भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 08.1

08.1.01

व्यसन.यौगपद्ये सौकर्यतो यातव्यं रक्षितव्यं वा^इति व्यसन.चिन्ता ॥

08.1.02

दैवं मानुषं वा प्रकृति.व्यसनम् अनय.अपनयाभ्यां सम्भवति ॥

08.1.03

गुण.प्रातिलोम्यम् अभावः प्रदोषः प्रसङ्गः पीडा वा व्यसनम् ॥

08.1.04

व्यस्यत्य् एनं श्रेयस इति व्यसनम् ॥

08.1.05

"स्वाम्य्.अमात्य.जन.पद.दुर्ग.कोश.दण्ड.मित्र.व्यसनानां पूर्वं पूर्वं गरीयः" इत्य् आचार्याः ॥

08.1.06

न^इति भरद्वाजः ॥

08.1.07

"स्वाम्य्.अमात्य.व्यसनयोर् अमात्य.व्यसनं गरीयः ॥

08.1.08

मन्त्रो मन्त्र.फल.अवाप्तिः कर्म.अनुष्ठानम् आय.व्यय.कर्म दण्ड.प्रणयनम् अमित्र.अटवी.प्रतिषेधो राज्य.रक्षणं व्यसन.प्रतीकारः कुमार.रक्षणम् अभिषेकश् च कुमाराणाम् आयत्तम् अमात्येषु ॥

08.1.09

तेषाम् अभावे तद्.अभावः, छिन्न.पक्षस्य^इव राज्ञश् चेष्टा.नाशश् च ॥

08.1.10

व्यसनेषु च^आसन्नः पर.उपजापः ॥

08.1.11

वैगुण्ये च प्राण.आबाधः प्राण.अन्तिक.चरत्वाद् राज्ञः" इति ॥

08.1.12

न^इति कौटिल्यः ॥

08.1.13

मन्त्रि.पुरोहित.आदि.भृत्य.वर्गम् अध्यक्ष.प्रचारं पुरुष.द्रव्य.प्रकृति.व्यसन.प्रतीकारम् एधनं च राजा^एव करोति ॥

08.1.14

व्यसनिषु वा^अमात्येष्व् अन्यान् अव्यसनिनः करोति ॥

08.1.15

पूज्य.पूजने दूष्य.अवग्रहे च नित्य.युक्तस् तिष्ठति ॥

08.1.16

स्वामी च सम्पन्नः स्व.सम्पद्भिः प्रकृतीः सम्पादयति ॥

08.1.17

स यत्.शीलस् तत्.शीलाः प्रकृतयो भवन्ति, उत्थाने प्रमादे च तद्.आयत्तत्वात् ॥

08.1.18

तत्.कूट.स्थानीयो हि स्वामी^इति ॥

08.1.19

"अमात्य.जन.पद.व्यसनयोर् जन.पद.व्यसनं गरीयः" इति विशाल.अक्षः ॥

08.1.20

"कोशो दण्डः कुप्यं विष्टिर् वाहनं निचयाश् च जन.पदाद् उत्तिष्ठन्ते ॥

08.1.21

तेषाम् अभावो जन.पद.अभावे, स्वाम्य्.अमात्ययोश् च^अनन्तरः" इति ॥

08.1.22

न^इति कौटिल्यः ॥

08.1.23

अमात्य.मूलाः सर्व.आरम्भाः - जन.पदस्य कर्म.सिद्धयः स्वतः परतश् च योग.क्षेम.साधनं व्यसन.प्रतीकारः शून्य.निवेश.उपचयौ दण्ड.कर.अनुग्रहश् च^इति ॥

08.1.24

"जन.पद.दुर्ग.व्यसनयोर् दुर्ग.व्यसनम्" इति पाराशराः ॥

08.1.25

"दुर्गे हि कोश.दण्ड.उत्पत्तिर् आपदि स्थानं च जन.पदस्य ॥

08.1.26

शक्तिमत्तराश् च पौरा जानपदेभ्यो नित्याश् च^आपदि सहाया राज्ञः ॥

08.1.27

जानपदास् त्व् अमित्र.साधारणाः" इति ॥

08.1.28

न^इति कौटिल्यः ॥

08.1.29

जन.पद.मूला दुर्ग.कोश.दण्ड.सेतु.वार्त्ता.आरम्भाः ॥

08.1.30

शौर्यं स्थैर्यं दाक्ष्यं बाहुल्यं च जानपदेषु ॥

08.1.31

पर्वत.अन्तर्.द्वीपाश् च दुर्गा न^अध्युष्यन्ते जन.पद.अभावात् ॥

08.1.32

कर्षक.प्राये तु दुर्ग.व्यसनम्, आयुधीय.प्राये तु जन.पदे जन.पद.व्यसनम् इति ॥

08.1.33

"दुर्ग.कोश.व्यसनयोः कोश.व्यसनम्" इति पिशुनः ॥

08.1.34

"कोश.मूलो हि दुर्ग.संस्कारो दुर्ग.रक्षणं जन.पद.मित्र.अमित्र.निग्रहो देश.अन्तरितानाम् उत्साहनं दण्ड.बल.व्यवहारश् च ॥

08.1.35

दुर्गः कोशाद् उपजाप्यः परेषाम् ॥

08.1.36

कोशम् आदाय च व्यसने शक्यम् अपयातुम्, न दुर्गम्" इति ॥

08.1.37

न^इति कौटिल्यः ॥

08.1.38

दुर्ग.अर्पणः कोशो दण्डस् तूष्णीं.युद्धं स्व.पक्ष.निग्रहो दण्ड.बल.व्यवहार आसार.प्रतिग्रहः पर.चक्र.अटवी.प्रतिषेधश् च ॥

08.1.39

दुर्ग.अभावे च कोशः परेषाम् ॥

08.1.40

दृश्यते हि दुर्गवताम् अनुच्छित्तिर् इति ॥

08.1.41

"कोश.दण्डव्यसनयोर् दण्ड.व्यसनम्" इति कौणपदन्तः ॥

08.1.42

"दण्ड.मूलो हि मित्र.अमित्र.निग्रहः पर.दण्ड.उत्साहनं स्व.दण्ड.प्रतिग्रहश् च ॥

08.1.43

दण्ड.अभावे च ध्रुवः कोश.विनाशः ॥

08.1.44

कोश.अभावे च शक्यः कुप्येन भूम्या पर.भूमि.स्वयं.ग्राहेण वा दण्डः पिण्डयितुम्, दण्डवता च कोशः ॥

08.1.45

स्वामिनश् च^आसन्न.वृत्तित्वाद् अमात्य.सधर्मा दण्डः" इति ॥

08.1.46

न^इति कौटिल्यः ॥

08.1.47

कोश.मूलो हि दण्डः ॥

08.1.48

कोश.अभावे दण्डः परं गच्छति, स्वामिनं वा हन्ति ॥

08.1.49

सर्व.अभियोग.करश् च कोशो धर्म.काम.हेतुः ॥

08.1.50

देश.काल.कार्य.वशेन तु कोश.दण्डयोर् अन्यतरः प्रमाणी.भवति ॥

08.1.51

लम्भ.पालनो हि दण्डः कोशस्य, कोशः कोशस्य दण्डस्य च भवति ॥

08.1.52

सर्व.द्रव्य.प्रयोजकत्वात् कोश.व्यसनं गरीय इति ॥

08.1.53

"दण्ड.मित्र.व्यसनयोर् मित्र.व्यसनम्" इति वातव्याधिः ॥

08.1.54

"मित्रम् अभृतं व्यवहितं च कर्म करोति, पार्ष्णि.ग्राहम् आसारम् अमित्रम् आटविकं च प्रतिकरोति, कोश.दण्ड.भूमिभिश् च^उपकरोति व्यसन.अवस्था.योगम्" इति ॥

08.1.55

न^इति कौटिल्यः ॥

08.1.56

दण्डवतो मित्रं मित्र.भावे तिष्ठति, अमित्रो वा मित्र.भावे ॥

08.1.57

दण्ड.मित्रयोस् तु साधारणे कार्ये सारतः स्व.युद्ध.देश.काल.लाभाद् विशेषः ॥

08.1.58

शीघ्र.अभियाने त्व् अमित्र.आटविक.अनभ्यन्तर.कोपे च न मित्रं विद्यते ॥

08.1.59

व्यसन.यौगपद्ये पर.वृद्धौ च मित्रम् अर्थ.युक्तौ तिष्ठति ॥

08.1.60

इति प्रकृति.व्यसन.सम्प्रधारणम् उक्तम् ॥
कz08.1.61अब्। प्रकृत्य्.अवयवानां तु व्यसनस्य विशेषतः ।
कz08.1.61च्द्। बहु.भावो^अनुरागो वा सारो वा कार्य.साधकः ॥
कz08.1.62अब्। द्वयोस् तु व्यसने तुल्ये विशेषो गुणतः क्षयात् ।
कz08.1.62च्द्। शेष.प्रकृति.साद्गुण्यं यदि स्यान् न^अविधेयकम् ॥
कz08.1.63अब्। शेष.प्रकृति.नाशस् तु यत्र^एक.व्यसनाद् भवेत् ।
कz08.1.63च्द्। व्यसनं तद् गरीयः स्यात् प्रधानस्य^इतरस्य वा ॥ए
(राज.राज्ययोर् व्यसन.चिन्ता)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc