रेषयेत् ॥
त एनं संधौ पर.हिंसायां वा योजयेयुः ॥
अप्रतिपद्यमानं "कृतो नः संधिः" इत्य् आवेदयेयुः ॥
तम् इतरेषाम् उभय.वेतनाः संक्रामयेयुः "अयं वो राजा दुष्टः" इति ॥
यस्य वा यस्माद् भयं वैरं द्वेषो वा तं तस्माद् भेदयेयुः "अयं ते शत्रुणा संधत्ते, पुरा त्वाम् अतिसंधत्ते, क्षिप्रतरं संधीयस्व, निग्रहे च^अस्य प्रयतस्व" इति ॥
आवाह.विवाहाभ्यां वा कृत्वा सम्योगम् असम्युक्तान् भेदयेत् ॥
सामन्त.आटविक.तत्.कुलीन.अपरुद्धैश् च^एषां राज्यानि घातयेत्, सार्थ.व्रज.अटवीर् वा, दण्डं वा^अभिसृतम् ॥
परस्पर.अपाश्रयाश् च^एषां जाति.संघाश् छिद्रेषु प्रहरेयुः, गूढाश् च^अग्नि.रस.शस्त्रेण ॥
कz09.6.73अब्। वीतंस.गिलवच् च^अरीन् योगैर् आचरितैः शठः ।
कz09.6.73च्द्। घातयेत् पर.मिश्रायां विश्वासेन^आमिषेण च ॥ए
(अर्थ.अनर्थ.सम्शय.युक्ताह् <आपदह्> - तासाम् उपाय.विकल्पजाह् सिद्धयह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0