अर्थशास्त्र · अध्याय 05.6
राज.व्यसनम् एवम् अमात्यः प्रतिकुर्वीत ॥
प्राग् एव मरण.आबाध.भयाद् राज्ञः प्रिय.हित.उपग्रहेण मास.द्वि.मास.अन्तरं दर्शनं स्थापयेद् "देश.पीडा.अपहम् अमित्र.अपहम् आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्य् अपदेशेन ॥
राज.व्यञ्जनम् अरूप.वेलायां प्रकृतीनां दर्शयेत्, मित्र.अमित्र.दूतानां च ॥
तैश् च यथा.उचितां संभाषाम् अमात्य.मुखो गच्छेत् ॥
दौवारिक.अन्तर्.वंशिक.मुखश् च यथा.उक्तं राज.प्रणिधिम् अनुवर्तयेत् ॥
अपकारिषु च हेडं प्रसादं वा प्रकृति.कान्तं दर्शयेत्, प्रसादम् एव^उपकारिषु ॥
आप्त.पुरुष.अधिष्ठितौ दुर्ग.प्रत्यन्तस्थौ वा कोश.दण्डाव् एकस्थौ कारयेत्, कुल्य.कुमार.मुख्यांश् च^अन्य.अपदेशेन ॥
यश् च मुख्यः पक्षवान् दुर्ग.अटवीस्थो वा वैगुण्यं भजेत तम् उपग्राहयेत् ॥
बह्व्.आबाधं वा यात्रां प्रेषयेत्, मित्र.कुलं वा ॥
यस्माच् च सामन्ताद् आबाधं पश्येत् तम् उत्सव.विवाह.हस्ति.बन्धन.अश्व.पण्य.भूमि.प्रदान.अपदेशेन^अवग्राहयेत्, स्व.मित्रेण वा ॥
ततः संधिम् अदूष्यं कारयेत् ॥
आटविक.अमित्रैर् वा वैरं ग्राहयेत् ॥
तत्.कुलीनम् अपरुद्धं वा भूंय्.एक.देशेन^उपग्राहयेत् ॥
कुल्य.कुमार.मुख्य.उपग्रहं कृत्वा वा कुमारम् अभिषिक्तम् एव दर्शयेत् ॥
दाण्ड.कर्मिकवद् वा राज्य.कण्टकान् उद्धृत्य राज्यं कारयेत् ॥
यदि वा कश्चिन् मुख्यः सामन्त.आदीनाम् अन्यतमः कोपं भजेत तं "एहि, राजानं त्वा करिष्यामि" इत्य् आवाहयित्वा घातयेत् ॥
आपत्.प्रतीकारेण वा साधयेत् ॥
युव.राजे वा क्रमेण राज्य.भारम् आरोप्य राज.व्यसनं ख्यापयेत् ॥
पर.भूमौ राज.व्यसने मित्रेण^अमित्र.व्यञ्जनेन शत्रोः संधिम् अवस्थाप्य^अपगच्छेत् ॥
सामन्त.आदीनाम् अन्यतमं वा^अस्य दुर्गे स्थापयित्वा^अपगच्छेत् ॥
कुमारम् अभिषिच्य वा प्रतिव्यूहेत ॥
परेण^अभियुक्तो वा यथा.उक्तम् आपत्.प्रतीकारं कुर्यात् ॥
एवम् एक.ऐश्वर्यम् अमात्यः कारयेद् इति कौटिल्यः ॥
"न^एवम्" इति भारद्वाजः ॥
"प्रम्रियमाणे वा राजन्य् अमात्यः कुल्य.कुमार.मुख्यान् परस्परं मुख्येषु वा विक्रमयेत् ॥
विक्रान्तं प्रकृति.कोपेन घातयेत् ॥
कुल्य.कुमार.मुख्यान् उपांशु.दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥
राज्य.कारणाद्द् हि पिता पुत्रान् पुत्राश् च पितरम् अभिद्रुह्यन्ति, किम् अङ्ग पुनर् अमात्य.प्रकृतिर् ह्य् एक.प्रग्रहो राज्यस्य ॥
तत् स्वयम् उपस्थितं न^अवमन्येत ॥
"स्वयम् आरूढा हि स्त्री त्यज्यमाना^अभिशपति" इति लोक.प्रवादः ॥
कz05.6.31अब्। कालश् च सकृद् अभ्येति यं नरं काल.काङ्क्षिणम् ।
कz05.6.31च्द्। दुर्लभः स पुनस् तस्य कालः कर्म चिकीर्षतः ॥
प्रकृति.कोपकम् अधर्मिष्ठम् अनैकान्तिकं च^एतद् इति कौटिल्यः ॥
राज.पुत्रम् आत्म.संपन्नं राज्ये स्थापयेत् ॥
संपन्न.अभावे^अव्यसनिनं कुमारं राज.कन्यां गर्भिणीं देवीं वा पुरस्.कृत्य महा.मात्रान् संनिपात्य ब्रूयात् "अयं वो निक्षेपः, पितरम् अस्य^अवेक्षध्वं सत्त्व.अभिजनम् आत्मनश् च, ध्वज.मात्रो^अयं भवन्त एव स्वामिनः, कथं वा क्रियताम्" इति ॥
तथा ब्रुवाणं योग.पुरुषा ब्रूयुः "को^अन्यो भवत्.पुरोगाद् अस्माद् राज्ञश् चातुर्वर्ण्यम् अर्हति पालयितुम्" इति ॥
"तथा" इत्य् अमात्यः कुमारं राज.कन्यां गर्भिणीं देवीं वा^अधिकुर्वीत, बन्धु.संबन्धिनां मित्र.अमित्र.दूतानां च दर्शयेत् ॥
भक्त.वेतन.विशेषम् अमात्यानाम् आयुधीयानां च कारयेत्, "भूयश् च^अयं वृद्धः करिष्यति" इति ब्रूयात् ॥
एवं दुर्ग.राष्ट्र.मुख्यान् आभाषेत, यथा.अर्हं च मित्र.अमित्र.पक्षम् ॥
विनय.कर्मणि च कुमारस्य प्रयतेत ॥
कन्यायां समान.जातीयाद् अपत्यम् उत्पाद्य वा^अभिषिञ्चेत् ॥
मातुश् चित्त.क्षोभ.भयात् कुल्यम् अल्प.सत्त्वं छात्रं च लक्षण्यम् उपनिदध्यात् ॥
ऋतौ च^एनां रक्षेत् ॥
न च^आत्म.अर्थं कंचिद् उत्कृष्टम् उपभोगं कारयेत् ॥
राज.अर्थं तु यान.वाहन.आभरण.वस्त्र.स्त्री.वेश्म.परिवापान् कारयेत् ॥
कz05.6.45अब्। यौवनस्थं च याचेत विश्रमं चित्त.कारणात् ।
कz05.6.45च्द्। परित्यजेद् अतुष्यन्तं तुष्यन्तं च^अनुपालयेत् ॥
कz05.6.46अब्। निवेद्य पुत्र.रक्षा.अर्थं गूढ.सार.परिग्रहान् ।
कz05.6.46च्द्। अरण्यं दीर्घ.सत्त्रं वा सेवेत^आरुच्यतां गतः ॥
कz05.6.47अब्। मुख्यैर् अवगृहीतं वा राजानं तत्.प्रिय.आश्रितः ।
कz05.6.47च्द्। इतिहास.पुराणाभ्यां बोधयेद् अर्थ.शास्त्रवित् ॥
कz05.6.48अब्। सिद्ध.व्यञ्जन.रूपो वा योगम् आस्थाय पार्थिवम् ।
कz05.6.48च्द्। लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकम् आचरेत् ॥ए
((मण्डल.योनिः षष्ठम् अधिकरणम्))
(षण्.णवतितमं प्रकरणं - प्रकृति.सम्पदह्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0