अर्थशास्त्र · अध्याय 04.11
कलहे घ्नतः पुरुषं चित्रो घातः ॥
सप्त.रात्रस्य^अन्तर्.मृते शुद्ध.वधः, पक्षस्य^अन्तर् उत्तमः, मासस्य^अन्तः पञ्च.शतः समुत्थान.व्ययश् च ॥
शस्त्रेण प्रहरत उत्तमो दण्डः ॥
मदेन हस्त.वधः, मोहेन द्वि.शतः ॥
वधे वधः ॥
प्रहारेण गर्भं पातयत उत्तमो दण्डः, भैषज्येन मध्यमः, परिक्लेशेन पूर्वः साहस.दण्डः ॥
प्रसभ.स्त्री.पुरुष.घातक.अभिसारक.निग्राहक.अवघोषक.अवस्कन्दक.उपवेधकान् पथि.वेश्म.प्रतिरोधकान् राज.हस्त्य्.अश्व.रथानां हिंसकान् स्तेनान् वा शूलान् आरोहयेयुः ॥
यश् च^एनान् दहेद् अपनयेद् वा स तम् एव दण्डं लभेत, साहसम् उत्तमं वा ॥
हिंस्र.स्तेनानां भक्त.वास.उपकरण.अग्नि.मन्त्र.दान.वैयावृत्य.कर्मसु^उत्तमो दण्डः, परिभाषणम् अविज्ञाते ॥
हिंस्र.स्तेनानां पुत्र.दारम् असमन्त्रं विसृजेत्, समन्त्रम् आददीत ॥
राज्य.कामुकम् अन्तःपुर.प्रधर्षकम् अटव्य्.अमित्र.उत्साहकं दुर्ग.राष्ट्र.दण्ड.कोपकं वा शिरो.हस्त.प्रदीपिकं घातयेत् ॥
ब्राह्मणं तमः प्रवेशयेत् ॥
मातृ.पितृ.पुत्र.भ्रात्र्.आचार्य.तपस्वि.घातकं वा^अ.त्वक्.शिरः.प्रादीपिकं घातयेत् ॥
तेषाम् आक्रोशे जिह्वाच्.छेदः, अङ्ग.अभिरदने तद्.अङ्गान् मोच्यः ॥
यदृच्छा.घाते पुंसः पशु.यूथ.स्तेये च शुद्ध.वधः ॥
दश.अवरं च यूथं विद्यात् ॥
उदक.धारणं सेतुं भिन्दतस् तत्र^एव^अप्सु निमज्जनम्, अनुदकम् उत्तमः साहस.दण्डः, भग्न.उत्सृष्टकं मध्यमः ॥
विष.दायकं पुरुषं स्त्रियं च पुरुषघ्नीम् अपः प्रवेशयेद् अगर्भिणीम्, गर्भिणीं मास.अवर.प्रजाताम् ॥
पति.गुरु.प्रजा.घातिकाम् अग्नि.विषदां संधिच्.छेदिकां वा गोभिः पाटयेत् ॥
विवीत.क्षेत्र.खल.वेश्म.द्रव्य.हस्ति.वन.आदीपिकम् अग्निना दाहयेत् ॥
राज.आक्रोशक.मन्त्र.भेदकयोर् अनिष्ट.प्रवृत्तिकस्य ब्राह्मण.महानस.अवलेहिनश् च जिह्वाम् उत्पाटयेत् ॥
प्रहरण.आवरण.स्तेनम् अनायुधीयम् इषुभिर् घातयेत् ॥
आयुधीयस्य^उत्तमः ॥
मेढ्र.फल.उपघातिनस् तद् एवच्^छेदयेत् ॥
जिह्वा.नास.उपघाते संदंश.वधः ॥
कz04.11.26अब्। एते शास्त्रेष्व् अनुगताः क्लेश.दण्डा महात्मनाम् ।
कz04.11.26च्द्। अक्लिष्टानां तु पापानां धर्म्यः शुद्ध.वधः स्मृतः ॥ए
(विओलतिओन् ओf मैदेन्स्)
मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0