भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 08.2

08.2.01

राजा राज्यम् इति प्रकृति.संक्षेपः ॥

08.2.02

राज्ञो^अभ्यन्तरो बाह्यो वा कोप इति ॥

08.2.03

अहि.भयाद् अभ्यन्तरः कोपो बाह्य.कोपात् पापीयान्, अन्तर्.अमात्य.कोपश् च^अन्तः.कोपात् ॥

08.2.04

तस्मात् कोश.दण्ड.शक्तिम् आत्म.संस्थां कुर्वीत ॥

08.2.05

"द्वैराज्य.वैराज्ययोर् द्वैराज्यम् अन्योन्य.पक्ष.द्वेष.अनुरागाभ्यां परस्पर.संघर्षेण वा विनश्यति, वैराज्यं तु प्रकृति.चित्त.ग्रहण.अपेक्षि यथा.स्थितम् अन्यैर् भुज्यते" इत्य् आचार्याः ॥

08.2.06

न^इति कौटिल्यः ॥

08.2.07

पिता.पुत्रयोर् भ्रात्रोर् वा द्वैराज्यं तुल्य.योग.क्षेमम् अमात्य.अवग्रहं वर्तयति ॥

08.2.08

वैराज्यं तु जीवतः परस्य^आच्छिद्य "न^एतन् मम" इति मन्यमानः कर्शयति, अपवाहयति, पण्यं वा करोति, विरक्तं वा परित्यज्य^अपगच्छति^इति ॥

08.2.09

अन्धश् चलित.शास्त्रो वा राजा^इति "अशास्त्र.चक्षुर् अन्धो यत्.किंचन.कारी दृढ.अभिनिवेशी पर.प्रणेयो वा राज्यम् अन्यायेन^उपहन्ति, चलित.शास्त्रस् तु यत्र शास्त्राच् चलित.मतिर् भवति शक्य.अनुनयो भवति" इत्य् आचार्याः ॥

08.2.10

न^इति कौटिल्यः ॥

08.2.11

अन्धो राजा शक्यते सहाय.सम्पदा यत्र तत्र वा पर्यवस्थापयितुम् ॥

08.2.12

चलित.शास्त्रस् तु शास्त्राद् अन्यथा.अभिनिविष्ट.बुद्धिर् अन्यायेन राज्यम् आत्मानं च^उपहन्ति^इति ॥

08.2.13

व्याधितो नवो वा राजा^इति "व्याधितो राजा राज्य.उपघातम् अमात्य.मूलं प्राण.आबाधं वा राज्य.मूलम् अवाप्नोति, नवस् तु राजा स्व.धर्म.अनुग्रह.परिहार.दान.मान.कर्मभिः प्रकृति.रञ्जन.उपकारैश् चरति" इत्य् आचार्याः ॥

08.2.14

न^इति कौटिल्यः ॥

08.2.15

व्याधितो राजा यथा.प्रवृत्तं राज.प्रणिधिम् अनुवर्तयति ॥

08.2.16

नवस् तु राजा बल.आवर्जितं "मम^इदं राज्यम्" इति यथा.इष्टम् अनवग्रहश् चरति ॥

08.2.17

सामुत्थायिकैर् अवगृहीतो वा राज्य.उपघातं मर्षयति ॥

08.2.18

प्रकृतिष्व् अरूढः सुखम् उच्छेत्तुं भवति^इति ॥

08.2.19

व्याधिते विशेषः पाप.रोग्य.पाप.रोगी च ॥

08.2.20

नवे^अप्य् अभिजातो^अनभिजात इति ॥

08.2.21

दुर्बलो^अभिजातो बलवान् अनभिजातो राजा^इति "दुर्बलस्य^अभिजातस्य^उपजापं दौर्बल्य.अपेक्षाः प्रकृतयः कृच्छ्रेण^उपगच्छन्ति, बलवतश् च^अनभिजातस्य बल.अपेक्षाः सुखेन" इत्य् आचार्याः ॥

08.2.22

न^इति कौटिल्यः ॥

08.2.23

दुर्बलम् अभिजातं प्रकृतयः स्वयम् उपनमन्ति, जात्यम् ऐश्वर्य.प्रकृतिर् अनुवर्तत इति ॥

08.2.24

बलवतश् च^अनभिजातस्य^उपजापं विसंवादयन्ति, अनुरागे सार्वगुण्यम् इति ॥

08.2.25

प्रयास.वधात् सस्य.वधो मुष्टि.वधात् पापीयान्, निराजीवत्वाद् अवृष्टिर् अतिवृष्टितः ॥
कz08.2.26अब्। द्वयोर् द्वयोर् व्यसनयोः प्रकृतीनां बल.अबलम् ।
कz08.2.26च्द्। पारम्पर्य.क्रमेण^उक्तं याने स्थाने च कारणम् ॥ए
(पुरुष.व्यसन.वर्गह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc