भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 07.3

07.3.01

विजिगीषुः शक्त्य्.अपेक्षः षाड्गुण्यम् उपयुञ्जीत ॥

07.3.02

सम.ज्यायोभ्यां संधीयेत, हीनेन विगृह्णीयात् ॥

07.3.03

विगृहीतो हि ज्यायसा हस्तिना पाद.युद्धम् इव^अभ्युपैति ॥

07.3.04

समेन च^आमं पात्रम् आमेन^अहतम् इव^उभयतः क्षयं करोति ॥

07.3.05

कुम्भेन^इव^अश्मा हीनेन^एक.अन्त.सिद्धिम् अवाप्नोति ॥

07.3.06

ज्यायांश् चेन् न संधिम् इच्छेद् दण्ड.उपनत.वृत्तम् आबलीयसं वा योगम् आतिष्ठेत् ॥

07.3.07

समश् चेन् न संधिम् इच्छेद् यावन्.मात्रम् अपकुर्यात् तावन्.मात्रम् अस्य प्रत्यपकुर्यात् ॥

07.3.08

तेजो हि संधान.कारणम् ॥

07.3.09

न^अतप्तं लोहं लोहेन संधत्त इति ॥

07.3.10

हीनश् चेत् सर्वत्र^अनुप्रणतस् तिष्ठेत् संधिम् उपेयात् ॥

07.3.11

आरण्यो^अग्निर् इव हि दुःख.अमर्षजं तेजो विक्रमयति ॥

07.3.12

मण्डलस्य च^अनुग्राह्यो भवति ॥

07.3.13

संहितश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिताः प्रत्यादान.भयाद् वा न^उपगच्छन्ति" इति पश्येद्द् हीनो^अपि विगृह्णीयात् ॥

07.3.14

विगृहीतश् चेत् "पर.प्रकृतयो लुब्ध.क्षीण.अपचरिता विग्रह.उद्विग्ना वा मां न^उपगच्छन्ति" इति पश्येज् ज्यायान् अपि संधीयेत, विग्रह.उद्वेगं वा शमयेत् ॥

07.3.15

व्यसन.यौगपद्ये^अपि "गुरु.व्यसनो^अस्मि, लघु.व्यसनः परः सुखेन प्रतिकृत्य व्यसनम् आत्मनो^अभियुञ्ज्याद्" इति पश्येज् ज्यायान् अपि संधीयेत ॥

07.3.16

संधि.विग्रहयोश् चेत् पर.कर्शनम् आत्म.उपचयं वा न^अभिपश्येज् ज्यायान् अप्य् आसीत ॥

07.3.17

पर.व्यसनम् अप्रतिकार्यं चेत् पश्येद्द् हीनो^अप्य् अभियायात् ॥

07.3.18

अप्रतिकार्य.आसन्न.व्यसनो वा ज्यायान् अपि संश्रयेत ॥

07.3.19

संधिना^एकतो विग्रहेण^एकतश् चेत् कार्य.सिद्धिं पश्येज् ज्यायान् अपि द्वैधी.भूतस् तिष्ठेत् ॥

07.3.20

एवं समस्य षाड्गुण्य.उपयोगः ॥

07.3.21

तत्र तु प्रतिविशेषः ॥
कz07.3.22अब्। प्रवृत्त.चक्रेण^आक्रान्तो राज्ञा बलवता^अबलः ।
कz07.3.22च्द्। संधिना^उपनमेत् तूर्णं कोश.दण्ड.आत्म.भूमिभिः ॥
कz07.3.23अब्। स्वयं संख्यात.दण्डेन दण्डस्य विभवेन वा ।
कz07.3.23च्द्। उपस्थातव्यम् इत्य् एष संधिर् आत्म.आमिषो मतः ॥
कz07.3.24अब्। सेना.पति.कुमाराभ्याम् उपस्थातव्यम् इत्य् अयम् ।
कz07.3.24च्द्। पुरुष.अन्तर.संधिः स्यान् न^आत्मना^इत्य् आत्म.रक्षणः ॥
कz07.3.25अब्। एकेन^अन्यत्र यातव्यं स्वयं दण्डेन वा^इत्य् अयम् ।
कz07.3.25च्द्। अदृष्ट.पुरुषः संधिर् दण्ड.मुख्य.आत्म.रक्षणः ॥
कz07.3.26अब्। मुख्य.स्त्री.बन्धनं कुर्यात् पूर्वयोः पश्चिमे त्व् अरिम् ।
कz07.3.26च्द्। साधयेद् गूढम् इत्य् एते दण्ड.उपनत.संधयः ॥
कz07.3.27अब्। कोश.दानेन शेषाणां प्रकृतीनां विमोक्षणम् ।
कz07.3.27च्द्। परिक्रयो भवेत् संधिः स एव च यथा.सुखम् ॥
कz07.3.28अब्। स्कन्ध.उपनेयो बहुधा ज्ञेयः संधिर् उपग्रहः ।
कz07.3.28च्द्। निरुद्धो देश.कालाभ्याम् अत्ययः स्याद् उपग्रहः ॥
कz07.3.29अब्। विषह्य.दानाद् आयत्यां क्षमः स्त्री.बन्धनाद् अपि ।
कz07.3.29च्द्। सुवर्ण.संधिर् विश्वासाद् एकी.भाव.गतो भवेत् ॥
कz07.3.30अब्। विपरीतः कपालः स्याद् अत्यादान.अभिभाषितः ।
कz07.3.30च्द्। पूर्वयोः प्रणयेत् कुप्यं हस्त्य्.अश्वं वा गर.अन्वितम् ॥
कz07.3.31अब्। तृतीये प्रणयेद् अर्थं कथयन् कर्मणां क्षयम् ।
कz07.3.31च्द्। तिष्ठेच् चतुर्थ इत्य् एते कोश.उपनत.संधयः ॥
कz07.3.32अब्। भूम्य्.एक.देश.त्यागेन शेष.प्रकृति.रक्षणम् ।
कz07.3.32च्द्। आदिष्ट.संधिस् तत्र^इष्टो गूढ.स्तेन.उपघातिनः ॥
कz07.3.33अब्। भूमीनाम् आत्त.साराणां मूल.वर्जं प्रणामनम् ।
कz07.3.33च्द्। उच्छिन्न.संधिस् तत्र^इष्टः पर.व्यसन.काङ्क्षिणः ॥
कz07.3.34अब्। फल.दानेन भूमीनां मोक्षणं स्याद् अवक्रयः ।
कz07.3.34च्द्। फल.अतिमुक्तो भूमिभ्यः संधिः स परिदूषणः ॥
कz07.3.35अब्। कुर्याद् अवेक्षणं पूर्वौ पश्चिमौ त्व् आबलीयसम् ।
कz07.3.35च्द्। आदाय फलम् इत्य् एते देश.उपनत.संधयः ॥
कz07.3.36अब्। स्व.कार्याणां वशेन^एते देशे काले च भाषिताः ।
कz07.3.36च्द्। आबलीयसिकाः कार्यास् त्रिविधा हीन.संधयः ॥ए
(विगृह्य.आसनं - संधाय.आसनं - विगृह्य.यानं - संधाय.यानं - सम्भूय.प्रयाणम्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc