भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 04.12

04.12.01

सवर्णाम् अप्राप्त.फलां प्रकुर्वतो हस्त.वधः, चतुः.शतो वा दण्डः ॥

04.12.02

मृतायां वधः ॥

04.12.03

प्राप्त.फलां प्रकुर्वतो मध्यमा.प्रदेशिनी.वधो, द्वि.शतो वा दण्डः ॥

04.12.04

पितुश् च^अवहीनं दद्यात् ॥

04.12.05

न च प्राकाम्यम् अकामायां लब्भेत ॥

04.12.06

सकामायां चतुष्.पञ्चाशत्.पणो दण्डः, स्त्रियास् त्व् अर्ध.दण्डः ॥

04.12.07

पर.शुल्क.अवरुद्धायां हस्त.वधः, चतुः.शतो वा दण्डः, शुल्क.दानं च ॥

04.12.08

सप्त.आर्तव.प्रजातां वरणाद् ऊर्ध्वम् अलभमानः प्रकृत्य प्राकामी स्यात्, न च पितुर् अवहीनं दद्यात् ॥

04.12.09

ऋतु.प्रतिरोधिभिः स्वाम्याद् अपक्रामति ॥

04.12.10

त्रि.वर्ष.प्रजात.आर्तवायास् तुल्यो गन्तुम् अदोषः, ततः परम् अतुल्यो^अप्य् अनलंकृतायाः ॥

04.12.11

पितृ.द्रव्य.आदाने स्तेयं भजेत ॥

04.12.12

परम् उद्दिश्य^अन्यस्य विन्दतो द्वि.शतो दण्डः ॥

04.12.13

न च प्राकांयम् अकामायां लभेत ॥

04.12.14

कन्याम् अन्यां दर्शयित्वा^अन्यां प्रयच्छतः शत्यो दण्डस् तुल्यायाम्, हीनायां द्वि.गुणः ॥

04.12.15

प्रकर्मण्य् अकुमार्याश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्क.व्यय.कर्मणी च प्रतिदद्यात् ॥

04.12.16

अवस्थाय तज्.जातं पश्चात्.कृता द्वि.गुणं दद्यात् ॥

04.12.17

अन्य.शोणित.उपधाने द्विशतो दण्डः, मिथ्या.अभिशंसिनश् च पुंसः ॥

04.12.18

शुल्क.व्यय.कर्मणी च जीयेत ॥

04.12.19

न च प्राकांयम् अकामायां लभेत ॥

04.12.20

स्त्री.प्रकृता सकामा समाना द्वादश.पणं दण्डं दद्यात्, प्रकर्त्री द्वि.गुणम् ॥

04.12.21

अकामायाः शत्यो दण्ड आत्म.राग.अर्थम्, शुल्क.दानं च ॥

04.12.22

स्वयं प्रकृता राज.दास्यं गच्छेत् ॥

04.12.23

बहिर्.ग्रामस्य प्रकृतायां मिथ्या.अभिशंसने च द्वि.गुणो दण्डः ॥

04.12.24

प्रसह्य कन्याम् अपहरतो द्वि.शतः, स-सुवर्णाम् उत्तमः ॥

04.12.25

बहूनां कन्या.अपहारिणां पृथग् यथा.उक्ता दण्डाः ॥

04.12.26

गणिका.दुहितरं प्रकुर्वतश् चतुष्.पञ्चाशत्.पणो दण्डः, शुल्कं मातुर् भोगः षोडश.गुणः ॥04.12.27। दासस्य दास्या वा दुहितरम् अदासीं प्रकुर्वतश् चतुर्.विंशति.पणो दण्डः शुल्क.आबन्ध्य.दानं च ॥

04.12.28

निष्क्रय.अनुरूपां दासीं प्रकुर्वतो द्वादश.पणो दण्डो वस्त्र.आबन्ध्य.दानं च ॥

04.12.29

साचिव्य.अवकाश.दाने कर्तृ.समो दण्डः ॥

04.12.30

प्रोषित.पतिकाम् अपचरन्तीं पति.बन्धुस् तत्.पुरुषो वा संगृह्णीयात् ॥

04.12.31

संगृहीता पतिम् आकाङ्क्षेत ॥

04.12.32

पतिश् चेत् क्षमेत विसृज्येत^उभयम् ॥

04.12.33

अक्षमायां स्त्रियाः कर्ण.नास.आच्छेदनम्, वधं जारश् च प्राप्नुयात् ॥

04.12.34

जारं चोर इत्य् अभिहरतः पञ्च.शतो दण्डः, हिरण्येन मुञ्चतस् तद्.अष्ट.गुणः ॥

04.12.35

केशाकेशिकं संग्रहणम्, उपलिङ्गनाद् वा शरीर.उपभोगानाम्, तज्.जातेभ्यः(तज्.ज्ञातेभ्यः? च्f.ण्12.60)), स्त्री.वचनाद् वा ॥

04.12.36

पर.चक्र.अटवी.हृताम् ओघ.प्रव्यूढाम् अरण्येषु दुर्भिक्षे वा त्यक्तां प्रेत.भाव.उत्सृष्टां वा पर.स्त्रियं निस्तारयित्वा यथा.संभाषितं समुपभुञ्जीत ॥

04.12.37

जाति.विशिष्टाम् अकामाम् अपत्यवतीं निष्क्रयेण दद्यात् ॥
कz04.12.38अब्। चोर.हस्तान् नदी.वेगाद् दुर्भिक्षाद् देश.विभ्रमात् ।
कz04.12.38च्द्। निस्तारयित्वा कान्तारान् नष्टां त्यक्तां मृता^इति वा ॥
कz04.12.39अब्। भुञ्जीत स्त्रियम् अन्येषां यथा.संभाषितं नरः ।
कz04.12.39च्द्। न तु राज.प्रतापेन प्रमुक्तां स्वजनेन वा ॥
कz04.12.40अब्। न च^उत्तमां न च^अकामां पूर्व.अपत्यवतीं न च ।
कz04.12.40च्द्। ईदृशीं त्व् अनुरूपेण निष्क्रयेण^अपवाहयेत् ॥ए
(पुनिस्ह्मेन्त्स् fओर् त्रन्स्ग्रेस्सिओन्स्)

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc