भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 05.3

05.3.01

दुर्ग.जन.पद.शक्त्या भृत्य.कर्म समुदय.पादेन स्थापयेत्, कार्य.साधन.सहेन वा भृत्य.लाभेन ॥

05.3.02

शरीरम् अवेक्षेत, न धर्म.अर्थौ पीडयेत् ॥

05.3.03

ऋत्विग्.आचार्य.मन्त्रि.पुरोहित.सेना.पति.युव.राज.राज.मातृ.राज.महिष्यो^अष्ट.चत्वारिंशत्.साहस्राः ॥

05.3.04

एतावता भरणेन^अनास्पद्यत्वम् अकोपकं च^एषां भवति ॥

05.3.05

दौवारिक.अन्तर्.वंशिक.प्रशास्तृ.समाहर्तृ.संनिधातारश् चतुर्.विंशति.साहस्राः ॥

05.3.06

एतावता कर्मण्या भवन्ति ॥

05.3.07

कुमार.कुमार.मातृ.नायक.पौर.व्यावहारिक.कार्मान्तिक.मन्त्रि.परिषद्.राष्ट्र.अन्त.पालाश् च द्वादश.साहस्राः ॥

05.3.08

स्वामि.परिबन्ध.बल.सहाया ह्य् एतावता भवन्ति ॥

05.3.09

श्रेणी.मुख्या हस्त्य्.अश्व.रथ.मुख्याः प्रदेष्टारश् च^अष्ट.साहस्राः ॥

05.3.10

स्व.वर्ग.अनुकर्षिणो ह्य् एतावता भवन्ति ॥

05.3.11

पत्त्य्.अश्व.रथ.हस्त्य्.अध्यक्षा द्रव्य.हस्ति.वन.पालाश् च चतुः.साहस्राः ॥

05.3.12

रथिक.अनीकस्थ.चिकित्सक.अश्व.दमक.वर्धकयो योनि.पोषकाश् च द्वि.साहस्राः ॥

05.3.13

कार्तान्तिक.नैमित्तिक.मौहूर्तिक.पौराणिक.सूत.मागधाः पुरोहित.पुरुषाः सर्व.अध्यक्षाश् च साहस्राः ॥

05.3.14

शिल्पवन्तः पादाताः संख्यायक.लेखक.आदि.वर्गश् च पञ्च.शताः ॥

05.3.15

कुशीलवास् त्व् अर्ध.तृतीय.शताः, द्वि.गुण.वेतनाश् च^एषां तूर्य.कराः ॥

05.3.16

कारु.शिल्पिनो विंशति.शतिकाः ॥

05.3.17

चतुष्पद.द्विपद.परिचारक.पारिकर्मिक.औपस्थायिक.पालक.विष्टि.बन्धकाः षष्टि.वेतनाः, आर्य.युक्त.आरोहक.माणवक.शैल.खनकाः सर्व.उपस्थायिनश् च ॥

05.3.18

आचार्या विद्यावन्तश् च पूजा.वेतनानि यथा.अर्हं लभेरन् पञ्च.शत.अवरं सहस्र.परम् ॥

05.3.19

दश.पणिको योजने दूतो मध्यमः, दश.उत्तरे द्वि.गुण.वेतन आ.योजन.शताद् इति ॥

05.3.20

समान.विद्येभ्यस् त्रि.गुण.वेतनो राजा राज.सूय.आदिषु क्रतुषु ॥

05.3.21

राज्ञः सारथिः साहस्रः ॥

05.3.22

कापटिक.उदास्थित.गृह.पतिक.वैदेहक.तापस.व्यञ्जनाः साहस्राः ॥

05.3.23

ग्राम.भृतक.सत्त्रि.तीक्ष्ण.रसद.भिक्षुक्यः पञ्च.शताः ॥

05.3.24

चार.संचारिणो^अर्ध.तृतीय.शताः, प्रयास.वृद्ध.वेतना वा ॥

05.3.25

शत.वर्ग.सहस्र.वर्गाणाम् अध्यक्षा भक्त.वेतन.लाभम् आदेशं विक्षेपं च कुर्युः ॥

05.3.26

अविक्षेपो राज.परिग्रह.दुर्ग.राष्ट्र.रक्ष.अवेक्षणेषु च ॥

05.3.27

नित्य.मुख्याः स्युर् अनेक.मुख्याश् च ॥

05.3.28

कर्मसु मृतानां पुत्र.दारा भक्त.वेतनं लभेरन् ॥

05.3.29

बाल.वृद्ध.व्याधिताश् च^एषाम् अनुग्राह्याः ॥

05.3.30

प्रेत.व्याधित.सूतिका.कृत्येषु च^एषाम् अर्थ.मान.कर्म कुर्यात् ॥

05.3.31

अल्प.कोशः कुप्य.पशु.क्षेत्राणि दद्यात्, अल्पं च हिरण्यम् ॥

05.3.32

शून्यं वा निवेशयितुम् अभ्युत्थितो हिरण्यम् एव दद्यात्, न ग्रामं ग्राम.संजात.व्यवहार.स्थापन.अर्थम् ॥

05.3.33

एतेन भृतानाम् अभृतानां च विद्या.कर्मभ्यां भक्त.वेतन.विशेषं च कुर्यात् ॥

05.3.34

षष्टि.वेतनस्य^आढकं कृत्वा हिरण्य.अनुरूपं भक्तं कुर्यात् ॥

05.3.35

पत्त्य्.अश्व.रथ.द्विपाः सूर्य.उदये बहिः संधि.दिवस.वर्जं शिल्प.योग्याः कुर्युः ॥

05.3.36

तेषु राजा नित्य.युक्तः स्यात्, अभीक्ष्णं च^एषां शिल्प.दर्शनं कुर्यात् ॥

05.3.37

कृत.नर.इन्द्र.अङ्कं शस्त्र.आवरणम् आयुध.अगारं प्रवेशयेत् ॥

05.3.38

अशस्त्राश् चरेयुः, अन्यत्र मुद्रा.अनुज्ञातात् ॥

05.3.39

नष्टं.विनष्टं वा द्वि.गुणं दद्यात् ॥

05.3.40

विध्वस्त.गणनां च कुर्यात् ॥

05.3.41

सार्थिकानां शस्त्र.आवरणम् अन्त.पाला गृह्णीयुः, समुद्रम् अवचारयेयुर् वा ॥

05.3.42

यात्राम् अभ्युत्थितो वा सेनाम् उद्योजयेत् ॥

05.3.43

ततो वैदेहक.व्यञ्जनाः सर्व.पण्यान्य् आयुधीयेभ्यो यात्रा.काले द्वि.गुण.प्रत्यादेयानि दद्युः ॥

05.3.44

एवं राज.पण्य.योग.विक्रयो वेतन.प्रत्यादानं च भवति ॥

05.3.45

एवम् अवेक्षित.आय.व्ययः कोश.दण्ड.व्यसनं न^अवाप्नोति ॥

05.3.46

इति भक्त.वेतन.विकल्पः ॥
कz05.3.47अब्। सत्त्रिणश् च^आयुधीयानां वेश्याः कारु.कुशीलवाः ।
कz05.3.47च्द्। दण्ड.वृद्धाश् च जानीयुः शौच.अशौचम् अतन्द्रिताः ॥ए
(प्रोपेर् चोन्दुच्त् fओर् अ देपेन्दन्त्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc