अर्थशास्त्र · अध्याय 07.2
संधि.विग्रहयोस् तुल्यायां वृद्धौ संधिम् उपेयात् ॥
विग्रहे हि क्षय.व्यय.प्रवास.प्रत्यवाया भवन्ति ॥
तेन^आसन.यानयोर् आसनं व्याख्यातम् ॥
द्वैधी.भाव.संश्रययोर् द्वैधी.भावं गच्छेत् ॥
द्वैधी.भूतो हि स्व.कर्म.प्रधान आत्मन एव^उपकरोति, संश्रितस् तु परस्य^उपकरोति, न^आत्मनः ॥
यद्.बलः सामन्तस् तद्.विशिष्ट.बलम् आश्रयेत् ॥
तद्.विशिष्ट.बल.अभावे तम् एव^आश्रितः कोश.दण्ड.भूमीनाम् अन्यतमेन^अस्य^उपकर्तुम् अदृष्टः प्रयतेत ॥
महा.दोषो हि विशिष्ट.बल.समागमो राज्ञाम्, अन्यत्र^अरि.विगृहीतात् ॥
अशक्ये दण्ड.उपनतवद् वर्तेत ॥
यदा च^अस्य प्राण.हरं व्याधिम् अन्तः.कोपं शत्रु.वृद्धिं मित्र.व्यसनम् उपस्थितं वा तन्.निमित्ताम् आत्मनश् च वृद्धिं पश्येत् तदा सम्भाव्य.व्याधि.धर्म.कार्य.अपदेशेन^अपयायात् ॥
स्व.विषयस्थो वा न^उपगच्छेत् ॥
आसन्नो वा^अस्य च्छिद्रेषु प्रहरेत् ॥
बलीयसोर् वा मध्य.गतस् त्राण.समर्थम् आश्रयेत, यस्य वा^अन्तर्धिः स्यात्, उभौ वा ॥
कपाल.संश्रयस् तिष्ठेत्, मूल.हरम् इतरस्य^इतरम् अपदिशन् ॥
भेदम् उभयोर् वा परस्पर.अपदेशं प्रयुञ्जीत, भिन्नयोर् उपांशु.दण्डम् ॥
पार्श्वस्थो वा बलस्थयोर् आसन्न.भयात् प्रतिकुर्वीत ॥
दुर्ग.अपाश्रयो वा द्वैधी.भूतस् तिष्ठेत् ॥
संधि.विग्रह.क्रम.हेतुभिर् वा चेष्टेत ॥
दूष्य.अमित्र.आटविकान् उभयोर् उपगृह्णीयात् ॥
एतयोर् अन्यतरं गच्छंस् तैर् एव^अन्यतरस्य व्यसने प्रहरेत् ॥
द्वाभ्याम् उपहतो वा मण्डल.अपाश्रयस् तिष्ठेत्, मध्यमम् उदासीनं वा संश्रयेत ॥
तेन सह^एकम् उपगृह्य^इतरम् उच्छिन्द्याद्, उभौ वा ॥
द्वाभ्याम् उच्छिन्नो वा मध्यम.उदासीनयोस् तत्.पक्षीयाणां वा राज्ञां न्याय.वृत्तिम् आश्रयेत ॥
तुल्यानां वा यस्य प्रकृतयः सुख्येयुर् एनम्, यत्रस्थो वा शक्नुयाद् आत्मानम् उद्धर्तुम्, यत्र वा पूर्व.पुरुष.उचिता गतिर् आसन्नः सम्बन्धो वा, मित्राणि भूयांस्य् अतिशक्तिमन्ति वा भवेयुः ॥
कz07.2.25अब्। प्रियो यस्य भवेद् यो वा प्रियो^अस्य कतरस् तयोः ।
कz07.2.25च्द्। प्रियो यस्य स तं गच्छेद् इत्य् आश्रय.गतिः परा ॥ए
(सम.हीन.ज्यायसां गुण.अभिनिवेशः - हीन.संधयह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0