भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 05.5

05.5.01

नियुक्तः कर्मसु व्यय.विशुद्धम् उदयं दर्शयेत् ॥

05.5.02

आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यम् आत्ययिकम् उपेक्षितव्यं वा कार्यं "इदम् एवम्" इति विशेषयेच् च ॥

05.5.03

मृगया.द्यूत.मद्य.स्त्रीषु प्रसक्तं न^एनम् अनुवर्तेत प्रशंसाभिः ॥

05.5.04

आसन्नश् च^अस्य व्यसन.उपघाते प्रयतेत, पर.उपजाप.अतिसंधान.उपधिभ्यश् च रक्षेत् ॥

05.5.05

इङ्गित.आकारौ च^अस्य लक्षयेत् ॥

05.5.06

काम.द्वेष.हर्ष.दैन्य.व्यवसाय.भय.द्वन्द्व.विपर्यासम् इङ्गित.आकाराभ्यां हि मन्त्र.संवरण.अर्थम् आचरति प्राज्ञः ॥

05.5.07

दर्शने प्रसीदति, वाक्यं प्रतिगृह्णाति, आसनं ददाति, विविक्तो दर्शयते, शङ्का.स्थाने न^अतिशङ्कते, कथायां रमते, परिज्ञाप्येष्व् अवेक्षते, पथ्यम् उक्तं सहते, स्मयमानो नियुङ्क्ते, हस्तेन स्पृशति, श्लाघ्ये न^उपहसति, परोक्षं गुणं ब्रवीति, भक्ष्येषु स्मरति, सह विहारं याति, व्यसने^अभ्युपपद्यते, तद्.भक्तीन् पूजयति, गुह्यम् आचष्टे,
मानं वर्धयति, अर्थं करोति, अनर्थं प्रतिहन्ति - इति तुष्ट.ज्ञानम् ॥

05.5.08

एतद् एव विपरीतम् अतुष्टस्य, भूयश् च वक्ष्यामः ॥

05.5.09

संदर्शने कोपः, वाक्यस्य^अश्रवण.प्रतिषेधौ, आसन.चक्षुषोर् अदानम्, वर्ण.स्वर.भेदः, एक.अक्षि.भ्रुकुट्य्.ओष्ठ.निर्भोगः, स्वेद.श्वास.स्मितानाम् अस्थान.उत्पत्तिः, पर.मन्त्रणम्, अकस्माद्.व्रजनम्, वर्धनम् अन्यस्य, भूमि.गात्र.विलेखनम्, अन्यस्य^उपतोदनम्, विद्या.वर्ण.देश.कुत्सा, सम.दोष.निन्दा, प्रतिदोष.निन्दा, प्रतिलोम.स्तवः,
सुकृत.अनवेक्षणम्, दुष्कृत.अनुकीर्तनम्, पृष्ठ.अवधानम्, अतित्यागः, मिथ्या.अभिभाषणम्, राज.दर्शिनां च तद्.वृत्त.अन्यत्वम् ॥

05.5.10

वृत्ति.विकारं च^अवेक्षेत^अप्य् अमानुषाणाम् ॥

05.5.11

"अयम् उच्चैः सिञ्चति" इति कात्यायनः प्रवव्राज, "क्रौञ्चो^अपसव्यम्" इति कणिङ्को भारद्वाजः, "तृणम्" इति दीर्घश् चारायणः, "शीता शाटी" इति घोट.मुखः, "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः, "रथ.अश्वं प्राशंसीत्" इति पिशुनः, प्रति.रवणे शुनः पिशुन.पुत्रः ॥

05.5.12

अर्थ.मान.अवक्षेपे च परित्यागः ॥

05.5.13

स्वामि.शीलम् आत्मनश् च किल्बिषम् उपलभ्य वा प्रतिकुर्वीत ॥

05.5.14

मित्रम् उपकृष्टं वा^अस्य गच्छेत् ॥
कz05.5.15अब्। तत्रस्थो दोष.निर्घातं मित्रैर् भर्तरि च^आचरेत् ।
कz05.5.15च्द्। ततो भर्तरि जीवे वा मृते वा पुनर् आव्रजेत् ॥ए
(चोन्तिनुअन्चे ओf थे किन्ग्दोम्)
(चोन्तिनुओउस् सोवेरेइग्न्त्य्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc