भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 04.4

04.4.01

समाहर्तृ.प्रणिधौ जन.पद.रक्षणम् उक्तम् ॥

04.4.02

तस्य कण्टक.शोधनं वक्ष्यामः ॥

04.4.03

समाहर्ता जन.पदे सिद्ध.तापस.प्रव्रजित.चक्र.चर.चारण.कुहक.प्रच्छन्दक.कार्तान्तिक.नैमित्तिक.मौहूर्तिक.चिकित्सक.उन्मत्त.मूक.बधिर.जड.अन्ध.वैदेहक.कारु.शिल्पि.कुशीलव.वेश.शौण्डिक.आपूपिक.पाक्व.मांसिक.औदनिक.व्यञ्जनान् प्रणिदध्यात् ॥

04.4.04

ते ग्रामाणाम् अध्यक्षाणां च शौच.आशौचं विद्युः ॥

04.4.05

यं च^अत्र गूढ.आजीविनं शङ्केत तं सत्त्रिणा^अपसर्पयेत् ॥

04.4.06

धर्मस्थं विश्वास.उपगतं सत्त्री ब्रूयात् - "असौ मे बन्धुर् अभियुक्तः, तस्य^अयम् अनर्थः प्रतिक्रियताम्, अयं च^अर्थः प्रतिगृह्यताम्" इति ॥

04.4.07

स चेत् तथा कुर्याद् उपदा.ग्राहक इति प्रवास्येत ॥

04.4.08

तेन प्रदेष्टारो व्याख्याताः ॥

04.4.09

ग्राम.कूटम् अध्यक्षं वा सत्त्री ब्रूयात् - "असौ जाल्मः प्रभूत.द्रव्यः, तस्य^अयम् अनर्थः, तेन^एनम् आहारयस्व" इति ॥

04.4.10

स चेत् तथा कुर्याद् उत्कोचक इति प्रवास्येत ॥

04.4.11

कृतक.अभियुक्तो वा कूट.साक्षिणो^अभिज्ञात.अनर्थ.वैपुल्येन^आरभेत ॥

04.4.12

ते चेत् तथा कुर्युः कूट.साक्षिण इति प्रवास्येरन् ॥

04.4.13

तेन कूट.श्रावण.कारका व्याख्याताः ॥

04.4.14

यं वा मन्त्र.योग.मूल.कर्मभिः श्माशानिकैर् वा संवदन.करकं मन्येत तं सत्त्री ब्रूयात् - "अमुष्य भार्यां स्नुषां दुहितरं वा कामये, सा मां प्रतिकामयताम्, अयं च^अर्थः प्रतिगृह्यताम्" इति ॥

04.4.15

स चेत् तथा कुर्यात् संवदन.कारक इति प्रवास्येत ॥

04.4.16

तेन कृत्य.अभिचार.शीलौ व्याख्यातौ ॥

04.4.17

यं वा रसस्य कर्तारं क्रेतारं विक्रेतारं भैषज्य.आहार.व्यवहारिणं वा रसदं मन्येत तं सत्त्री ब्रूयात् - "असौ मे शत्रुः, तस्य^उपघातः क्रियताम्, अयं च^अर्थः प्रतिगृह्यताम्" इति ॥

04.4.18

स चेत् तथा कुर्याद् रसद इति प्रवास्येत ॥

04.4.19

तेन मदन.योग.व्यवहारी व्याख्यातः ॥

04.4.20

यं वा नाना.लोह.क्षाराणाम् अङ्गार.भस्म.असंदंश.मुष्टिक.अधिकरणी.बिम्ब.टङ्क.मूषाणाम् अभीक्ष्ण.क्रेतारं मषी.भस्म.धूम.दिग्ध.हस्त.वस्त्र.लिङ्गं कर्मार.उपकरण.संसर्गं कूट.रूप.कारकं मन्येत तं सत्त्री शिष्यत्वेन संव्यवहारेण च^अनुप्रविश्य प्रज्ञापयेत् ॥

04.4.21

प्रज्ञातः कूट.रूप.कारक इति प्रवास्येत ॥

04.4.22

तेन रागस्य^अपहर्ता कूट.सुवर्ण.व्यवहारी च व्याख्यातः ॥
कz04.4.23अब्। आरब्धारस् तु हिंसायां गूढ.आजीवास् त्रयोदश ।
कz04.4.23च्द्। प्रवास्या निष्क्रय.अर्थं वा दद्युर् दोष.विशेषतः ॥ए
(डेतेच्तिओन् ओf च्रिमिनल्स् थ्रोउघ् सेच्रेत् अगेन्त्स् इन् थे दिस्गुइसे ओf होल्य् मेन्)

04.4.46

तेन दोषेण^इतरे नियन्तव्याः ॥

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc