अर्थशास्त्र · अध्याय 09.4
युग्य.पुरुष.अपचयः क्षयः ॥
हिरण्य.धान्य.अपचयो व्ययः ॥
ताभ्यां बहु.गुण.विशिष्टे लाभे यायात् ॥
आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व.कालस् तनु.क्षयो^अल्प.व्ययो महान् वृद्ध्य्.उदयः कल्यो धर्म्यः पुरोगश् च^इति लाभ.सम्पत् ॥
सुप्राप्य.अनुपाल्यः परेषाम् अप्रत्यादेय इत्य् आदेयः ॥
विपर्यये प्रत्यादेयः ॥
तम् आददानस् तत्रस्थो वा विनाशं प्राप्नोति ॥
यदि वा पश्येत् "प्रत्यादेयम् आदाय कोश.दण्ड.निचय.रक्षा.विधानान्य् अवस्रावयिष्यामि, खनि.द्रव्य.हस्ति.वन.सेतु.बन्ध.वणिक्.पथान् उद्धृत.सारान् करिष्यामि, प्रकृतीर् अस्य कर्शयिष्यामि, अपवाहयिष्यामि, आयोगेन^आराधयिष्यामि वा, ताः परं प्रतियोगेन कोपयिष्यति, प्रतिपक्षे वा^अस्य पण्यम् एनं करिष्यामि, मित्रम् अपरुद्धं वा^अस्य प्रतिपादयिष्यामि,
मित्रस्य स्वस्य वा देशस्य पीडाम् अत्रस्थस् तस्करेभ्यः परेभ्यश् च प्रतिकरिष्यामि, मित्रम् आश्रयं वा^अस्य वैगुण्यं ग्राहयिष्यामि, तद् अमित्र.विरक्तं तत्.कुलीनं प्रतिपत्स्यते, सत्कृत्य वा^अस्मै भूमिं दास्यामि इति
संहित.समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयम् अपि लाभम् आददीत ॥
इत्य् आदेय.प्रत्यादेयौ व्याख्यातौ ॥
अधार्मिकाद् धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ॥
विपरीतः प्रकोपक इति ॥
मन्त्रिणाम् उपदेशाल् लाभो^अलभ्यमानः कोपको भवति "अयम् अस्माभिः क्षय.व्ययौ ग्राहितः" इति ॥
दूष्य.मन्त्रिणाम् अनादराल् लाभो लभ्यमानः कोपको भवति "सिद्ध.अर्थो^अयम् अस्मान् विनाशयिष्यति" इति ॥
विपरीतः प्रसादकः ॥
इति प्रसादक.कोपकौ व्याख्यातौ
गमन.मात्र.साध्यत्वाद् ह्रस्व.कालह्
मन्त्र.साध्यत्वात् तनु.क्षयः ॥
भक्त.मात्र.व्ययत्वाद् अल्प.व्ययह्
तदात्व.वैपुल्यान् महान् ॥
अर्थ.अनुबन्धकत्वाद् वृद्ध्य्.उदयः ॥
निराबाधकत्वात् कल्यः ॥
प्रशस्त.उपादानाद् धर्म्यः ॥
सामवायिकानाम् अनिर्बन्ध.गामित्वात् पुरोगः - इति ॥
तुल्ये लाभे देश.कालौ शक्त्य्.उपायौ प्रिय.अप्रियौ जव.अजवौ सामीप्य.विप्रकर्षौ तदात्व.अनुबन्धौ सारत्व.सातत्ये बाहुल्य.बाहु.गुण्ये च विमृश्य बहु.गुण.युक्तं लाभम् आददीत ॥
लाभ.विघ्नाः - कामः कोपः साध्वसं कारुण्यं ह्रीर् अनार्य.भावो मानः सानुक्रोशता पर.लोक.अपेक्षा धार्मिकत्वम् अत्यागित्वं दैन्यम् असूया हस्त.गत.अवमानो दौरात्म्यम् अविश्वासो भयम् अप्रतीकारः शीत.उष्ण.वर्षाणाम् आक्षम्यं मङ्गल.तिथि.नक्षत्र.इष्टित्वम् इति ॥
कz09.4.26अब्। नक्षत्रम् अति पृच्छन्तं बालम् अर्थो^अतिवर्तते ।
कz09.4.26च्द्। अर्थो ह्य् अर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥
कz09.4.27अब्। न^अधनाः प्राप्नुवन्त्य् अर्थान् नरा यत्न.शतैर् अपि ।
कz09.4.27च्द्। अर्थैर् अर्था प्रबध्यन्ते गजाः प्रजिगजैर् इव ॥ए
(बाह्य.अभ्यन्तराश् च^आपदह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0