अर्थशास्त्र · अध्याय 05.1
दुर्ग.राष्ट्रयोः कण्टक.शोधनम् उक्तम् ॥
राज.राज्ययोर् वक्ष्यामः ॥
राजानम् अवगृह्य^उपजीविनः शत्रु.साधारणा वा ये मुख्यास् तेषु गूढ.पुरुष.प्रणिधिः कृत्य.पक्ष.उपग्रहो वा सिद्धिः यथा.उक्तं पुरस्ताद्, उपजापो^अपसर्पो वा यथा पारग्रामिके वक्ष्यामः ॥
राज्य.उपघातिनस् तु वल्लभाः संहता वा ये मुख्याः प्रकाशम् अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म.रुचिर् उपांशु.दण्डं प्रयुञ्जीत ॥
दूष्य.महा.मात्र.भ्रातरम् असत्.कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ॥
तं राजा दूष्य.द्रव्य.उपभोग.अतिसर्गेण दूष्ये विक्रमयेत् ॥
शस्त्रेण रसेन वा विक्रान्तं तत्र^एव घातयेद् "भ्रातृ.घातको^अयम्" इति ॥
तेन पारशवः परिचारिका.पुत्रश् च व्याख्यातौ ॥
दूष्यं.महामात्रं वा सत्त्रि.प्रोत्साहितो भ्राता दायं याचेत ॥
तं दूष्य.गृह.प्रतिद्वारि रात्राव् उपशयानम् अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद् "हतो^अयं दाय.कामुकः" इति ॥
ततो हत.पक्षम् उपगृह्य^इतरं निगृह्णीयात् ॥
दूष्य.समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ॥
तं रात्रौ इति समानम् ॥
दूष्य.महा.मात्रयोर् वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति, भ्राता वा भ्रातुः, तयोः कापटिक.मुखः कलहः पूर्वेण व्याख्यातः ॥
दूष्य.महा.मात्र.पुत्रम् आत्म.संभावितं वा सत्त्री "राज.पुत्रस् त्वम्, शत्रु.भयाद् इह न्यस्तो^असि" इत्य् उपजपेत् ॥
प्रतिपन्नं राजा रहसि पूजयेत् "प्राप्त.यौवराज्य.कालं त्वां महा.मात्र.भयान् न^अभिषिञ्चामि" इति ॥
तं सत्त्री महा.मात्र.वधे योजयेत् ॥
विक्रान्तं तत्र^एव घातयेत् "पितृ.घातको^अयम्" इति ॥
भिक्षुकी वा दूष्य.भार्यां सांवदनिकीभिर् औषधीभिः संवास्य रसेन^अतिसंदध्यात् ॥
इत्य् आप्य.प्रयोगः ॥
दूष्य.महा.मात्रम् अटवीं पर.ग्रामं वा हन्तुं कान्तार.व्यवहिते वा देशे राष्ट्र.पालम् अन्त.पालं वा स्थापयितुं नागर.स्थानं वा कुपितम् अवग्राहितुं सार्थ.अतिवाह्यं प्रत्यन्ते वा स-प्रत्यादेयम् आदातुं फल्गु.बलं तीक्ष्ण.युक्तं प्रेषयेत् ॥
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक.व्यञ्जना वा हन्युः "अभियोगे हतः" इति ॥
यात्रा.विहार.गतो वा दूष्य.महा.मात्रान् दर्शनाय^आह्वयेत् ॥
ते गूढ.शस्त्रैस् तीक्ष्णैः सह प्रविष्टा मध्यम.कक्ष्यायाम् आत्म.विचयम् अन्तः.प्रवेशन.अर्थं दद्युः ॥
ततो दौवारिक.अभिगृहीतास् तीक्ष्णाः "दूष्य.प्रयुक्ताः स्म" इति ब्रूयुः ॥
ते तद्.अभिविख्याप्य दूष्यान् हन्युः ॥
तीक्ष्ण.स्थाने च^अन्ये वध्याः ॥
बहिर्.विहार.गतो वा दूष्यान् आसन्न.आवासान् पूजयेत् ॥
तेषां देवी.व्यञ्जना वा दुःस्त्री रात्राव् आवासेषु गृह्येत^इति समानं पूर्वेण ॥
दूष्य.महा.मात्रं वा "सूदो भक्ष.कारो वा ते शोभनः" इति स्तवेन भक्ष्य.भोज्यं याचेत, बहिर् वा क्वचिद् अध्व.गतः पानीयम् ॥
तद्.उभयं रसेन योजयित्वा प्रतिस्वादने ताव् एव^उपयोजयेत् ॥
तद्.अभिविख्याप्य "रसदौ" इति घातयेत् ॥
अभिचार.शीलं वा सिद्ध.व्यञ्जनो "गोधा.कूर्म.कर्कटक.कूटानां लक्षण्यानाम् अन्यतम.प्राशनेन मनोरथान् अवाप्स्यसि" इति ग्राहयेत् ॥
प्रतिपन्नं कर्मणि रसेन लोह.मुसलैर् वा घातयेत् "कर्म.व्यापदा हतः" इति ॥
चिकित्सक.व्यञ्जनो वा दौरात्मिकम् असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य.आहार.योगेषु रसेन^अतिसंदध्यात् ॥
सूद.आरालिक.व्यञ्जना वा प्रणिहिता दूष्यं रसेन^अतिसंदध्युः ॥
इत्य् उपनिषत्.प्रतिषेधः ॥
उभय.दूष्य.प्रतिषेधस् तु ॥
यत्र दूष्यः प्रतिषेद्धव्यस् तत्र दूष्यम् एव फल्गु.बल.तीक्ष्ण.युक्तं प्रेषयेत्, गच्छ, अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यम् उत्थापय हिरण्यं वा, वल्लभाद् वा हिरण्यम् आहारय, वल्लभ.कन्यां वा प्रसह्य^आनय, दुर्ग.सेतु.वणिक्.पथ.शून्य.निवेश.खनि.द्रव्य.हस्ति.वन.कर्मणाम् अन्यतमद् वा कारय राष्ट्र.पाल्यम् अन्त.पाल्यं वा^ यश् च त्वा प्रतिषेधयेन्
न वा ते साहाय्यं दद्यात् स बन्धव्यः स्यात्" इति ॥
तथैव^इतरेषां प्रेषयेद् "अमुष्य^अविनयः प्रतिषेद्धव्यः" इति ॥
तम् एतेषु कलह.स्थानेषु कर्म.प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ॥
तेन दोषेण^इतरे नियन्तव्याः ॥
पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा.क्षेत्र.खल.वेश्म.मर्यादासु द्रव्य.उपकरण.सस्य.वाहन.हिंसासु प्रेक्षा.कृत्य^उत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैर् उत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते ये^अमुना कलहायन्ते: इति ॥
तेन दोषेण^इतरे नियन्तव्याः ॥
येषां वा दूष्याणां जात.मूलाः कलहास् तेषां क्षेत्र.खल.वेश्मान्य् आदीपयित्वा बन्धु.संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥
दुर्ग.राष्ट्र.दूष्यान् वा सत्त्रिणः परस्परस्य^आवेशनिकान् कारयेयुः ॥
तत्र रसदा रसं दद्युः ॥
तेन दोषेण^इतरे नियन्तव्याः ॥
भिक्षुकी वा दूष्य.राष्ट्र.मुख्यं "दूष्य.राष्ट्र.मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्य् उपजपेत् ॥
प्रतिपन्नस्य^आभरणम् आदाय स्वामिने दर्शयेत् "असौ ते मुख्यो यौवन.उत्सिक्तो भार्यां स्नुषां दुहितरं वा^अभिमन्यते" इति ॥
तयोः कलहो रात्रौ इति समानम् ॥
दूष्य.दण्ड.उपनतेषु तु - युव.राजः सेना.पतिर् वा किंचिद् अपकृत्य^अपक्रान्तो विक्रमेत ॥
ततो राजा दूष्य.दण्ड.उपनतान् एव प्रेषयेत् फल्गु.बल.तीक्ष्ण.युक्तान् इति समानाः सर्व एव योगाः ॥
तेषां च पुत्रेष्व् अनुक्षियत्सु यो निर्विकारः स पितृ.दायं लभेत ॥
एवम् अस्य पुत्र.पौत्रान् अनुवर्तते राज्यम् अपास्त.पुरुष.दोषम् ॥
कz05.1.57अब्। स्व.पक्षे पर.पक्षे वा तूष्णीं दण्डं प्रयोजयेत् ।
कz05.1.57च्द्। आयत्यां च तदात्वे च क्षमावान् अविशङ्कितः ॥ए
(ऋएप्लेनिस्ह्मेन्त् ओf थे त्रेअसुर्य्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0