भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 04.13

04.13.01

ब्राह्मणम् अपेयम् अभक्ष्यं वा ग्रासयत उत्तमो दण्डः, क्षत्रियं मध्यमः, वैश्यं पूर्वः साहस.दण्डः, शूद्रं चतुष्.पञ्चाशत्.पणो दण्डः ॥

04.13.02

स्वयं ग्रसितारो निर्विषयाः कार्याः ॥

04.13.03

पर.गृह.अभिगमने दिवा पूर्वः साहस.दण्डः, रात्रौ मध्यमः ॥

04.13.04

दिवा रात्रौ वा सशस्त्रस्य प्रविशत उत्तमो दण्डः ॥

04.13.05

भिक्षुक.वैदेहकौ मत्त.उन्मत्तौ बलाद् आपदि च^अतिसंनिकृष्टाः प्रवृत्त.प्रवेशाश् च^अदण्ड्याः, अन्यत्र प्रतिषेधात् ॥

04.13.06

स्व.वेश्मनो विरात्राद् ऊर्ध्वं परिवारम् आरोहतः पूर्वः साहस.दण्डः, पर.वेश्मनो मध्यमः, ग्राम.आराम.वाट.भेदिनश् च ॥

04.13.07

ग्रामेष्व् अन्तः सार्थिका ज्ञात.सारा वसेयुः ॥

04.13.08

मुषितं प्रवासितं च^एषाम् अनिर्गतं रात्रौ ग्राम.स्वामी दद्यात् ॥

04.13.09

ग्राम.अन्तरेषु वा मुषितं प्रवासितं विवीत.अध्यक्षो दद्यात् ॥

04.13.10

अविवीतानां चोर.रज्जुकः ॥

04.13.11

तथा^अप्य् अगुप्तानां सीम.अवरोधेन विचयं दद्युः ॥

04.13.12

असीम.अवरोधे पञ्च.ग्रामी दश.ग्रामी वा ॥

04.13.13

दुर्बलं वेश्म शकटम् अनुत्तब्धम् ऊर्ध.स्तंभं शस्त्रम् अनपाश्रयम् अप्रतिच्छन्नं श्वभ्रं कूपं कूट.अवपातं वा कृत्वा हिंसायां दण्ड.पारुष्यं विद्यात् ॥

04.13.14

वृक्षच्.छेदने दंय.रश्मि.हरणे चतुष्पदानाम् अदान्त.सेवने वाहने वा काष्ठ.लोष्ट.पाषाण.दण्ड.बाण.बाहु.विक्षेपणेषु याने हस्तिना च स्मघट्टने "अपेहि" इति प्रकोशन्न् अदण्ड्यः ॥

04.13.15

हस्तिना रोषितेन हतो द्रोण.अन्नं मद्य.कुंभं माल्य.अनुलेपनं दन्त.प्रमार्जनं च पटं दद्यात् ॥

04.13.16

अश्व.मेध.अवभृथ.स्नानेन तुल्यो हस्तिना वध इति पाद.प्रक्षालनम् ॥

04.13.17

उदासीन.वधे यातुर् उत्तमो दण्डः ॥

04.13.18

शृङ्गिणा दंष्ट्रिणा वा हिंस्यमानम् अमोक्षयतः स्वामिनः पूर्वः साहस.दण्डः, प्रतिक्रुष्टस्य द्वि.गुणः ॥

04.13.19

शृङ्गि.दंष्ट्रिभ्याम् अन्योन्यं घातयतस् तच् च तावच् च दण्डः ॥

04.13.20

देव.पशुम् ऋषभम् उक्षाणं गो.कुमारीं वा वाहयतः पञ्च.शतो दण्डः, प्रवासयत उत्तमः ॥

04.13.21

लोम.दोह.वाहन.प्रजनन.उपकारिणां क्षुद्र.पशूनाम् अदाने तच् च तावच् च दण्डः, प्रवासने च, अन्यत्र देव.पितृ.कार्येभ्यः ॥

04.13.22

छिन्न.नस्यं भग्न.युगं तिर्यक्.प्रतिमुख.आगतं प्रत्यासरद् वा चक्र.युक्तं याता पशु.मनुष्य.संबाधे वा हिंसायाम् अदण्ड्यः ॥

04.13.23

अन्यथा यथा.उक्तं मानुष.प्राणि.हिंसायां दण्डम् अभ्यावहेत् ॥

04.13.24

अमानुष.प्राणि.वधे प्राणि.दानं च ॥

04.13.25

बाले यातरि यानस्थः स्वामी दण्ड्यः, अस्वामिनि यानस्थः, प्राप्त.व्यवहारो वा याता ॥

04.13.26

बाल.अधिष्ठितम् अपुरुषं वा यानं राजा हरेत् ॥

04.13.27

कृत्य.अभिचाराभ्यां यत्.परम् आपादयेत् तद्.आपादयितव्यः ॥

04.13.28

कामं भार्यायाम् अनिच्छन्त्यां कन्यायां वा दार.अर्थिनो भर्तरि भार्याया वा संवदन.करणम् ॥

04.13.29

अन्यथा.हिंसायां मध्यमः साहस.दण्डः ॥

04.13.30

माता.पित्रोर् भगिनीं मातुलानीम् आचार्याणीं स्नुषां दुहितरं भगिनीं वा^अधिचरतस् त्रि.लिङ्गच्.छेदनं वधश् च ॥

04.13.31

सकामा तद् एव लभेत, दास.परिचारक.आहितक.भुक्ता च ॥

04.13.32

ब्राह्मण्याम् अगुप्तायां क्षत्रियस्य^उत्तमः, सर्व.स्वं वैश्यस्य, शूद्रः कट.अग्निना दह्येत ॥

04.13.33

सर्वत्र राज.भार्या.गमने कुंभी.पाकः ॥

04.13.34

श्व.पाकी.गमने कृत.कबन्ध.अङ्कः पर.विषयं गच्छेत्, श्व.पाकत्वं वा शूद्रः ॥

04.13.35

श्व.पाकस्य^आर्या.गमने वधः, स्त्रियाः कर्ण.नास.आच्छेदनम् ॥

04.13.36

प्रव्रजिता.गमने चतुर्.विंशति.पणो दण्डः ॥

04.13.37

सकामा तद् एव लभेत ॥

04.13.38

रूप.आजीवायाः प्रसह्य.उपभोगे द्वादश.पणो दण्डः ॥

04.13.39

बहूनाम् एकाम् अधिचरतां पृथक् चतुर्.विंशति.पणो दण्डः ॥

04.13.40

स्त्रियम् अयोनौ गच्छतः पूर्वः साहस.दण्डः, पुरुषम् अधिमेहतश् च ॥
कz04.13.41अब्। मैथुने द्वादश.पणस् तिर्यग्.योनिष्व् अनात्मनः ।
कz04.13.41च्द्। दैवत.प्रतिमानां च गमने द्वि.गुणः स्मृतः ॥
कz04.13.42अब्। अदण्ड्य.दण्डने राज्ञो दण्डस् त्रिंशद्.गुणो^अंभसि ।
कz04.13.42च्द्। वरुणाय प्रदातव्यो ब्राह्मणेभ्यस् ततः परम् ॥
कz04.13.43अब्। तेन तत् पूयते पापं राज्ञो दण्ड.अपचारजम् ।
कz04.13.43च्द्। शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु ॥ए
(इन्fलिच्तिओन् ओf सेच्रेत् पुनिस्ह्मेन्त्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc