अर्थशास्त्र · अध्याय 07.1
षाड्गुण्यस्य प्रकृति.मण्डलं योनिः ॥
"संधि.विग्रह.आसन.यान.संश्रय.द्वैधी.भावाः षाड्गुण्यम्" इत्य् आचार्याः ॥
"द्वैगुण्यम्" इति वात.व्याधिः ॥
"संधि.विग्रहाभ्यां हि षाड्गुण्यं सम्पद्यते" इति ॥
षाड्गुण्यम् एव^एतद् अवस्था.भेदाद् इति कौटिल्यः ॥
तत्र पण.बन्धः संधिः ॥
अपकारो विग्रहः ॥
उपेक्षणम् आसनम् ॥
अभ्युच्चयो यानम् ॥
पर.अर्पणं संश्रयः ॥
संधि.विग्रह.उपादानं द्वैधी.भावः ॥
इति षड्.गुणाः ॥
परस्माद्द् हीयमानः संदधीत ॥
अभ्युच्चीयमानो विगृह्णीयात् ॥
"न मां परो न^अहं परम् उपहन्तुं शक्तः" इत्य् आसीत ॥
गुण.अतिशय.युक्तो यायात् ॥
शक्ति.हीनः संश्रयेत ॥
सहाय.साध्ये कार्ये द्वैधीभावं गच्छेत् ॥
इति गुण.अवस्थापनम् ॥
तेषां यस्मिन् वा गुणे स्थितः पश्येत् "इह.स्थः शक्ष्यामि दुर्ग.सेतु.कर्म.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्माण्य् आत्मनः प्रवर्तयितुम्, परस्य च^एतानि कर्माण्य् उपहन्तुम्" इति तम् आतिष्ठेत् ॥
सा वृद्धिः ॥
"आशुतरा मे वृद्धिर् भूयस्तरा वृद्ध्य्.उदयतरा वा भविष्यति, विपरीता परस्य" इति ज्ञात्वा पर.वृद्धिम् उपेक्षेत ॥
तुल्य.काल.फल.उदयायां वा वृद्धौ संधिम् उपेयात् ॥
यस्मिन् वा गुणे स्थितः स्व.कर्मणाम् उपघातं पश्येन् न^इतरस्य तस्मिन् न तिष्ठेत् ॥
एष क्षयः ॥
"चिरतरेण^अल्पतरं वृद्ध्य्.उदयतरं वा क्षेष्ये, विपरीतं परः" इति ज्ञात्वा क्षयम् उपेक्षेत ॥
तुल्य.काल.फल.उदये वा क्षये संधिम् उपेयात् ॥
यस्मिन् वा गुणे स्थितः स्व.कर्म.वृद्धिं क्षयं वा न^अभिपश्येद् एतत्.स्थानम् ॥
"ह्रस्वतरं वृद्ध्य्.उदयतरं वा स्थास्यामि, विपरीतं परः" इति ज्ञात्वा स्थानम् उपेक्षेत ॥
"तुल्य.काल.फल.उदये वा स्थाने संधिम् उपेयाद्" इत्य् आचार्याः ॥
न^एतद् विभाषितम् इति कौटिल्यः ॥
यदि वा पश्येत् "सन्धौ स्थितो महा.फलैः स्व.कर्मभिः पर.कर्माण्य् उपहनिष्यामि, महा.फलानि वा स्व.कर्माण्य् उपभोक्ष्ये, पर.कर्माणि वा, संधि.विश्वासेन वा योग.उपनिषत्.प्रणिधिभिः पर.कर्माण्य् उपहनिष्यामि, सुखं वा स.अनुग्रह.परिहार.सौकर्यं फल.लाभ.भूयस्त्वेन स्व.कर्मणां पर.कर्म.योग.आवहं जनम् आस्रावयिष्यामि - ॥
बलिना^अतिमात्रेण वा संहितः परः स्व.कर्म.उपघातं प्राप्स्यति, येन वा विगृहीतो मया.संधत्ते तेन^अस्य विग्रहं दीर्घं करिष्यामि, मया वा संहितस्य मद्.द्वेषिणो जन.पदं पीडयिष्यति - ॥
पर.उपहतो वा^अस्य जन.पदो माम् आगमिष्यति, ततः कर्मसु वृद्धिं प्राप्स्यामि, विपन्न.कर्म.आरम्भो वा विषमस्थः परः कर्मसु न मे विक्रमेत - ॥
परतः प्रवृत्त.कर्म.आरम्भो वा ताभ्यां संहितः कर्मसु वृद्धिं प्राप्स्यामि, शत्रु.प्रतिबद्धं वा शत्रुणा संधिं कृत्वा मण्डलं भेत्स्यामि - ॥
भिन्नम् अवाप्स्यामि, दण्ड.अनुग्रहेण वा शत्रुम् उपगृह्य मण्डल.लिप्सायां विद्वेषं ग्राहयिष्यामि, विद्विष्टं तेन^एव घातयिष्यामि" इति संधिना वृद्धिम् आतिष्ठेत् ॥
यदि वा पश्येत् "आयुधीय.प्रायः श्रेणी.प्रायो वा मे जन.पदः शैल.वन.नदी.दुर्ग.एक.द्वार.आरक्षो वा शक्ष्यति पर.अभियोगं प्रतिहन्तुम्, विषय.अन्ते दुर्गम् अविषह्यम् अपाश्रितो वा शक्ष्यामि पर.कर्माण्य् उपहन्तुं - ॥
व्यसन.पीड.उपहत.उत्साहो वा परः सम्प्राप्त.कर्म.उपघात.कालः, विगृहीतस्य^अन्यतो वा शक्ष्यामि जन.पदम् अपवाहयितुम्" इति विग्रहे स्थितो वृद्धिम् आतिष्ठेत् ॥
यदि वा मन्येत "न मे शक्तः परः कर्माण्य् उपहन्तुं न^अहं तस्य कर्म.उपघाती वा, व्यसनम् अस्य, श्व.वराहयोर् इव कलहे वा, स्व.कर्म.अनुष्ठान.परो वा वर्धिष्ये" इत्य् आसनेन वृद्धिम् आतिष्ठेत् ॥
यदि वा मन्येत "यान.साध्यः कर्म.उपघातः शत्रोः, प्रतिविहित.स्व.कर्म.आरक्षश् च^अस्मि" इति यानेन वृद्धिम् आतिष्ठेत् ॥
यदि वा मन्येत "न^अस्मि शक्तः पर.कर्माण्य् उपहन्तुम्, स्व.कर्म.उपघातं वा त्रातुम्" इति, बलवन्तम् आश्रितः स्व.कर्म.अनुष्ठानेन क्षयात् स्थानं स्थानाद् वृद्धिं च^आकाङ्क्षेत ॥
यदि वा मन्येत "संधिना^एकतः स्व.कर्माणि प्रवर्तयिष्यामि, विग्रहेण^एकतः पर.कर्माण्य् उपहनिष्यामि" इति द्वैधी.भावेन वृद्धिम् आतिष्ठेत् ॥
कz07.1.38अब्। एवं षड्भिर् गुणैर् एतैः स्थितः प्रकृति.मण्डले ।
कz07.1.38च्द्। पर्येषेत क्षयात् स्थानं स्थानाद् वृद्धिं च कर्मसु ॥ए
(संश्रय.वृत्ति)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0