भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 09.5

09.5.01

संध्य्.आदीनाम् अयथा.उद्देश.अवस्थापनम् अपनयः ॥

09.5.02

तस्माद् आपदः सम्भवन्ति ॥

09.5.03

बाह्य.उत्पत्तिर् अभ्यन्तर.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् बाह्य.प्रतिजापा, बाह्य.उत्पत्तिर् बाह्य.प्रतिजापा, अभ्यन्तर.उत्पत्तिर् अभ्यन्तर.प्रतिजापा - इत्य् आपदः ॥

09.5.04

यत्र बाह्या अभ्यन्तर.अनुपजपन्ति, अभ्यन्तरा वा बाह्यान्, तत्र.उभय.योगे प्रतिजपतः सिद्धिर् विशेषवती ॥

09.5.05

सुव्याजा हि प्रतिजपितारो भवन्ति, न^उपजपितारः ॥

09.5.06

तेषु प्रशान्तेषु न^अन्यान्^शक्नुयुर् उपजपितुम् उपजपितारः ॥

09.5.07

कृच्छ्र.उपजापा हि बाह्यानाम् अभ्यन्तरास् तेषाम् इतरे वा ॥

09.5.08

महतश् च प्रयत्नस्य वधः परेषाम्, अर्थ.अनुबन्धश् च^आत्मन इति ॥

09.5.09

अभ्यन्तरेषु प्रतिजपत्सु साम.दाने प्रयुञ्जीत ॥

09.5.10

स्थान.मान.कर्म सान्त्वम् ॥

09.5.11

अनुग्रह.परिहारौ कर्मस्व् आयोगो वा दानम् ॥

09.5.12

बाह्येषु प्रतिजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥

09.5.13

सत्त्रिणो मित्र.व्यञ्जना वा बाह्यानां चारम् एषां ब्रूयुः "अयं वो राजा दूष्य.व्यञ्जनैर् अतिसंधातु.कामः, बुध्यध्वम्" इति ॥

09.5.14

दूष्येषु वा दूष्य.व्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर् भेदयेयुः, बाह्यान् वा दूष्यैः ॥

09.5.15

दूष्यान् अनुप्रविष्टा वा तीक्ष्णाः शस्त्र.रसाभ्यां हन्युः ॥

09.5.16

आहूय वा बाह्यान् घातयेयुः ॥

09.5.17

यत्र बाह्या बाह्यान् उपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, तत्र^एकान्त.योग उपजपितुः सिद्धिर् विशेषवती ॥

09.5.18

दोष.शुद्धौ हि दूष्या न विद्यन्ते ॥

09.5.19

दूष्य.शुद्धौ हि दोषः पुनर् अन्यान् दूषयति ॥

09.5.20

तस्माद् बाह्येषु^उपजपत्सु भेद.दण्डौ प्रयुञ्जीत ॥

09.5.21

सत्त्रिणो मित्र.व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयम् आदातु.कामः, विगृहीताः स्थानेन राज्ञा, बुध्यध्वम्" इति ॥

09.5.22

प्रतिजपितुर् वा दूत.दण्डान् अनुप्रविष्टास् तीक्ष्णाः शस्त्र.रस.आदिभिर् एषां छिद्रेषु प्रहरेयुः ॥

09.5.23

ततः सत्त्रिणः प्रतिजपितारम् अभिशंसेयुः ॥

09.5.24

अभ्यन्तरान् अभ्यन्तरेषु^उपजपत्सु यथा.अर्हम् उपायं प्रयुञ्जीत ॥

09.5.25

तुष्ट.लिङ्गम् अतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥

09.5.26

शौच.सामर्थ्य.अपदेशेन व्यसन.अभ्युदय.अवेक्षणेन वा प्रतिपूजनम् इति दानम् ॥

09.5.27

मित्र.व्यञ्जनो वा ब्रूयाद् एतान् "चित्त.ज्ञान.अर्थम् उपधास्यति वो राजा, तद् अस्य^आख्यातव्यम् इति ॥

09.5.28

परस्पराद् वा भेदयेद् एनान् "असौ च^असौ च वो राजन्य् एवम् उपजपति" - इति भेदः ॥

09.5.29

दाण्डकर्मिकवच् च दण्डः ॥

09.5.30

एतासां चतसृणाम् आपदाम् अभ्यन्तराम् एव पूर्वं साधयेत् ॥

09.5.31

अहि.भयाद् अभ्यन्तर.कोपो बाह्य.कोपात् पापीयान् इत्य् उक्तं पुरस्ताद् ॥
कz09.5.32अब्। पूर्वां पूर्वां विजानीयाल् लघ्वीम् आपदम् आपदाम् ।
कz09.5.32च्द्। उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ॥ए
(दूष्य.शत्रु.सम्युक्ताह् <आपदह्>)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc