अर्थशास्त्र · अध्याय 05.4
लोक.यात्राविद् राजानम् आत्म.द्रव्य.प्रकृति.संपन्नं प्रिय.हित.द्वारेण^आश्रयेत ॥
यं वा मन्येत "यथा^अहम् आश्रय.ईप्सुर् एवम् असौ विनय.ईप्सुर् आभिगामिक.गुण.युक्तः" इति, द्रव्य.प्रकृति.हीनम् अप्य् एनम् आश्रयेत, न त्व् एव^अनात्म.संपन्नम् ॥
अनात्मवा हि नीति.शास्त्र.द्वेषाद् अनर्थ्य.संयोगाद् वा प्राप्य^अपि महद् ऐश्वर्यं न भवति ॥
आत्मवति लब्ध.अवकाशः शास्त्र.अनुयोगं दद्यात् ॥
अविसंवादाद्द् हि स्थान.स्थैर्यम् अवाप्नोति ॥
मति.कर्मसु पृष्ठस् तदात्वे च^आयत्यां च धर्म.अर्थ.संयुक्तं समर्थं प्रवीणवद् अपरिषद्.भीरुः कथयेत् ॥
ईप्सितः पणेत "धर्म.अर्थ.अनुयोगम् अविशिष्टेषु बलवत्.संयुक्तेषु दण्ड.धारणं मत्.संयोगे तदात्वे च दण्ड.धारणम् इति न कुर्याः, पक्षं वृत्तिं गुह्यं च मे न^उपहन्याः, संज्ञया च त्वां काम.क्रोध.दण्डनेषु वारयेयम्" इति ॥
आदिष्टः प्रदिष्टायां भूमाव् अनुज्ञातः प्रविशेत्, उपविशेच् च पार्श्वतः संनिकृष्ट.विप्रकृष्टः पर.आसनम् ॥
विगृह्य कथनम् असभ्यम् अप्रत्यक्षम् अश्रद्धेयम् अनृतं च वाक्यम् उच्चैर् अनर्मणि हासं वात.ष्ठीवने च शब्दवती न कुर्यात् ॥
मिथः कथनम् अन्येन, जन.वादे द्वन्द्व.कथनम्, राज्ञो वेषम् उद्धत.कुहकानां च, रत्न.अतिशय.प्रकाश.अभ्यर्थनम्, एक.अक्ष्य्.ओष्ठ.निर्भोगं भ्रुकुटी.कर्म वाक्य.अवक्षेपणं च ब्रुवति, बलवत् संयुक्त.विरोधम्, स्त्रीभिः स्त्री.दर्शिभिः सामन्त.दूतैर् द्वेष्य.पक्ष.अवक्षिप्तान् अर्थ्यैश् च प्रतिसंसर्गम् एक.अर्थ.चर्यां संघातं च वर्जयेत्
॥
कz05.4.11अब्। अहीन.कालं राज.अर्थं स्व.अर्थं प्रिय.हितैः सह ।
कz05.4.11च्द्। पर.अर्थं देश.काले च ब्रूयाद् धर्म.अर्थ.संहितम् ॥
कz05.4.12अब्। पृष्टः प्रिय.हितं ब्रूयान् न ब्रूयाद् अहितं प्रियम् ।
कz05.4.12च्द्। अप्रियं वा हितं ब्रूयात्^शृण्वतो^अनुमतो मिथः ॥
कz05.4.13अब्। तूष्णीं वा प्रतिवाक्ये स्याद् वेष्य.आदींश् च न वर्णयेत् ।
कz05.4.13च्द्। अप्रिया अपि दक्षाः स्युस् तद्.भावाद् ये बहिष्.कृताः ॥
कz05.4.14अब्। अनर्थ्याश् च प्रिया दृष्टाश् चित्त.ज्ञान.अनुवर्तिनः ।
कz05.4.14च्द्। अभिहास्येष्व् अभिहसेद् घोर.हासांश् च वर्जयेत् ॥ए
कz05.4.15अब्। परात् संक्रामयेद् घोरं न च घोरं परे वदेत् ।
कz05.4.15च्द्। तितिक्षेत^आत्मनश् चैव क्षमावान् पृथिवी.समः ॥
कz05.4.16अब्। आत्म.रक्षा हि सततं पूर्वं कार्या विजानता ।
कz05.4.16च्द्। अग्नाव् इव हि संप्रोक्ता वृत्ती राजा^उपजीविनाम् ॥
कz05.4.17अब्। एक.देशं दहेद् अग्निः शरीरं वा परं गतः ।
कz05.4.17च्द्। स-पुत्र.दारं राजा तु घातयेद् अर्धयेत वा ॥ए
(प्रोपेर् बेहविओउर् fओर् अ चोउर्तिएर्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0