भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 04.5

04.5.01

सत्त्रि.प्रयोगाद् ऊर्ध्वं सिद्ध.व्यञ्जना माणवान् माणव.विद्याभिः प्रलोभयेयुः, प्रस्वापन.अन्तर्.धान.द्वार.अपोह.मन्त्रेण प्रतिरोधकान्, संवदन.मन्त्रेण पारतल्पिकान् ॥

04.5.02

तेषां कृत.उत्साहानां महान्तं संघम् आदाय रात्राव् अन्यं ग्रामम् उद्दिश्य^अन्यं ग्रामं कृतक.स्त्री.पुरुषं गत्वा ब्रूयुः - "इह^एव विद्या.प्रभावो दृश्यतां, कृच्छ्रः पर.ग्रामो गन्तुम्" इति ॥

04.5.03

ततो द्वार.अपोह.मन्त्रेण द्वाराण्य् अपोह्य "प्रविश्यताम्" इति ब्रूयुः ॥

04.5.04

अन्तर्.धान.मन्त्रेण जाग्रताम् आरक्षिणां मध्येन माणवान् अतिक्रामयेयुः ॥

04.5.05

प्रस्वापन.मन्त्रेण प्रस्वापयित्वा रक्षिणः शयाभिर् माणवैः संचारयेयुः ॥

04.5.06

संवदन.मन्त्रेण भार्या.व्यञ्जनाः परेषां माणवैः सम्मोदयेयुः ॥

04.5.07

उपलब्ध.विद्या.प्रभावाणां पुरश्चरणा.आद्य् आदिशेयुर् अभिज्ञान.अर्थम् ॥

04.5.08

कृत.लक्षण.द्रव्येषु वा वेश्मसु कर्म कारयेयुः ॥

04.5.09

अनुप्रविष्टा वा^एकत्र ग्राहयेयुः ॥

04.5.10

कृत.लक्षण.द्रव्य.क्रय.विक्रय.आधानेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥

04.5.11

गृहीतान् पूर्व.अपदान.सहायान् अनुयुञ्जीत ॥

04.5.12

पुराण.चोर.व्यञ्जना वा चोरान् अनुप्रविष्टास् तथा^एव कर्म कारयेयुर् ग्राहयेयुश् च ॥

04.5.13

गृहीतान् समाहर्ता पौर.जानपदानां दर्शयेत् - "चोर.ग्रहणीं विद्याम् अधीते राजा, तस्य^उपदेशाद् इमे चोरा गृहीताः, भूयश् च ग्रहीष्यामि, वारयितव्यो वः स्व.जनः पाप.आचारह्^" इति ॥

04.5.14

यं च^अत्र^अपसर्प.उपदेशेन शम्या.प्रतोद.आदीनाम् अपहर्तारं जानीयात् तम् एषां प्रत्यादिशेत् "एष राज्ञः प्रभावः" इति ॥

04.5.15

पुराण.चोर.गो.पालक.व्याध.श्व.गणिनश् च वन.चोर.आटविकान् अनुप्रविष्टाः प्रभूत.कूट.हिरण्य.कुप्य.भाण्डेषु सार्थ.व्रज.ग्रामेष्व् एनान् अभियोजयेयुः ॥

04.5.16

अभियोगे गूढ.बलैर् घातयेयुः, मदन.रस.युक्तेन वा पथ्य्.अदनेन ॥

04.5.17

गृहीत.लोप्त्र.भारान् आयत.गत.परिश्रान्तान् प्रस्वपतः प्रहवणेषु योग.सुरा.मत्तान् वा ग्राहयेयुः ॥
कz04.5.18अब्। पूर्ववच् च गृहीत्वा^एनान् समाहर्ता प्ररूपयेत् ।
कz04.5.18च्द्। सर्वज्ञ.ख्यापनं राज्ञः कारयन् राष्ट्र.वासिषु ॥ए
(अर्रेस्त् ओन् सुस्पिचिओन्, wइथ् थे स्तोलेन् अर्तिच्ले अन्द् ब्य् इन्दिचतिओन्स् ओf थे अच्त्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc