भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 07.18

07.18.01

मध्यमस्य^आत्मा तृतीया पञ्चमी च प्रकृती प्रकृतयः ॥

07.18.02

द्वितीया चतुर्थी षष्ठी च विकृतयः ॥

07.18.03

तच् चेद् उभयं मध्यमो^अनुगृह्णीयात्, विजिगीषुर् मध्यम.अनुलोमः स्यात् ॥

07.18.04

न चेद् अनुगृह्णीयात्, प्रकृत्य्.अनुलोमः स्यात् ॥

07.18.05

मद्यमश् चेद् विजिगीषोर् मित्रं मित्र.भावि लिप्सेत, मित्रस्य^आत्मनश् च मित्राण्य् उत्थाप्य मध्यमाच् च मित्राणि भेदयित्वा मित्रं त्रायेत ॥

07.18.06

मण्डलं वा प्रोत्साहयेत् "अतिप्रवृद्धो^अयं मध्यमः सर्वेषां नो विनाशाय^अभ्युत्थितः, सम्भूय^अस्य यात्रां विहनाम" इति ॥

07.18.07

तच् चेन् मण्डलम् अनुगृह्णीयात्, मध्यम.अवग्रहेण^आत्मानम् उपबृंहयेत् ॥

07.18.08

न चेद् अनुगृह्णीयात्, कोश.दण्डाभ्यां मित्रम् अनुगृह्य ये मध्यम.द्वेषिणो राजानः परस्पर.अनुगृहीता वा बहवस् तिष्ठेयुः, एक.सिद्धौ वा बहवः सिध्येयुः, परस्पराद् वा शङ्किता न^उत्तिष्ठेरन्, तेषां प्रधानम् एकम् आसन्नं वा साम.दानाभ्यां लभेत ॥

07.18.09

द्वि.गुणो द्वितीयं त्रि.गुनस् तृतीयम् ॥

07.18.10

एवम् अभ्युच्चितो मध्यमम् अवगृह्णीयात् ॥

07.18.11

देश.काल.अतिपत्तौ वा संधाय मध्यमेन मित्रस्य साचिव्यं कुर्यात्, दूष्येषु वा कर्म.संधिम् ॥

07.18.12

कर्शनीयं वा^अस्य मित्रं मध्यमो लिप्सेत, प्रतिस्तम्भयेद् एनं "अहं त्वा त्रायेय" इति आ कर्शनात् ॥

07.18.13

कर्शितम् एनं त्रायेत ॥

07.18.14

उच्छेदनीयं वा^अस्य मित्रं मध्यमो लिप्सेत, कर्शितम् एनं त्रायेत मध्यम.वृद्धि.भयात् ॥

07.18.15

उच्छिन्नं वा भूम्य्.अनुग्रहेण हस्ते कुर्याद् अन्यत्र^अपसार.भयात् ॥

07.18.16

कर्शनीय.उच्छेदनीययोश् चेन् मित्राणि मध्यमस्य साचिव्य.कराणि स्युः, पुरुष.अन्तरेण संधीयेत ॥

07.18.17

विजिगीषोर् वा तयोर् मित्राण्य् अवग्रह.समर्थानि स्युः, संधिम् उपेयात् ॥

07.18.18

अमित्रं वा^अस्य मध्यमो लिप्सेत, संधिम् उपेयात् ॥

07.18.19

एवं स्व.अर्थश् च कृतो भवति मध्यमस्य प्रियं च ॥

07.18.20

मध्यमश् चेत् स्व.मित्रं मित्र.भावि लिप्सेत, पुरुष.अन्तरेण संदध्यात् ॥

07.18.21

स.अपेक्षं वा "न^अर्हसि मित्रम् उच्छेत्तुम्" इति वारयेत् ॥

07.18.22

उपेक्षेत वा "मण्डलम् अस्य कुप्यतु स्व.पक्ष.वधात्" इति ॥

07.18.23

अमित्रम् आत्मनो वा मध्यमो लिप्सेत, कोश.दण्डाभ्याम् एनम् अदृश्यमानो^अनुगृह्णीयात् ॥

07.18.24

उदासीनं वा मध्यमो लिप्सेत, अस्मै साहाय्यं दद्याद् "उदासीनाद् भिद्यताम्" इति ॥

07.18.25

मध्यम.उदासीनयोर् यो मण्डलस्य^अभिप्रेतस् तम् आश्रयेत ॥

07.18.26

मध्यम.चरितेन^उदासीन.चरितं व्याख्यातम् ॥

07.18.27

उदासीनश् चेन् मध्यमं लिप्सेत, यतः शत्रुम् अतिसंदध्यान् मित्रस्य^उपकारं कुर्याद् उदासीनं वा दण्ड.उपकारिणं लभेत ततः परिणमेत ॥

07.18.28

एवम् उपबृह्य^आत्मानम् अरि.प्रकृतिं कर्शयेन् मित्र.प्रकृतिं च^उपगृह्णीयात् ॥

07.18.29a

सत्य् अप्य् अमित्र.भावे तस्य^अनात्मवान् नित्य.अपकारी शत्रुः शत्रु.संहितः पार्ष्णि.ग्राहो वा व्यसनी यातव्यो व्यसने वा नेतुर् अभियोक्ता इत्य् अरि.भाविनः, एक.अर्थ.अभिप्रयातः पृथग्.अर्थ.अभिप्रयातः सम्भूय.यात्रिकः संहित.प्रयाणिकः स्व.अर्थ.अभिप्रयातः सामुत्थायिकः कोश.दण्डयोर् अन्यतरस्य क्रेता विक्रेता वा द्वैधी.भाविक इति मित्र.भाविनः,
- ॥

07.18.29b

सामन्तो बलवतः प्रतिघातो^अन्तर्धिः प्रतिवेशो वा बलवतः पार्ष्णि.ग्राहो वा स्वयम् उपनतः प्रताप.उपनतो वा दण्ड.उपनत इति भृत्य.भाविनः सामन्ताः ॥

07.18.30

तैर् भूम्य्.एक.अन्तरा व्याख्याताः ॥
कz07.18.31अब्। तेषां शत्रु.विरोधे यन् मित्रम् एक.अर्थतां व्रजेत् ।
कz07.18.31च्द्। शक्त्या तद्.अनुगृह्णीयाद् विषहेत यया परम् ॥
कz07.18.32अब्। प्रसाध्य शत्रुं यन् मित्रं वृद्धं गच्छेद् अवश्यताम् ।
कz07.18.32च्द्। सामन्त.एक.अन्तराभ्यां तत्.प्रकृतिभ्यां विरोधयेत् ॥
कz07.18.33अब्। तत्.कुलीन.अपरुद्धाभ्यां भूमिं वा तस्य हारयेत् ।
कz07.18.33च्द्। यथा वा^अनुग्रह.अपेक्षं वश्यं तिष्ठेत् तथा चरेत् ॥
कz07.18.34अब्। न^उपकुर्याद् अमित्रं वा गच्छेद् यद् अतिकर्शितम् ।
कz07.18.34च्द्। तद् अहीनम् अवृद्धं च स्थापयेन् मित्रम् अर्थवित् ॥
कz07.18.35अब्। अर्थ.युक्त्या चलं मित्रं संधिं यद् उपगच्छति ।
कz07.18.35च्द्। तस्य^अपगमने हेतुं विहन्यान् न चलेद् यथा ॥
कz07.18.36अब्। अरि.साधारणं यद् वा तिष्ठेत् तद् अरितः शठम् ।
कz07.18.36च्द्। भेदयेद् भिन्नम् उच्छिन्द्यात् ततः शत्रुम् अनन्तरम् ॥
कz07.18.37अब्। उदासीनं च यत् तिष्ठेत् सामन्तैस् तद् विरोधयेत् ।
कz07.18.37च्द्। ततो विग्रह.संतप्तम् उपकारे निवेशयेत् ॥
कz07.18.38अब्। अमित्रं विजिगीषुं च यत् संचरति दुर्बलम् ।
कz07.18.38च्द्। तद् बलेन^अनुगृह्णीयाद् यथा स्यान् न परान्.मुखम् ॥
कz07.18.39अब्। अपनीय ततो^अन्यस्यां भूमौ वा सम्निवेशयेत् ।
कz07.18.39च्द्। निवेश्य पूर्वं तत्र^अन्यद् दण्ड.अनुग्रह.हेतुना ॥
कz07.18.40अब्। अपकुर्यात् समर्थं वा न^उपकुर्याद् यद् आपदि ।
कz07.18.40च्द्। उच्छिन्द्याद् एव तन्.मित्रं विश्वस्य^अङ्कम् उपस्थितम् ॥
कz07.18.41अब्। मित्र.व्यसनतो वा^अरिर् उत्तिष्ठेद् यो^अनवग्रहः ।
कz07.18.41च्द्। मित्रेण^एव भवेत् साध्यश् छादित.व्यसनेन सः ॥
कz07.18.41अब्। अमित्र.व्यसनान् मित्रम् उत्थितं यद् विरज्यति ।
कz07.18.41च्द्। अरि.व्यसन.सिद्ध्या तत्.शत्रुणा^एव प्रसिध्यति ॥
कz07.18.42अब्। वृद्धिं क्षयं च स्थानं च कर्शन.उच्छेदनं तथा ॥
कz07.18.42च्द्। सर्व.उपायान् समादध्याद् एतान् यश् च^अर्थ.शास्त्रवित् ।
कz07.18.43अब्। एवम् अन्योन्य.संचारं षाड्गुण्यं यो^अनुपश्यति ॥
कz07.18.43च्द्। स बुद्धि.निगलैर् बद्धैर् इष्टं क्रीडति पार्थिवैः ॥ए
(प्रकृति.व्यसन.वर्गह्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc