भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 04.3

04.3.01

दैवान्य् अष्टौ महा.भयानि - अग्निर् उदकं व्याधिर् दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि^इति ॥

04.3.02

तेभ्यो जन.पदं रक्षेत् ॥

04.3.03

ग्रीष्मे बहिर्.अधिश्रयणं ग्रामाः कुर्युः, दश.मूली.संग्रहेण^अधिष्ठिता वा ॥

04.3.04

नागरिक.प्रणिधाव् अग्नि.प्रतिषेधो व्याख्यातः, निशान्त.प्रणिधौ राज.परिग्रहे च ॥

04.3.05

बलि.होम.स्वस्ति.वाचनैः पर्वसु च^अग्नि.पूजाः कारयेत् ॥

04.3.06

वर्षा.रात्रम् आनूप.ग्रामाः पूर.वेलाम् उत्सृज्य वसेयुः ॥

04.3.07

काष्ठ.वेणु.नावश् च^उपगृह्णीयुः ॥

04.3.08

उह्यमानम् अलाबु.दृति.प्लव.गण्डिका.वेणिकाभिस् तारयेयुः ॥

04.3.09

अनभिसरतां द्वादश.पणो दण्डः, अन्यत्र प्लव.हीनेभ्यः ॥

04.3.10

पर्वसु च नदी.पूजाः कारयेत् ॥

04.3.11

माया.योगविदो वेदविदो वा वर्षम् अभिचरेयुः ॥

04.3.12

वर्ष.अवग्रहे शची.नाथ.गङ्गा.पर्वत.महा.कच्छ.पूजाः कारयेत् ॥

04.3.13

व्याधि.भयम् औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश् चिकित्सकाः शान्ति.प्रायश्चित्तैर् वा सिद्ध.तापसाः ॥

04.3.14

तेन मरको व्याख्यातः ॥

04.3.15

तीर्थ.अभिषेचनं महा.कच्छ.वर्धनं गवां श्मशान.अवदोहनं कबन्ध.दहनं देव.रात्रिं च कारयेत् ॥

04.3.16

पशु.व्याधि.मरके स्थान.अर्थ.नीराजनं स्व.दैवत.पूजनं च कारयेत् ॥

04.3.17

दुर्भिक्षे राजा बीज.भक्त.उपग्रहं कृत्वा^अनुग्रहं कुर्यात्, दुर्ग.सेतु.कर्म वा भक्त.अनुग्रहेण, भक्त.संविभागं वा, देश.निक्षेपं वा ॥

04.3.18

मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात् ॥

04.3.19

निष्पन्न.सस्यम् अन्य.विषयं वा सजन.पदो यायात्, समुद्र.सरस्.तटाकानि वा संश्रयेत ॥

04.3.20

धान्य.शाक.मूल.फल.आवापान् वा सेतुषु कुर्वीत, मृग.पशु.पक्षि.व्याल.मत्स्य.आरम्भान् वा ॥

04.3.21

मूषिक.भये मार्जार.नकुल.उत्सर्गः ॥

04.3.22

तेषां ग्रहण.हिंसायां द्वादश.पणो दण्डः, शुनाम् अनिग्रहे च^अन्यत्र^अरण्य.चरेभ्यः ॥

04.3.23

स्नुहि.क्षीर.लिप्तानि धान्यानि विसृजेद्, उपनिषद्.योग.युक्तानि वा ॥

04.3.24

मूषिक.करं वा प्रयुञ्जीत ॥

04.3.25

शान्तिं वा सिद्ध.तापसाः कुर्युः ॥

04.3.26

पर्वसु च मूषिक.पूजाः कारयेत् ॥

04.3.27

तेन शलभ.पक्षि.क्रिमि.भय.प्रतीकारा व्याख्याताः ॥

04.3.28

व्याल.भये मदन.रस.युक्तानि पशु.शवानि प्रसृजेत्, मदन.कोद्रव.पूर्णान्य् औदर्याणि वा ॥

04.3.29

लुब्धकाः श्व.गणिनो वा कूट.पञ्जर.अवपातैश् चरेयुः ॥

04.3.30

आवरणिनः शस्त्र.पाणयो व्यालान् अभिहन्युः ॥

04.3.31

अनभिसर्तुर् द्वादश.पणो दण्डः ॥

04.3.32

स एव लाभो व्याल.घातिनः ॥

04.3.33

पर्वसु च पर्वत.पूजाः कारयेत् ॥

04.3.34

तेन मृग.पशु.पक्षि.संघ.ग्राह.प्रतीकारा व्याख्याताः ॥

04.3.35

सर्प.भये मन्त्रैर् ओषधिभिश् च जाङ्गुलीविदश् चरेयुः ॥

04.3.36

सम्भूय वा^अपि सर्पान् हन्युः ॥

04.3.37

अथर्व.वेदविदो वा^अभिचरेयुः ॥

04.3.38

पर्वसु च नाग.पूजाः कारयेत् ॥

04.3.39

तेन^उदक.प्राणि.भय.प्रतीकारा व्याख्याताः ॥

04.3.40

रक्षो.भये रक्षो.घ्नान्य् अथर्व.वेदविदो माया.योगविदो वा कर्माणि कुर्युः ॥

04.3.41

पर्वसु च वितर्दिच्.छत्र.उल्लोपिका.हस्त.पताकाच्.छाग.उपहारैश् चैत्य.पूजाः कारयेत् ॥

04.3.42

"चरुं वश् चरामः" इत्य् एवं सर्व.भयेष्व् अहो.रात्रं चरेयुः ॥

04.3.43

सर्वत्र च^उपहतान् पिता^इव^अनुगृह्णीयात् ॥
कz04.3.44अब्। माया.योगविदस् तस्माद् विषये सिद्ध.तापसाः ।
कz04.3.44च्द्। वसेयुः पूजिता राज्ञा दैव.आपत्.प्रतिकारिणः ॥ए
(ङुअर्दिन्ग् अगैन्स्त् पेर्सोन्स् wइथ् सेच्रेत् मेअन्स् ओf इन्चोमे)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc